कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्याः अण्डम् कुक्कुटाण्डम् । मृग्याः पदम् मृगपदम् । मृग्याः क्षीरम् मृगक्षीरम् । काक्याः शावः काकशावः । न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्त्रीत्वेन विना पूर्वपदार्थो ऽत्र जतिः सामान्येन विवक्षितः । पुंवद्भावात् ह्रस्वत्वम् खिद्घादिषु भवति विप्रतिषेधेन । खित् - कालिम्मन्या । हरिणिम्मन्या । घादि - पट्वितरा । पट्वितमा । पट्विरूपा । पट्विकल्पा । क - पट्विका । मृद्विका । इह इडबिड्, दरद्, पृथु, उशिज् इत्य् एते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्च इति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते । ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते । ऐडबिडवृन्दारिका । औशिजवृन्दारिका ॥ घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः
kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ / kukkuṭyāḥ aṇḍam kukkuṭāṇḍam / mṛgyāḥ padam mṛgapadam / mṛgyāḥ kṣīram mṛgakṣīram / kākyāḥ śāvaḥ kākaśāvaḥ / na vā astrīpūrvapadasya vivakṣitatvāt / strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ / puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena / khit - kālimmanyā / hariṇimmanyā / ghādi - paṭvitarā / paṭvitamā / paṭvirūpā / paṭvikalpā / ka - paṭvikā / mṛdvikā / iha iḍabiḍ, darad, pṛthu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kṛte iḍabiḍvṛndārikā iti vigṛhya samāsaḥ kriyate / tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante / aiḍabiḍavṛndārikā / auśijavṛndārikā // gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.