आयुधजीविसङ्घात् इति वर्तते । दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति । येषाम् आयुधजीविनां सङ्घानां षडन्तवर्गास् तेषाम् च त्रिगर्तः षष्ठः । त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्य् उच्यन्ते । तेषु च+इयं स्मृतिः -- आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी । क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तो ऽर्थ जानकिः ॥ इति । दामन्यादिभ्यस् तावत् - दामनीयः, दामनीयौ, दामनयः । औलपीयः, औलपीयौ, उलपयः । त्रिगर्तषष्ठेभ्यः खल्व् अपि - कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः । दाण्डकीयः, दाण्डकीयौ, दाण्डकयः । कौष्टकीयः । जालमानीयः । ब्रहमगुप्तीयः । जानकीयः । दामनी । औलपि । आकिदन्ती । काकरन्ति । काकदन्ति । शत्रुन्तपि । सार्वसेनि । बिन्दु । मौञ्जायन । उलभ । सावित्रीपुत्र । दामन्यादिः ॥ पर्श्वादि-यौधेयादिभ्याम् अण्-अञौ
āyudhajīvisaṅghāt iti vartate / dāmanyādibhyaḥ prātipadikebhyaḥ trigartaṣaṣṭhebhyaḥ ca āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati / yeṣām āyudhajīvināṃ saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ / trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante / teṣu ca+iyaṃ smṛtiḥ -- āhustrigartaṣaṣṭhāṃstu kauṇḍoparathadāṇḍakī / krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ // iti / dāmanyādibhyas tāvat - dāmanīyaḥ, dāmanīyau, dāmanayaḥ / aulapīyaḥ, aulapīyau, ulapayaḥ / trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, kauṇḍoparathāḥ / dāṇḍakīyaḥ, dāṇḍakīyau, dāṇḍakayaḥ / kauṣṭakīyaḥ / jālamānīyaḥ / brahamaguptīyaḥ / jānakīyaḥ / dāmanī / aulapi / ākidantī / kākaranti / kākadanti / śatruntapi / sārvaseni / bindu / mauñjāyana / ulabha / sāvitrīputra / dāmanyādiḥ // parśvādi-yaudheyādibhyām aṇ-añau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.