श्र ज्य अवम कन् इत्य् एतेषु पापशब्दवति च+उत्तरपदे कर्मधार्ये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति । गमनश्रेष्ठम् । गमनश्रेयः । ज्य - वचनज्येष्ठम् । वचनज्यायः । अवम - गमनावमम् । वचनावमम् । कन् - गमनकनिष्ठम् । गमनकनीयः । पापवत् - गमनपापिष्ठम् । गमनपापीयः । ल्युडन्तान्य् एतानि पूर्वपदानि लित्स्वरेण आद्युदात्तानि । श्रज्यकनाम् आदेशानां ग्रहणम् इति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते । आदिष्व् इति किम् ? गमनशोभनम् । भावे इति किम् ? गम्यते ऽनेन इति गमनं तत् श्रेयः, गमनश्रेयः । कर्मधारये इति किम् ? गमनं श्रेयः गमनश्रेयः ॥ कुमारश् च
śra jya avama kan ity eteṣu pāpaśabdavati ca+uttarapade karmadhārye samāse bhāvavāci pūrvapadaṃ prakṛtisvaraṃ bhavati / gamanaśreṣṭham / gamanaśreyaḥ / jya - vacanajyeṣṭham / vacanajyāyaḥ / avama - gamanāvamam / vacanāvamam / kan - gamanakaniṣṭham / gamanakanīyaḥ / pāpavat - gamanapāpiṣṭham / gamanapāpīyaḥ / lyuḍantāny etāni pūrvapadāni litsvareṇa ādyudāttāni / śrajyakanām ādeśānāṃ grahaṇam iti sāmarthyāttadvaduttarapadaṃ gṛhyate / ādiṣv iti kim ? gamanaśobhanam / bhāve iti kim ? gamyate 'nena iti gamanaṃ tat śreyaḥ, gamanaśreyaḥ / karmadhāraye iti kim ? gamanaṃ śreyaḥ gamanaśreyaḥ // kumāraś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.