हरिनन्दनः । गिरिनगरम् । नृतिं यङि प्रयोजयन्ति - नरीनृयते । तृप्नु - तृप्नोति । नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति । परिनर्तनम्, परिगहनम् इति सञ्ज्ञायाम् पूर्वपदात् सञ्ज्ञायाम् इति प्राप्नोति । परिनन्दनम् इत्य् अत्र उपसर्गाद् असमासे ऽपि इति प्राप्नोति । शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्य् एताः सञ्ज्ञाः । आचार्यादणत्वं च । आचार्यभोजीनः । आचार्यानी । इरिकादिभ्यो वनोत्तरपदेभ्यः सञ्ज्ञयाम् । इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्य् उत्तरपदवनशब्दस्थस्य सञ्ज्ञायाम् । क्षुभ्नादिर् आकृतिगणः । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ॥ स्-तोः श्-चुना श्-चुः
harinandanaḥ / girinagaram / nṛtiṃ yaṅi prayojayanti - narīnṛyate / tṛpnu - tṛpnoti / nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni prayojayanti / parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti / parinandanam ity atra upasargād asamāse 'pi iti prāpnoti / śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity etāḥ sañjñāḥ / ācāryādaṇatvaṃ ca / ācāryabhojīnaḥ / ācāryānī / irikādibhyo vanottarapadebhyaḥ sañjñayām / irikā, timira, samīra, kubera, hari, karmāra ity uttarapadavanaśabdasthasya sañjñāyām / kṣubhnādir ākṛtigaṇaḥ / avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ // s-toḥ ś-cunā ś-cuḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.