इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्य् एतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति । इगन्त - पञ्चारत्निः । दशारत्निः । पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर् नित्यम् इति मात्रचो लोपः । इगन्त । काल - पञ्चमास्यः । दशमास्यः । पञ्च मासान् भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर् यप् (*५,१।८२) । पञ्चवर्षः । दशवर्षः । वर्षाल् लुक् च (*५,१।८८) इति ठञो लुक् । काल । कपाल - पञ्चकपालः । दशकपालः । कपाल । भगाल - पञ्चभगालः । दशभगालः । भगाल । शराव - पञ्चशरावः । दशशरावः । संस्कृतं भक्षाः (*४,२।१६) इति तद्धितार्थे एते समासाः द्विगोर् लुग् अनपत्ये (*४,१।८८) इति कृताण्प्रत्ययलोपा द्रष्टव्याः । इगन्तादिषु इति किम् ? पञ्चभिर् अश्वैः क्रीतः पञ्चाश्वः । दशाश्वः । द्विगौ इति किम् ? परमारत्निः । परमशरावम् । पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोर् असिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते ॥ बह्व्-अन्यतरस्याम्
igante uttarapade, kālavācini, kapāla bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ prakṛtisvaraṃ bhavati / iganta - pañcāratniḥ / daśāratniḥ / pañcāratnayaḥ pramāṇamasya, daśāratnayaḥ pramāṇamasya iti taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco lopaḥ / iganta / kāla - pañcamāsyaḥ / daśamāsyaḥ / pañca māsān bhṛto bhūto bhāvī vā iti taddhitārthe dvigor yap (*5,1.82) / pañcavarṣaḥ / daśavarṣaḥ / varṣāl luk ca (*5,1.88) iti ṭhaño luk / kāla / kapāla - pañcakapālaḥ / daśakapālaḥ / kapāla / bhagāla - pañcabhagālaḥ / daśabhagālaḥ / bhagāla / śarāva - pañcaśarāvaḥ / daśaśarāvaḥ / saṃskṛtaṃ bhakṣāḥ (*4,2.16) iti taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti kṛtāṇpratyayalopā draṣṭavyāḥ / igantādiṣu iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ / daśāśvaḥ / dvigau iti kim ? paramāratniḥ / paramaśarāvam / pañcāratnyo daśāratnyaḥ iti ca yaṇguṇayoḥ bahiraṅgalakṣaṇayor asiddhatvāt sthānivadbhāvād vā dvigusvara igantalakṣaṇaḥ pravartate // bahv-anyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.