प्रकृत्या पूर्वपदम्, तत्पुरुषे इति वर्तते । आशङ्क आबाध नेदियस् इत्य् एतेषु उत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । अस्तित्वाध्यवसायः सम्भावनम् । गमनाशङ्कं वर्तते । गमनमाशङ्क्यते इति सम्भाव्यते । वचनाशङ्कम् । व्याहरणाशङ्कम् । आबाध - गमनाबाधम् । वचनाबाधम् । व्यहरणाबाधम् । गमनं बाध्यते इति सम्भाव्यते । नेदीयस् - गमननेदीयः । व्याहरणनेदीयः । गमनमतिनिकटतरम् इति सम्भाव्यते । सम्भावने इति किम् ? परमनेदियः । पूर्वपदानि ल्युडन्तान्य् उक्तस्वराणि ॥ पूर्वे भूतपूर्वे
prakṛtyā pūrvapadam, tatpuruṣe iti vartate / āśaṅka ābādha nediyas ity eteṣu uttarapadeṣu sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati / astitvādhyavasāyaḥ sambhāvanam / gamanāśaṅkaṃ vartate / gamanamāśaṅkyate iti sambhāvyate / vacanāśaṅkam / vyāharaṇāśaṅkam / ābādha - gamanābādham / vacanābādham / vyaharaṇābādham / gamanaṃ bādhyate iti sambhāvyate / nedīyas - gamananedīyaḥ / vyāharaṇanedīyaḥ / gamanamatinikaṭataram iti sambhāvyate / sambhāvane iti kim ? paramanediyaḥ / pūrvapadāni lyuḍantāny uktasvarāṇi // pūrve bhūtapūrve
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.