अरुःप्रभ्र्तीनाम् अन्तस्य लोपो भवति च्विश् च प्रत्ययः । अत्र सर्वविशेषणसम्बन्धात् पूर्वेण+एव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः । अनरुररुः सम्पद्यते, तं करोति अरूकरोति । अरूभवति । अरूस्यात् । मनस् - उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । चक्षुस् - उच्चक्षूकरोति । उच्चक्षूभवति । उच्चक्षूस्यात् । चेतस् - विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । रहस् - विरहीकरोति । विरहीभवति । विरहीस्यात् । रजस् - विरजीकरोति । विरजीभवति । विरजीस्यात् ॥ विभाषा साति कार्त्स्न्ये
aruḥprabhrtīnām antasya lopo bhavati cviś ca pratyayaḥ / atra sarvaviśeṣaṇasambandhāt pūrveṇa+eva pratyayaḥ siddhaḥ, lopamātrārtha ārambhaḥ / anaruraruḥ sampadyate, taṃ karoti arūkaroti / arūbhavati / arūsyāt / manas - unmanīkaroti / unmanībhavati / unmanīsyāt / cakṣus - uccakṣūkaroti / uccakṣūbhavati / uccakṣūsyāt / cetas - vicetīkaroti / vicetībhavati / vicetīsyāt / rahas - virahīkaroti / virahībhavati / virahīsyāt / rajas - virajīkaroti / virajībhavati / virajīsyāt // vibhāṣā sāti kārtsnye
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.