शण्डिक इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सो ऽस्य अभिजनः इत्य् एतस्मिन् विषये । अणादेर् अपवादः । शाण्डिक्यः । सार्वसेन्यः । शण्डिक । सर्वसेन । सर्वकेश । शक । सट । रक । शङ्ख । बोध । शण्डिकादिः ॥ सिन्धु-तक्षशिला-आदिभ्यो ऽण्-अञौ
śaṇḍika ity evam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijanaḥ ity etasmin viṣaye / aṇāder apavādaḥ / śāṇḍikyaḥ / sārvasenyaḥ / śaṇḍika / sarvasena / sarvakeśa / śaka / saṭa / raka / śaṅkha / bodha / śaṇḍikādiḥ // sindhu-takṣaśilā-ādibhyo 'ṇ-añau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.