रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति । क्षर - अक्षारीत् । त्सर - अत्सारीत् । ज्वल - अज्वालीत् । ह्मल - अह्मालीत् । अतो हलादेर् लघोः (*७,२।७) इति विकल्पस्य अयम् अपवादः । अतः इति किम् ? न्यखोरीत् । न्यमीलीत् । ल्रान्तस्य इति किम् ? मा भवान् अटीत् । मा भवानशीत् । अन्तग्रहणं किम् ? अवभ्रीत् । अश्वल्लीत् । अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ ॥ वद-व्रज-हलन्तस्य अचः
rephalakārau yāvataḥ antau samīpau tadantasya aṅgasya ata eva sthāne vṛddhiḥ bhavati / kṣara - akṣārīt / tsara - atsārīt / jvala - ajvālīt / hmala - ahmālīt / ato halāder laghoḥ (*7,2.7) iti vikalpasya ayam apavādaḥ / ataḥ iti kim ? nyakhorīt / nyamīlīt / lrāntasya iti kim ? mā bhavān aṭīt / mā bhavānaśīt / antagrahaṇaṃ kim ? avabhrīt / aśvallīt / atra yau rephalakārau aṅgasya antau na tāvataḥ samīpau // vada-vraja-halantasya acaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.