तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति । याता - ययाथ । चेता - चिचेथ । नेता - निनेथ । होता - जुहोथ । अचः इति किम् ? भेत्ता - बिभेदिथ । तास्वत् इति किम् ? लूत्वा - लुलविथ । थलि इति किम् ? याता - ययिव । ययिम । अनिड्ग्रहणं नित्यम् इत्य् अनेन विशेषणार्थम् । नित्यग्रहणं किम् ? विधोता, विधविता - विदुधविथ । तासि विभाषितेट्, थलि नित्यम् इडागमो भवति । तास्वत् इति वतिनिर्देशः किमर्थः ? तासौ ततस्थलि प्रतिषेधार्थः । यो हि तासावसन्, असत्त्वाच् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति । जघसिथ । उवयिथ । उत्तरसूत्रे ऽपि तास्वदिति वर्तते । अदादेशो हि घसिः, वेञादेशश् च वयिस्तासौ न अस्ति ॥ उपदेशे ऽत्वतः
tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva thali iḍāgamo na bhavati / yātā - yayātha / cetā - cicetha / netā - ninetha / hotā - juhotha / acaḥ iti kim ? bhettā - bibheditha / tāsvat iti kim ? lūtvā - lulavitha / thali iti kim ? yātā - yayiva / yayima / aniḍgrahaṇaṃ nityam ity anena viśeṣaṇārtham / nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha / tāsi vibhāṣiteṭ, thali nityam iḍāgamo bhavati / tāsvat iti vatinirdeśaḥ kimarthaḥ ? tāsau tatasthali pratiṣedhārthaḥ / yo hi tāsāvasan, asattvāc ca nityāniṭ, tasya thali pratiṣedho na bhavati / jaghasitha / uvayitha / uttarasūtre 'pi tāsvaditi vartate / adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau na asti // upadeśe 'tvataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.