ऋतः यकि लिगि इति वर्तते । श इत्य् असम्भवात् निवृत्तम् । गुणो भवति अर्तेः संयोगादीनाम् ऋकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके । अर्यते । अर्यात् । स्मर्यते । स्मर्यात् । इह संस्क्रियते, संस्क्रियात् इति सुटो बहिरङ्गलक्षणस्य असिद्धत्वात् अभक्तत्वात् वा संयोगादित्वम् अङ्गस्य न अस्ति इति गुणो न प्रवर्तते । यि इत्य् एव, स्वृषीष्ट । ध्वृषीष्ट । असार्वधातुके इत्य् एव, इयृयात् ॥ यङि च
ṛtaḥ yaki ligi iti vartate / śa ity asambhavāt nivṛttam / guṇo bhavati arteḥ saṃyogādīnām ṛkārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke / aryate / aryāt / smaryate / smaryāt / iha saṃskriyate, saṃskriyāt iti suṭo bahiraṅgalakṣaṇasya asiddhatvāt abhaktatvāt vā saṃyogāditvam aṅgasya na asti iti guṇo na pravartate / yi ity eva, svṛṣīṣṭa / dhvṛṣīṣṭa / asārvadhātuke ity eva, iyṛyāt // yaṅi ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.