जनपद-तदवध्योः इत्य् एव । अवृद्धाद् वृद्धाच् च जनपदात् तदवधि-वाचिनश् च बहुवनच-विषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैसिकः । अण्छयोर् अपवादः । अवृद्धाज् जनपदात् तावत् - अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज् जनपद-अवधेः - अजमीढाः । अजक्रन्द्राः । आजमीढकः । आजक्रन्दकः । वृद्धाज् जनपदात् - दार्वाः । जाम्ब्वाः । दार्वकः । जाम्ब्वकः । वृद्धाज् जनपदावधेः - कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः । विषय-ग्रहणमनयत्र भावार्थम् । जनपद-एकशेष-बहुत्वे मा भूत् । वर्तन्यः । वार्तनः । अपिग्रहणं किम् यावता वृद्धात पूर्वेण+एव सिद्धम् ? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते ॥ कच्छ-अग्नि-वक्त्र-गर्त-उत्तरपदात्
janapada-tadavadhyoḥ ity eva / avṛddhād vṛddhāc ca janapadāt tadavadhi-vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ / aṇchayor apavādaḥ / avṛddhāj janapadāt tāvat - aṅgāḥ / vaṅgāḥ / kaliṅgāḥ / āṅgakaḥ / vāṅgakaḥ / kāliṅgakaḥ / avṛddhāj janapada-avadheḥ - ajamīḍhāḥ / ajakrandrāḥ / ājamīḍhakaḥ / ājakrandakaḥ / vṛddhāj janapadāt - dārvāḥ / jāmbvāḥ / dārvakaḥ / jāmbvakaḥ / vṛddhāj janapadāvadheḥ - kālañjarāḥ / vaikuliśāḥ / kālañjarakaḥ / vaikuliśakaḥ / viṣaya-grahaṇamanayatra bhāvārtham / janapada-ekaśeṣa-bahutve mā bhūt / vartanyaḥ / vārtanaḥ / apigrahaṇaṃ kim yāvatā vṛddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena bādhā mā vijñāyi iti samuccīyate // kaccha-agni-vaktra-garta-uttarapadāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.