आर्हात् इत्य् एव । शत-शब्दात् ठन्यतौ प्रत्ययौ भवतः अशते ऽधिधेये आर्हीयेष्व् अर्थेषु । कनो ऽपवादः । शतेन क्रीतं शतिकम्, शत्यम् । अशते इति किम् ? शतं परिमाणम् अस्य शतकं निदानम् । प्रत्ययार्थो ऽत्र सङ्घः । शतम् एव वस्तुतः प्रकृत्यर्थान् न भिद्यते । इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतम् इति । वाक्येन ह्य् अत्र प्रत्यय-अर्थस्य तत्त्वं गम्यते, न श्रुत्या । तथा च+उक्तम्, शतप्रतिशेधे ऽन्यशतत्वे ऽप्रतिषेधः इति । चकारो ऽसमास इत्य् अनुकर्षण-अर्थः । द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकम् । त्रिशतकम् । प्राग्वतेः सङ्ख्या-पूर्वपदानां तदन्तग्रहणम् अलुकि इत्य् अनया इष्ट्या समासाद् अपि प्राप्नोति ॥ सङ्ख्याया अति-शद्-अन्तायाः कन्
ārhāt ity eva / śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv artheṣu / kano 'pavādaḥ / śatena krītaṃ śatikam, śatyam / aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam / pratyayārtho 'tra saṅghaḥ / śatam eva vastutaḥ prakṛtyarthān na bhidyate / iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam iti / vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā / tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti / cakāro 'samāsa ity anukarṣaṇa-arthaḥ / dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam / triśatakam / prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti // saṅkhyāyā ati-śad-antāyāḥ kan
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.