कृभ्वस्तियोगे इत्य् अनुवर्तते । यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः । डाचि बहुलं द्वे भवतः इति विषयसप्तमी । डाचि विवक्षिते द्विर्वचनम् एव पूर्वं क्रियते, पश्चात् प्रत्ययः । पटपटाकरोति । पटपटाभवति । पटपटास्यात् । दमदमाकरोति । दमदमाभवति । दमदमास्यात् । अव्यक्तानुकरणात् इति किम् ? दृषत्करोति । द्वजवरार्धात् इति किम् ? श्रत्करोति । अवरग्रहणम् किम् ? खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनितौ इति किम् ? पटिति करोति । चकारः स्वरार्थः, स्वरितबाधनार्थः । पटपटासि, अत्र स्वरितो वा ऽनुदात्ते पदादौ (*८,२।६) इति स्वरितो न भवति । केचिद् द्व्यजवरार्ध्याद् इति यकारं पठन्ति, स स्वर्थिको विज्ञेयः ॥ कृञो द्वितीय-तृतीय-शम्ब-बीजात् कृषौ
kṛbhvastiyoge ity anuvartate / yasya ca dvirvacane kṛte dvyajavarārdhaṃ tataḥ pratyayaḥ / ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī / ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ / paṭapaṭākaroti / paṭapaṭābhavati / paṭapaṭāsyāt / damadamākaroti / damadamābhavati / damadamāsyāt / avyaktānukaraṇāt iti kim ? dṛṣatkaroti / dvajavarārdhāt iti kim ? śratkaroti / avaragrahaṇam kim ? kharaṭakharaṭākaroti / trapaṭatrapaṭākaroti / anitau iti kim ? paṭiti karoti / cakāraḥ svarārthaḥ, svaritabādhanārthaḥ / paṭapaṭāsi, atra svarito vā 'nudātte padādau (*8,2.6) iti svarito na bhavati / kecid dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko vijñeyaḥ // kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.