असञ्ज्ञायाम् इति प्रकृति-विशेषणम् । दिक्-पूर्वपदात् प्रातिपदिकात् असञ्ज्ञा-विषयात् ञः पत्ययो ह्बवति शैषिकः । अणो ऽपवदः । पौर्वशालः । दाक्षिणशालः । आपरशालः । असञ्ज्ञायाम् इति किम् ? पूर्वैषुकामशमः । अपरैषुकामशमः । दिक्षङ्ख्ये सञ्ज्ञायाम् (*२,१।५०) इति समासः । प्राचां ग्रामनगराणाम् इति उत्तरपद-वृद्धिः । पद-ग्रहणं स्वरूपविधिनिरासार्थम् ॥ मद्रेभ्यो ऽञ्
asañjñāyām iti prakṛti-viśeṣaṇam / dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt ñaḥ patyayo hbavati śaiṣikaḥ / aṇo 'pavadaḥ / paurvaśālaḥ / dākṣiṇaśālaḥ / āparaśālaḥ / asañjñāyām iti kim ? pūrvaiṣukāmaśamaḥ / aparaiṣukāmaśamaḥ / dikṣaṅkhye sañjñāyām (*2,1.50) iti samāsaḥ / prācāṃ grāmanagarāṇām iti uttarapada-vṛddhiḥ / pada-grahaṇaṃ svarūpavidhinirāsārtham // madrebhyo 'ñ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.