कठेन प्रोक्तम् अधीयते कठाः । मौदाः । पैप्पलादाः । आर्चाभिनः । वाजसनेयिनः । ब्राहमणानि खल्व् अपि - ताण्डिनः । भाल्ल्लविनः । शाट्यायनिनः । ऐतरेयिणः । ब्राह्मण-ग्रहणं किं, यावता छन्द एव तद् ? ब्राह्मणविशेष-प्रतिपत्त्य्-अर्थम् । इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि । सौलभानि । चकारो ऽनुक्त-समुच्चय-अर्थः । कल्पे - काश्यपिनः । कौशिकिनः । सूत्रे - पाराशरिणो भिक्षवः । शैलालिनो नटाः । कर्मन्दिनः । कृशाश्विनः । छन्दो-ब्राह्मणानि इति किम् ? पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ॥ तद् अस्मिन्न् अस्ति इति देशे तन्नाम्नि
kaṭhena proktam adhīyate kaṭhāḥ / maudāḥ / paippalādāḥ / ārcābhinaḥ / vājasaneyinaḥ / brāhamaṇāni khalv api - tāṇḍinaḥ / bhālllavinaḥ / śāṭyāyaninaḥ / aitareyiṇaḥ / brāhmaṇa-grahaṇaṃ kiṃ, yāvatā chanda eva tad ? brāhmaṇaviśeṣa-pratipatty-artham / iha tadviṣayatā mā bhūt, yājñavalkyena proktāni brāhmanṇāni yājñavalkyāni / saulabhāni / cakāro 'nukta-samuccaya-arthaḥ / kalpe - kāśyapinaḥ / kauśikinaḥ / sūtre - pārāśariṇo bhikṣavaḥ / śailālino naṭāḥ / karmandinaḥ / kṛśāśvinaḥ / chando-brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam / paiṅgī kalpaḥ // tad asminn asti iti deśe tannāmni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.