द्वितीय-तृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, न अन्यत्र । पुनः कृञ्ग्रहणम् भ्वस्त्योर् निवृत्त्यर्थम् । द्वितीयाकरोति । द्वितीयं कर्षणं विलेखनं करोति इत्य् अर्थः । तृतीयाकरोति । शम्बाकरोति । अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्य् अर्थः । बीजाकरोति । सह बीजेन विलेहनं करोति इत्य् अर्थः । कृषौ इति किम् ? क्वितीयं करोति पदम् ॥ सङ्ख्यायाश् च गुणान्तायाः
dvitīya-tṛtīyādibhyaḥ śabdebhyaḥ kṛṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kṛño yoge, na anyatra / punaḥ kṛñgrahaṇam bhvastyor nivṛttyartham / dvitīyākaroti / dvitīyaṃ karṣaṇaṃ vilekhanaṃ karoti ity arthaḥ / tṛtīyākaroti / śambākaroti / anulomakṛṣṭaṃ kṣetraṃ punaḥ pratilomaṃ kṛṣati ity arthaḥ / bījākaroti / saha bījena vilehanaṃ karoti ity arthaḥ / kṛṣau iti kim ? kvitīyaṃ karoti padam // saṅkhyāyāś ca guṇāntāyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.