ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । टिलोपो निपात्यते । पादौ च अष्ठीवन्तौ च पदष्ठीवम् । पादस्य पद्भावो निपात्यते । नक्तं च दिवा च नक्तंदिवम् । दप्तम्यर्थवृत्तयोर् अव्यययोः समासो ऽपि निपातनाद् एव । रात्रौ च दिवा च रात्रिंदिवम् । पूर्वपदस्य मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । ननु च पर्यायावेतौ, कथम् अनयोर् द्वन्द्वः ? वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनि इत्य् अर्थः । एको ऽव्यव्यीभावः साकल्ये - सरजसमभ्यवहरति । बहुव्रीहौ न भवति, सह रजसा सरजः पङ्कजम् इति । ततः तत्पुरुषः - निश्चितं श्रेयो निःश्रेयसम् । निःश्रेयस्कः पुरुषः इत्य् अत्र न भवति । ततः षष्ठीसमासः - पुरुषस्य आयुः पुरुषायुषम् । द्वन्द्वे न भवति, पुरुषश्च आयुश्च पुरुषायुषी । ततो द्विगू - द्वे आयुषी समाहृते द्व्यायुषम् । त्र्यायुषम् । इह न भवति, द्व्योर् आयुः द्व्यायुः त्र्यायुः इति । ततो द्वन्द्वः - ऋक् च यजुश् च ऋग्यजुषम् । इह न भवति, ऋग्यजुरस्य उन्मुग्धस्य ऋग्यजुरुन्मुग्धः । जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः - जातोक्षः । महोक्षः । वृद्धोक्षः । बहुव्रीहौ न भवति, जातोक्षा ब्राह्मणः । महोक्षा, वृद्धोक्षा इति । ततो ऽव्ययीभावः - शुनः समीपम् उपशुनम् । टिलोपाभावः सम्प्रसारणं च निपातनाद् एव । ततः सप्तमीसमासः - गोष्ठे श्वा गोष्ठश्वः । चतुरो ऽच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् । त्रिचतुराः । उपचतुराः ॥ ब्रह्महस्तिभ्यां वर्चसः
ūrū ca aṣṭhīvantau ca ūrvaṣṭhīvam / ṭilopo nipātyate / pādau ca aṣṭhīvantau ca padaṣṭhīvam / pādasya padbhāvo nipātyate / naktaṃ ca divā ca naktaṃdivam / daptamyarthavṛttayor avyayayoḥ samāso 'pi nipātanād eva / rātrau ca divā ca rātriṃdivam / pūrvapadasya māntatvaṃ nipātyate / ahani ca divā ca ahardivam / nanu ca paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate / ahanyahani ity arthaḥ / eko 'vyavyībhāvaḥ sākalye - sarajasamabhyavaharati / bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam iti / tataḥ tatpuruṣaḥ - niścitaṃ śreyo niḥśreyasam / niḥśreyaskaḥ puruṣaḥ ity atra na bhavati / tataḥ ṣaṣṭhīsamāsaḥ - puruṣasya āyuḥ puruṣāyuṣam / dvandve na bhavati, puruṣaśca āyuśca puruṣāyuṣī / tato dvigū - dve āyuṣī samāhṛte dvyāyuṣam / tryāyuṣam / iha na bhavati, dvyor āyuḥ dvyāyuḥ tryāyuḥ iti / tato dvandvaḥ - ṛk ca yajuś ca ṛgyajuṣam / iha na bhavati, ṛgyajurasya unmugdhasya ṛgyajurunmugdhaḥ / jātādipūrvapadā ukṣaśabdāntāstrayaḥ karmadhārayāḥ - jātokṣaḥ / mahokṣaḥ / vṛddhokṣaḥ / bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ / mahokṣā, vṛddhokṣā iti / tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam / ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva / tataḥ saptamīsamāsaḥ - goṣṭhe śvā goṣṭhaśvaḥ / caturo 'cprakaraṇe tryupābhyām upasaṅkhyānam / tricaturāḥ / upacaturāḥ // brahmahastibhyāṃ varcasaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.