तद्वान् इति निर्देशाद् एव समर्थविभक्तिः । मतुब्-अन्तात् प्रातिपदिकात् प्रथमासमर्थाद् आसाम् इति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थम् उपधानो मन्त्रश् चेत् स भवति, यत् तद् आसाम् इति निर्दिष्टम् इष्टकाश् चेत् ता भवन्ति । लुक् च मतोः इति प्रकृतिनिर्हृआसः । इतिकरणस् ततश् चेद् विवक्षा । तद्वान् इत्य् अवयवेन समुदायो व्यपदिश्यते । वर्चः-शब्दो यस्मिन् मन्त्रे ऽस्ति स वर्चस्वान् । उपधीयते येन स उपधानः । चयनवचनः इत्य् अर्थः । वर्चस्वानुपधानमन्त्रः आसाम् इष्टकानाम् इति विगृह्य यति विहिते मतोर् लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति । पयस्याः । रेतस्याः । तद्वान् इति किम् ? मन्त्रसमुदायाद् एव मा भूत् । उपधानः इति किम् ? वर्चस्वान् उपस्थानमन्त्रः आसाम् इत्य् अत्र मा भूत् । मन्त्रः इति किम् ? अङ्गुलिमानुपधानो हस्तः आसाम् इत्य् अत्र मा भूत् । इष्टकासु इति किम् ? अङ्गुलिमानुपधानो हस्त आसाम् इत्य् अत्र मा भूत् । इति-करणो नियमार्थः । अनेकपदसम्भवे ऽपि केनचिद् एव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण ॥ अश्विमानण्
tadvān iti nirdeśād eva samarthavibhaktiḥ / matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet tā bhavanti / luk ca matoḥ iti prakṛtinirhṛāsaḥ / itikaraṇas tataś ced vivakṣā / tadvān ity avayavena samudāyo vyapadiśyate / varcaḥ-śabdo yasmin mantre 'sti sa varcasvān / upadhīyate yena sa upadhānaḥ / cayanavacanaḥ ity arthaḥ / varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigṛhya yati vihite mator luki kṛte, varcasyā upadadhāti, tejasyā upadadhāti / payasyāḥ / retasyāḥ / tadvān iti kim ? mantrasamudāyād eva mā bhūt / upadhānaḥ iti kim ? varcasvān upasthānamantraḥ āsām ity atra mā bhūt / mantraḥ iti kim ? aṅgulimānupadhāno hastaḥ āsām ity atra mā bhūt / iṣṭakāsu iti kim ? aṅgulimānupadhāno hasta āsām ity atra mā bhūt / iti-karaṇo niyamārthaḥ / anekapadasambhave 'pi kenacid eva padena tadvān mantro gṛhyate, na sarveṇa // aśvimānaṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.