भूम्नि तावत् - गोमान् । निन्दायाम् - कुष्ठी । ककुदावर्तिनी । प्रशंसायाम् - रूपवती कन्या । नित्ययोगे - क्षीरिणो वृक्षाः । अतिशायने - उदरिणी कन्या । संसर्गे - दण्डी । छत्री । अस्तिविवक्षायाम् - अस्तिमान् । गुणवचनेभ्यो मतुपो लुग्वक्तव्यः । शुक्लो गुणो ऽस्य अस्ति शुक्लः पटः । कृष्णः । श्वेतः ॥ रसादिभ्यश् च
bhūmni tāvat - gomān / nindāyām - kuṣṭhī / kakudāvartinī / praśaṃsāyām - rūpavatī kanyā / nityayoge - kṣīriṇo vṛkṣāḥ / atiśāyane - udariṇī kanyā / saṃsarge - daṇḍī / chatrī / astivivakṣāyām - astimān / guṇavacanebhyo matupo lugvaktavyaḥ / śuklo guṇo 'sya asti śuklaḥ paṭaḥ / kṛṣṇaḥ / śvetaḥ // rasādibhyaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.