भैरिक्यादिभ्यः ऐषुकार्यादिभ्यश् च यथासङ्ख्यं विधल् भक्तल् इत्य् एतौ प्रत्ययौ भवतः विषयो देशे इत्य् एतस्मिन् विषये । अणो ऽपवादः । भौरिकिविधः । वैपेयविधः । ऐषुकार्यादिभ्यः - ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि । वैपेय । भौलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक । शैकयत । वैकयत । ऐषुकारि । सारस्यायन । चान्द्रायण । द्व्याक्षायण । त्र्याक्षायण । औडायन । जौलायन । खाडायन । सौवीर । दासमित्रि । दासमित्रायण । शौद्राण । दाक्षायण । शयण्ड । तार्क्ष्यायण । शौभ्रायण । सायण्डि । शौण्दि । वैश्वमाणव । वैश्वधेनव । नद । तुण्डदेव । विशदेव ॥ सो ऽस्य-आदिर् इति च्छन्दसः प्रगाथेषु
bhairikyādibhyaḥ aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye / aṇo 'pavādaḥ / bhaurikividhaḥ / vaipeyavidhaḥ / aiṣukāryādibhyaḥ - aiṣukāribhaktaḥ / sārasyāyanabhaktaḥ / bhauriki / vaipeya / bhauliki / caiṭayata / kāṇeya / vāṇijaka / vālija / vālijyaka / śaikayata / vaikayata / aiṣukāri / sārasyāyana / cāndrāyaṇa / dvyākṣāyaṇa / tryākṣāyaṇa / auḍāyana / jaulāyana / khāḍāyana / sauvīra / dāsamitri / dāsamitrāyaṇa / śaudrāṇa / dākṣāyaṇa / śayaṇḍa / tārkṣyāyaṇa / śaubhrāyaṇa / sāyaṇḍi / śauṇdi / vaiśvamāṇava / vaiśvadhenava / nada / tuṇḍadeva / viśadeva // so 'sya-ādir iti cchandasaḥ pragātheṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.