इन्द्रियम् इत्य् अन्तोदात्तं शब्दरूपं निपात्यते । रूढिर् एषा चक्षुरादिनां करणानम् । तथा च व्युत्पत्तेर् अनियमं दर्शयति । इन्द्र-शब्दात् षष्ठीसमर्थात् लिङ्गम् इत्य् एतस्मिन्न् अर्थे घच्-प्रत्ययो भवति । इन्द्रस्य् लिङ्गम् इन्द्रियम् । इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते । नाकर्तृकं करणम् अस्ति । इन्द्रेण दृष्टम् । तृतीयासमर्थात् प्रत्ययः । आत्मना दृष्टम् इत्य् अर्थः । इन्द्रेण सृष्टम्, आत्मना सृष्टम् । तत्कृतेन शुभाशुभकर्मणोत्पन्नम् इति कृत्वा । इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितम् । तद्द्वारेण विज्ञानोत्पादनात् । इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय । इतिकरणः प्रकारार्थः । सति सम्भवे व्युत्पत्तिर् अन्यथा ऽपि कर्तव्या, रूढेरनियमात् इति । वाशब्दः प्रत्येकम् अभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यम् दर्शयति ॥ तद् अस्य अस्त्य् अस्मिन्न् इति मतुप्
indriyam ity antodāttaṃ śabdarūpaṃ nipātyate / rūḍhir eṣā cakṣurādināṃ karaṇānam / tathā ca vyutpatter aniyamaṃ darśayati / indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac-pratyayo bhavati / indrasy liṅgam indriyam / indra ātmā, sa cakṣurādinā karaṇena anumīyate / nākartṛkaṃ karaṇam asti / indreṇa dṛṣṭam / tṛtīyāsamarthāt pratyayaḥ / ātmanā dṛṣṭam ity arthaḥ / indreṇa sṛṣṭam, ātmanā sṛṣṭam / tatkṛtena śubhāśubhakarmaṇotpannam iti kṛtvā / indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam / taddvāreṇa vijñānotpādanāt / indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya / itikaraṇaḥ prakārārthaḥ / sati sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt iti / vāśabdaḥ pratyekam abhisambadhyamāno vikalpānāṃ svātantryam darśayati // tad asya asty asminn iti matup
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.