केकय मित्रयु प्रलय इत्य् एतेषां यकारादेः इय इत्य् अयम् आदेशो भवति तद्धिते ञिति, णिति, किति च परतः । केकयस्य अपत्यम् कैकेयः । जनपदशब्दात् क्षत्रियाद् अञ् (*४,१।१६८) इति अञ् प्रत्ययः । मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते । गोत्र-चरणाच् छ्लाघा-अत्याकार-तदवेतेषु (*५,१।१३४) इति वुञ् । लौकिकं हि तत्र गोत्रं गृह्यते । लोके च ऋषिशब्दो गोत्रम् इत्य् अभिधीयते । प्रलय - प्रलयात् आगतम् प्रालेयम् उदकम् ॥ न य्-वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्याम् ऐच्
kekaya mitrayu pralaya ity eteṣāṃ yakārādeḥ iya ity ayam ādeśo bhavati taddhite ñiti, ṇiti, kiti ca parataḥ / kekayasya apatyam kaikeyaḥ / janapadaśabdāt kṣatriyād añ (*4,1.168) iti añ pratyayaḥ / mitrayubhāvena ślāghate maitreyikayā ślāghate / gotra-caraṇāc chlāghā-atyākāra-tadaveteṣu (*5,1.134) iti vuñ / laukikaṃ hi tatra gotraṃ gṛhyate / loke ca ṛṣiśabdo gotram ity abhidhīyate / pralaya - pralayāt āgatam prāleyam udakam // na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.