शरीर-अवयवाद् यत् (*५,२।६) - दन्त्यम्, राजदन्त्यम् इत्य् एवमादि सिध्दं भवति । इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिर् इष्यते । पारायण-तुरायण-चान्द्रायणं वर्तयति (*५,१।७२) - द्वैपारायणिकः, त्रैपारायणिकः । लुगन्तायाः तु प्रकृतेर् न+इष्यते । द्वाभ्यां शूर्पाभ्यां क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् इति तदन्तविधि-प्रतिषेधात् शूर्पाद् अञ् अन्यत्रस्याम् (*५,१।२६) इति अञ् न भवति । सामान्यविहितष् ठञ् एव भवति । द्विशौर्पिकम् । ठञो द्विगुं प्रत्यनिमित्ताल् लुगभावः । तथा च+उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्त्-अग्रहणम् अलुकि इति । निष्क । पण । पाद । माष । वाह । द्रोण । षष्ति । निष्कादिः ॥ शताच् च ठन्यताव् अशते
śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam ity evamādi sidhdaṃ bhavati / ita uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate / pārāyaṇa-turāyaṇa-cāndrāyaṇaṃ vartayati (*5,1.72) - dvaipārāyaṇikaḥ, traipārāyaṇikaḥ / lugantāyāḥ tu prakṛter na+iṣyate / dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam / triśūrpam / dviśūrpeṇa krītam iti tadantavidhi-pratiṣedhāt śūrpād añ anyatrasyām (*5,1.26) iti añ na bhavati / sāmānyavihitaṣ ṭhañ eva bhavati / dviśaurpikam / ṭhaño dviguṃ pratyanimittāl lugabhāvaḥ / tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ tadant-agrahaṇam aluki iti / niṣka / paṇa / pāda / māṣa / vāha / droṇa / ṣaṣti / niṣkādiḥ // śatāc ca ṭhanyatāv aśate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.