प्रथमो ऽध्यायः नमः सरस्वत्यै । सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया नानावक्त्रविराजितं शशिकलापीडोच्छ्रया ऽलङ्कृतम् । आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा छंदःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवंद्यं वपुः ॥ १ कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः । तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य- छंदोवृत्तिं स चक्रे सुकविहृदयानंदनीनामधेयाम् ॥ २ शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह । सुखसंतानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम् । गौरीविनायकोपेतं शंकरं लोकशंकरम्
prathamo 'dhyāyaḥ namaḥ sarasvatyai / saśrīkaṃ prabhayā yutaṃ rucirayā prodbhāsitaṃ gaṅgayā nānāvaktravirājitaṃ śaśikalāpīḍocchrayā 'laṅkṛtam / āryopetamupasthitākhilagaṇasrakpūjitaṃ sarvadā chaṃdaḥśāstramiveśvarasya jayati trailokyavaṃdyaṃ vapuḥ // 1 kṛṣṇātreyasya gotre samajani purā dākṣiṇātyāgraṇīryo velādityābhidhānaḥ sukavirabhavadbhāsvarastasya sūnuḥ / tatputraḥ sulhaṇākhyaḥ sulalitapadāṃ vṛttaratnākarākhya- chaṃdovṛttiṃ sa cakre sukavihṛdayānaṃdanīnāmadheyām // 2 śāstrāraṃbhe śāstrakāra iṣṭādhikṛtadevatānamaskārapūrvakaśāstrasaṃbaṃdhaprayojanaṃ ślokatrayeṇāha / sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitam / gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaram
Sanskrit only: no published translation is held for this verse.
वेदार्थशैवशास्त्रज्ञः पव्येको ऽभूद्द्विजोत्तमः । तस्य पुत्रो ऽस्ति केदारः शिवपादार्चने रतः
vedārthaśaivaśāstrajñaḥ pavyeko 'bhūddvijottamaḥ / tasya putro 'sti kedāraḥ śivapādārcane rataḥ
Sanskrit only: no published translation is held for this verse.
तेनेदं क्रियते छन्दो लक्षलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखबुद्धये
tenedaṃ kriyate chando lakṣalakṣaṇasaṃyutam / vṛttaratnākaraṃ nāma bālānāṃ sukhabuddhaye
Sanskrit only: no published translation is held for this verse.
वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य पव्येको नाम द्विजोत्तमो ऽभूत्तस्य पव्येकस्य केदारनामा शिवचरणाराधनपरः पुत्रो ऽस्ति । तेन केदारेणेदं वक्ष्यमाणलक्षणं छन्दः क्रियते । लक्ष्यमुदाहरणं लक्षणं नियताक्षरमात्रागणरचना ताभ्यां संयुतं लक्षलक्षणसंयुतम् । किं नाम । वृत्तरत्नाकरं नाम । वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । सुखसिद्धये । सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । बालानां मन्दबुद्धीनाम् । किंकृत्वा । नत्वा । कम् । शंकरं महादेवम् । कथंभूतम् । लोकशंकरं लोकानां शं सुखं करोतीति लोकशंकरस्तम् । पुनः कथंभूतम् । ब्रह्माच्युतार्चितं विरंचिनारायणपूजितम् । पुनः कथंभूतं । गौरीविनायकोपेतं गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । सुखसंतानसिद्ध्यर्थम् । सुखं परं ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसंतानसिद्ध्यर्थम् । नत्वा प्रणम्येति संबंधः । त्रिभिर्विशेषकम् ॥ १-३ ॥ छन्दःशब्देन किमुच्यते इत्याह । पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते
vedānāmarthā vedārthāḥ / śivo devatā yeṣāṃ tāni śaivāni śāstrāṇi / vedārthāśca śaivaśāstrāṇi ca tāni jānātīti sa tathoktaḥ ya pavyeko nāma dvijottamo 'bhūttasya pavyekasya kedāranāmā śivacaraṇārādhanaparaḥ putro 'sti / tena kedāreṇedaṃ vakṣyamāṇalakṣaṇaṃ chandaḥ kriyate / lakṣyamudāharaṇaṃ lakṣaṇaṃ niyatākṣaramātrāgaṇaracanā tābhyāṃ saṃyutaṃ lakṣalakṣaṇasaṃyutam / kiṃ nāma / vṛttaratnākaraṃ nāma / vṛttāni śrīprabhṛtīni tānyeva ratnāni teṣāmākara utpattisthānam / kimarthaṃ / sukhasiddhaye / sukhena siddhiḥ sukhasiddhistasyai sukhasiddhaye / keṣām / bālānāṃ mandabuddhīnām / kiṃkṛtvā / natvā / kam / śaṃkaraṃ mahādevam / kathaṃbhūtam / lokaśaṃkaraṃ lokānāṃ śaṃ sukhaṃ karotīti lokaśaṃkarastam / punaḥ kathaṃbhūtam / brahmācyutārcitaṃ viraṃcinārāyaṇapūjitam / punaḥ kathaṃbhūtaṃ / gaurīvināyakopetaṃ gaurī ca vināyakaśca gaurīvināyakau tābhyāṃ upetaṃ saṃyutam / kimartham / sukhasaṃtānasiddhyartham / sukhaṃ paraṃ brahmānandātmakaṃ saṃtānaḥ putrapautrādi tayoḥ siddhiḥ prāptistadarthaṃ sukhasaṃtānasiddhyartham / natvā praṇamyeti saṃbaṃdhaḥ / tribhirviśeṣakam || 1-3 || chandaḥśabdena kimucyate ityāha / piṅgalādibhirācāryairyaduktaṃ laukikaṃ dvidhā / mātrāvarṇavibhedena chandastadiha kathyate
Sanskrit only: no published translation is held for this verse.
तदिदं शास्त्रे छन्दः कथ्यते । यत्पिंगलादिभिराचार्यैः छन्दःशास्त्रप्रयोक्तृभिरुक्तमभिहितम् । लौकिकं लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । द्विधा द्विप्रकारम् । कथमित्याशंकायां मात्रावर्णविभेदेनेत्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ ४ ॥ अथ ग्रन्थसंख्यामाह । षडध्यायनिबद्धस्य छन्दसो ऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं षट्त्रिंशदधिकं शतम्
tadidaṃ śāstre chandaḥ kathyate / yatpiṃgalādibhirācāryaiḥ chandaḥśāstraprayoktṛbhiruktamabhihitam / laukikaṃ loke bhavaṃ na vaidikaṃ / kāvyādiṣu tasyānupayogāt / dvidhā dviprakāram / kathamityāśaṃkāyāṃ mātrāvarṇavibhedenetyāha / mātrābhedena āryādi varṇabhedena śrīprabhṛti vṛttabhedeneti || 4 || atha granthasaṃkhyāmāha / ṣaḍadhyāyanibaddhasya chandaso 'sya parisphuṭam / pramāṇamapi vijñeyaṃ ṣaṭtriṃśadadhikaṃ śatam
Sanskrit only: no published translation is held for this verse.
अधीयन्त इत्यध्यायास्ते च वक्ष्यमाणलक्षणाः संज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः षडेव षड्भिर्निबद्धस्य छन्दःशास्त्रस्य प्रमाणं संख्या षट्त्रिंशदधिकं शतं विज्ञेयम् ॥ ५ ॥ अथ गणनामाह । म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना
adhīyanta ityadhyāyāste ca vakṣyamāṇalakṣaṇāḥ saṃjñābhidhānamātrāvṛttasamavṛttārdhasamavṛttaviṣamavṛttaṣaṭpratyayalakṣaṇāḥ ṣaḍeva ṣaḍbhirnibaddhasya chandaḥśāstrasya pramāṇaṃ saṃkhyā ṣaṭtriṃśadadhikaṃ śataṃ vijñeyam || 5 || atha gaṇanāmāha / myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ / samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā
Sanskrit only: no published translation is held for this verse.
‘‘गलऽ; इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमिऽत्याम्नायः । एभिर्मयरसतजभनलगैर्दशभिरक्षरैः । समस्तमपि शब्दब्रह्म व्याप्तम् । किमिव । त्रैलोक्यमिव । केन । भवगता नारायणेन ॥ ६ ॥ एतेषां प्रत्येकं लक्षणमाह । सर्वगुर्मो मुखान्तर्लौ यरावंतगलौ सतौ । ग्मध्याद्यौ ज्भौ त्रिलो नो ऽष्टौ भवन्त्यत्र गणास्त्रिकाः
‘‘gala'; iti prathamākṣaragrahaṇamātreṇa gurulaghuśabdayorgrahaṇami'tyāmnāyaḥ / ebhirmayarasatajabhanalagairdaśabhirakṣaraiḥ / samastamapi śabdabrahma vyāptam / kimiva / trailokyamiva / kena / bhavagatā nārāyaṇena || 6 || eteṣāṃ pratyekaṃ lakṣaṇamāha / sarvagurmo mukhāntarlau yarāvaṃtagalau satau / gmadhyādyau jbhau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ
Sanskrit only: no published translation is held for this verse.
अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ सर्वगुर्मो मगणो यथा ( ) । मुखान्तर्लौ यरौ मुखमादि अंतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ ( ^ , ^ ) । अंतगलौ सतौ । अंते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा ( ^ ^ , ^) । ग्मध्याद्यौ ज्भौ । गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा ( ^ ^, ^ ^) । त्रिलो नः । त्रिलघुर्नगणो यथा ( ^ ^ ^ ) । एते मयरसतजभना ऽष्टौ गणा भवन्ति वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । त्रिका इति त्रयः परिमाणं येषां ते त्रिका इति ॥ ७ ॥ अथ मात्रागणानाह । ज्ञेयाः सर्वान्तमध्यादिगुरवो ऽत्र चतुःकलाः । गणाश्चतुर्लघूपेताः पंचार्यादिषु संस्थिताः
asmin chandaḥśāstre sarve guravo yasyāsau sarvagurmo magaṇo yathā ( ) / mukhāntarlau yarau mukhamādi aṃtarmadhyaṃ ādau madhye laghū yayostau mukhāntarlau yagaṇaragaṇau ( ^ , ^ ) / aṃtagalau satau / aṃte avasāne gurulaghū yayostau sagaṇatagaṇau yathā ( ^ ^ , ^) / gmadhyādyau jbhau / guru madhye ādau yayostau jagaṇabhagaṇau yathā ( ^ ^, ^ ^) / trilo naḥ / trilaghurnagaṇo yathā ( ^ ^ ^ ) / ete mayarasatajabhanā 'ṣṭau gaṇā bhavanti varṇavṛttagaṇā bhavantītyarthaḥ / mātrāgaṇānāṃ vakṣyamāṇasūtre vidhānāt / caturgurvādīnāmapi gaṇādisaṃjñā mā bhūdityāśaṃkya niyamannāha / trikā iti trayaḥ parimāṇaṃ yeṣāṃ te trikā iti || 7 || atha mātrāgaṇānāha / jñeyāḥ sarvāntamadhyādiguravo 'tra catuḥkalāḥ / gaṇāścaturlaghūpetāḥ paṃcāryādiṣu saṃsthitāḥ
Sanskrit only: no published translation is held for this verse.
आर्याप्रभृतिषु मात्रावृत्तेषु चतुःकला पञ्च गणा ज्ञातव्याः । कथम् । सर्वादिमध्यांतगुरवः सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । चतुर्भिर्लघुभिरुपेताः सहिता वेदितव्याः ॥ ८ ॥ गुरुलघुपरिज्ञानार्थमाह । सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्तस्त्वसौ ग्वक्रो ज्ञेयो ऽन्यो मातृको लृजुः ॥ क्व्र्क् १।९ ॥ इति । सहानुस्वारेण वर्तत इति सानुस्वारः । विसर्गान्तः सविसर्गः । दीर्घो द्विमात्रः । युक्तपरः संयोगपरो यो भवति । चकाराद्व्यंजनांतो ऽपि गृह्यते । परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः पादस्तस्यान्ते वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा । प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति । असंभवे हेममयस्य जन्तोस्तथा ऽपि रामो लुलुभे मृगाय ॥ इति । तथा च । ‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनिऽ; इत्यादि दृष्टव्यम् । स च प्रस्तारे वक्रः स्थाप्य लघुलक्षणमाह । ज्ञेयो ऽन्यो मातृको लृजुः । अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः ॥ ९ ॥ युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह । पदादाविह वर्णस्य संयोगः क्रमसंज्ञिकः । पुरःस्थितेन तेन स्याल्लघुता ऽपि क्वचिद्गुरोः
āryāprabhṛtiṣu mātrāvṛtteṣu catuḥkalā pañca gaṇā jñātavyāḥ / katham / sarvādimadhyāṃtaguravaḥ sarve ca te ādiśca madhyaṃ ca antaśca sarvādimadhyāṃtāsteṣu guravo yeṣāṃ te sarvādimadhyāntaguravaḥ / caturbhirlaghubhirupetāḥ sahitā veditavyāḥ || 8 || gurulaghuparijñānārthamāha / sānusvāro visargānto dīrgho yuktaparaśca yaḥ / vā pādāntastvasau gvakro jñeyo 'nyo mātṛko lṛjuḥ // KVrk 1.9 // iti / sahānusvāreṇa vartata iti sānusvāraḥ / visargāntaḥ savisargaḥ / dīrgho dvimātraḥ / yuktaparaḥ saṃyogaparo yo bhavati / cakārādvyaṃjanāṃto 'pi gṛhyate / parimitākṣaramātro gaṇāracito vakṣyamāṇalakṣaṇo vṛttasya caturthāṃśaḥ pādastasyānte vartamāno laghurapi vibhāṣayā guruḥ syāt / sa ca kavisamayavyavahārāt dvitīyacaturthayoreva pādayorante veditavyaḥ / yathā / prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti / asaṃbhave hemamayasya jantostathā 'pi rāmo lulubhe mṛgāya // iti / tathā ca / ‘śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani'; ityādi dṛṣṭavyam / sa ca prastāre vakraḥ sthāpya laghulakṣaṇamāha / jñeyo 'nyo mātṛko lṛjuḥ / anusvarādirahito anyo mātṛko ekamātro varṇo laghurbhavati / sa ca prastāre ṛjuḥ saralaḥ || 9 || yuktaparāśca ya ityanena prāpte gurutve apavādamāha / padādāviha varṇasya saṃyogaḥ kramasaṃjñikaḥ / puraḥsthitena tena syāllaghutā 'pi kvacidguroḥ
Sanskrit only: no published translation is held for this verse.
विभक्त्यंतं पदं तस्य पदस्यादौ वर्तमानो यो वर्णस्तस्य संयोगः । स इह शास्त्रे क्रमसंज्ञो ज्ञेयः । तेन क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्राप्तगुरुभावस्यापि लघुता स्यात् । क्वचिल्लक्षानुरोधेन । ननु क एषः क्रमो नाम संयोग उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः ॥ १० ॥ तत्र ग्रसंयोगेन यथा । इदमस्योदाहरणम् । तरुणं सर्षपशाकं नवौदनं पिच्छलानि च दधीनि । अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति
vibhaktyaṃtaṃ padaṃ tasya padasyādau vartamāno yo varṇastasya saṃyogaḥ / sa iha śāstre kramasaṃjño jñeyaḥ / tena krameṇa purovartinā prākpadāṃte vartamānasya prāptagurubhāvasyāpi laghutā syāt / kvacillakṣānurodhena / nanu ka eṣaḥ kramo nāma saṃyoga ucyate / pūrvācāryāṇāṃ piṃgalanāgaprabhṛtīnāṃ kālidāsādīnāṃ ca kavīnāṃ samayaḥ parigṛhītaḥ / saṃyogaḥ kramasaṃyogaḥ || 10 || tatra grasaṃyogena yathā / idamasyodāharaṇam / taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchalāni ca dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti
Sanskrit only: no published translation is held for this verse.
ममैव ते हृते । यथा । स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुंगस्तनभरलसन्मध्यभंगानपेक्षाः । पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति । बोधप्रदीपे ऽपि यथा । यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः । ते ऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥ शिशुपालवधे यथा । प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति । भ्रसंयोगेन यथा । शशिमुखि भ्रमरो ऽयं पद्मबुद्ध्या ऽ; ऽननं ते । समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥ तथा च । भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि । वरतरुकुसुमेषु व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुंतलेषु । स्थितशयितविबुद्धप्रीतिकस्ते भ्रमो ऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥ पदादाविति किम् । अन्यत्र मा भूत् । ग्रसंयोगेन यथा । असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशंका । न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति ह्रसंयोगेन यथा । ‘आजह्रतुस्तच्चरणौ पृथिव्यामिऽति । तथा च । प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे । भ्रसंयोगेन यथा । कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर । अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि । क्वचिदिति किम् । सर्वत्र मा भूत् । ग्रसंयोगेन यथा । ‘मही पादघाताद्व्रजति सहसा संशयपदम् । पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहणमिऽति ॥ भ्रसंयोगेन यथा । ‘तत्र भ्रमत्येव मुधा षडंध्रिरिऽति । केचित्पादादाविति मन्यन्ते । तदसंगतम् । सूत्रोदाहरणयोर्घटनाभावात् । तथापि । तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि । अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पैंगलीयसूत्रपाठाच्च । स्वरा ऽर्धञ्चार्यार्धमिति । तस्मात्पदादाविति पाठः । श्रेयानित्यलमिति प्रसंगेन ॥ ११ ॥ अथ संज्ञामाह । अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादः चतुर्थांशो यतिर्विच्छेदसंज्ञिता
mamaiva te hṛte / yathā / snehādgehādbhujagatanayālokakautūhalena sthūlottuṃgastanabharalasanmadhyabhaṃgānapekṣāḥ / paurā nāryastaralanayanānandamutpādayantyo dhāvanti sma drutamapahriyaḥ sraṃsamānottarīyāḥ // iti / bodhapradīpe 'pi yathā / yajñairyeṣāṃ pratipadamiyaṃ maṇḍitā bhūtadhātrī nirjityaitadbhuvanavalayaṃ yaiḥ pradattaṃ dvijebhyaḥ / te 'pyetasmin gurubhavahṛde budbudastambhalīlaṃ dhṛtvā dhṛtvā sapadi vilayaṃ bhūbhujaḥ saṃprayātāḥ // śiśupālavadhe yathā / prāptanābhihṛdamajjanamāśu prasthitaṃ nivasanagrahaṇāya / iti / bhrasaṃyogena yathā / śaśimukhi bhramaro 'yaṃ padmabuddhyā '; 'nanaṃ te / samabhilaṣati pātuṃ tyaktavallīprasūnaḥ // tathā ca / bhramati bhramaramārīkānane vipramukte / ityādi / varatarukusumeṣu vyomagaṃgāmbujeṣu tridaśakarikaṭeṣu svarvadhūkuṃtaleṣu / sthitaśayitavibuddhaprītikaste bhramo 'yaṃ bhramasi bhramara yena tvaṃ mudhā ketakeṣu // padādāviti kim / anyatra mā bhūt / grasaṃyogena yathā / asamagravilokanena kiṃ te dayitaṃ paśya varoru nirviśaṃkā / na hi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // iti hrasaṃyogena yathā / ‘ājahratustaccaraṇau pṛthivyāmi'ti / tathā ca / pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre / bhrasaṃyogena yathā / kundāvadātairbhavato yaśobhiḥ śubhrīkṛtaṃ kiṃ paramāravīra / adyāpi yadbibhrati kālimānamarātinārīvadanotpalāni // ityādi / kvaciditi kim / sarvatra mā bhūt / grasaṃyogena yathā / ‘mahī pādaghātādvrajati sahasā saṃśayapadam / padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahaṇami'ti // bhrasaṃyogena yathā / ‘tatra bhramatyeva mudhā ṣaḍaṃdhriri'ti / kecitpādādāviti manyante / tadasaṃgatam / sūtrodāharaṇayorghaṭanābhāvāt / tathāpi / taruṇaṃ sarṣapaśākaṃ navodanaṃ picchalāni dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti / ityudāharaṇamāryayā pradarśitam / āryāyāṃ pādavyavasthā nāsti / pūrvārdhottarārdhagrahaṇāt pūrvārdhottarārdhamityāryālakṣaṇaṃ kurvāṇo granthakāra evaṃ jñāpayati / tāvadāryāyāṃ pādavyavasthā nāsti paiṃgalīyasūtrapāṭhācca / svarā 'rdhañcāryārdhamiti / tasmātpadādāviti pāṭhaḥ / śreyānityalamiti prasaṃgena || 11 || atha saṃjñāmāha / abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ / jñeyaḥ pādaḥ caturthāṃśo yatirvicchedasaṃjñitā
Sanskrit only: no published translation is held for this verse.
नमस्तुंगशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरीरंभमूलस्तम्भाय शम्भवे ॥ क्वचित्तु पदमध्ये ऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ यथा । ‘पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशाऽविति । समुद्रादाविति किम् । पदमध्ययतिर्पदान्ते मा भूत् । यथा । ‘प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं दहेतुऽरिति ॥ पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा । ‘एतस्यां गण्डतलममलं गाहवे चन्द्रकक्षामिति । ‘एतासां राजति सुमनसां दामकण्ठावलम्बीऽति । ‘संतापं मे जनयति नितम्बो ऽयमिन्दीवराक्ष्याऽ; इति । पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् । अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् । पूर्वान्तवद्यथा । स्यादस्थाने ऽपगतयमुनासंगमे वा ऽभिरामा । तथा । जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति । परादिवद्भावो यथा । ममैव व्यायोगे । ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे वामांगं कलकिंकणीफलकवन्निस्तृंशवद्दक्षिणम् । एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्- धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि । यद्यादेशः परादिवद् । यथा । ‘सप्तर्षिहस्तावचितावशेषण्ये ऽधो विवस्वानिऽति । आदिशब्दात् ‘विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरलेऽत्यादि । नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् । तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा । ‘स्वादुःस्वच्छंदसलिलमिदं प्रीतये कस्य न स्यादिऽति । परेण नित्यसंबद्धाः प्रादयश्च परादिवत् । तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा । ‘दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगःऽ; इत्यादि सर्वमूह्यम् ॥ १२ ॥ युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते ॥ क्व्र्क् १।१३(१) ॥ प्रथमतृतीयादिकं स्थानं अयुक् विषमं द्वितीयचतुर्थादिकं स्थानं युक्सममिति । अथ वृत्तभेदानाह । सममर्धसमं वृत्तं विषमं च तथा परम् ॥ क्व्र्क् १।१३(२) ॥ छन्दसि वर्तत इति । वृत्तं वक्ष्यमाणलक्षणं त्रिधा भवति । सममर्धसमं विषमं चेति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि । एतेषां प्रत्येकं लक्षणमाह । अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छंदशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्ष्यते
namastuṃgaśiraścumbicandracāmaracārave / trailokyanagarīraṃbhamūlastambhāya śambhave // kvacittu padamadhye 'pi samudrādau yatirbhavet / yadi pūrvāparau bhāgau na syātāmekavarṇakau // yathā / ‘paryāptaṃ taptacāmīkarakaṭakataṭe śliṣṭaśītetarāśā'viti / samudrādāviti kim / padamadhyayatirpadānte mā bhūt / yathā / ‘praṇamata bhavabaṃdhakleśanāśāya nārāyaṇacaraṇasarojadvandvamānaṃ dahetu'riti // pūrvottarabhāgayorekākṣaratve tu padamadhye yatirduṣyati / yathā / ‘etasyāṃ gaṇḍatalamamalaṃ gāhave candrakakṣāmiti / ‘etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambī'ti / ‘saṃtāpaṃ me janayati nitambo 'yamindīvarākṣyā'; iti / pūrvāntavatsvaraḥ saṃdhau kvacideva parādivat / asyārthaḥ / yo yaṃ pūrvaparayorekadeśaḥ svarasaṃdhau vidhīyate sa kvacitpūrvāntavadbhavati kvacitparasyādivat / pūrvāntavadyathā / syādasthāne 'pagatayamunāsaṃgame vā 'bhirāmā / tathā / jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇum iti / parādivadbhāvo yathā / mamaiva vyāyoge / ye svārātividāritāsyasahasaivābhūdvibhinnaṃ raṇe vāmāṃgaṃ kalakiṃkaṇīphalakavannistṛṃśavaddakṣiṇam / ekaṃ ghātanipātadattamitaradghātapratīkārakṛd- dhanyaḥ paśyati yudhyamānamiti sasvāṃgaṃ vimānasthitaḥ // ityādi / yadyādeśaḥ parādivad / yathā / ‘saptarṣihastāvacitāvaśeṣaṇye 'dho vivasvāni'ti / ādiśabdāt ‘vitataghanatuṣāraḥ kṣodaśubhrāṃśuvartma svavirale'tyādi / nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat / tebhyaḥ pūrvā yatirna kartavyetyarthaḥ / yathā / ‘svāduḥsvacchaṃdasalilamidaṃ prītaye kasya na syādi'ti / pareṇa nityasaṃbaddhāḥ prādayaśca parādivat / tebhyaḥ parā yatirna kartavyetyarthaḥ / yathā / ‘duḥkhaṃ me prakṣipati hṛdaye duḥsahastadviyogaḥ'; ityādi sarvamūhyam || 12 || yuksamaṃ viṣamaṃ cāyuksthānaṃ sadbhirnigadyate // KVrk 1.13(1) // prathamatṛtīyādikaṃ sthānaṃ ayuk viṣamaṃ dvitīyacaturthādikaṃ sthānaṃ yuksamamiti / atha vṛttabhedānāha / samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathā param // KVrk 1.13(2) // chandasi vartata iti / vṛttaṃ vakṣyamāṇalakṣaṇaṃ tridhā bhavati / samamardhasamaṃ viṣamaṃ ceti / tatra samaṃ sarvāvayavatvātsamam śrīprabhṛti ardhasamamupacitrādi viṣamaṃ padacaturūrdhādi / eteṣāṃ pratyekaṃ lakṣaṇamāha / aṅdhrayo yasya catvārastulyalakṣaṇalakṣitāḥ / tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate
Sanskrit only: no published translation is held for this verse.
यस्य वृत्तस्य चत्वारो ऽपि पादाः समलक्षणभाजो भवन्ति । तद्वृत्तं समं छन्दोविद्भिराचक्ष्यते । अथार्धसममाह । प्रथमाङ्ध्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते
yasya vṛttasya catvāro 'pi pādāḥ samalakṣaṇabhājo bhavanti / tadvṛttaṃ samaṃ chandovidbhirācakṣyate / athārdhasamamāha / prathamāṅdhrisamo yasya tṛtīyaścaraṇo bhavet / dvitīyasturyavadvṛttaṃ tadardhasamamucyate
Sanskrit only: no published translation is held for this verse.
यस्य वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । तद्वृत्तं अर्धसममुच्यते । विषमलक्षणमाह । यस्य पादचतुष्के ऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः
yasya vṛttasya prathamatṛtīyapādau tulyalakṣaṇau bhavataḥ / dvitīyacaturthau ca / tadvṛttaṃ ardhasamamucyate / viṣamalakṣaṇamāha / yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam / tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ
Sanskrit only: no published translation is held for this verse.
यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति तद्विषममित्याहुराचार्याः । अथ वृत्तानां पादं नियमन्नाह । आरभ्यैकाक्षरात् पादाद् एकैकाक्षरवर्धितैः । पृथक् छन्दो भवेत् पादैर् यावत् षड्विंशतिं गतम्
yasya vṛttasya caturṣvapi pādeṣu bhinnamanyādṛśaṃ parasparaṃ lakṣaṇaṃ bhavati tadviṣamamityāhurācāryāḥ / atha vṛttānāṃ pādaṃ niyamannāha / ārabhyaikākṣarāt pādād ekaikākṣaravardhitaiḥ / pṛthak chando bhavet pādair yāvat ṣaḍviṃśatiṃ gatam
Sanskrit only: no published translation is held for this verse.
एकाक्षरात्पादादेकैकाक्षरवृद्ध्या पादैः छन्दः स्यात् । किं यावद्गतं षट्विंशत्यक्षरमुत्कृतिं यावत् । तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ॥ क्व्र्क् १।१८(१) ॥ षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं चण्डवृष्टिप्रभृतयो दण्डकाः भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्यो ऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् । शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ क्व्र्क् १।१८(२) ॥ शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो गाथाः स्युः । अथ छन्दसां जातीराह । उक्तात्युक्ता तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेव च
ekākṣarātpādādekaikākṣaravṛddhyā pādaiḥ chandaḥ syāt / kiṃ yāvadgataṃ ṣaṭviṃśatyakṣaramutkṛtiṃ yāvat / tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ // KVrk 1.18(1) // ṣaḍviṃśatyākṣarotkṛtijāterūrdhvaṃ caṇḍavṛṣṭiprabhṛtayo daṇḍakāḥ bhavanti / śeṣamiti prakaraṇam / tacca śāstrāntarebhyo 'vagantavyam / granthagauravabhayātkedāreṇātra noktam / śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // KVrk 1.18(2) // śeṣaṃ jātiprakaraṇānantaraṃ tripadyaḥ ṣaṭpadyo gāthāḥ syuḥ / atha chandasāṃ jātīrāha / uktātyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā / gāyatryuṣṇiganuṣṭup ca bṛhatī paṃktireva ca
Sanskrit only: no published translation is held for this verse.
त्रिष्टुप् च जगती चैव तथा ऽतिजगती मता । शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः
triṣṭup ca jagatī caiva tathā 'tijagatī matā / śarkarī sātipūrvā syādaṣṭyatyaṣṭī tataḥ smṛteḥ
Sanskrit only: no published translation is held for this verse.
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः सङ्कृतिश्चैव तथाभिकृतिरुत्कृतिः
dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ / vikṛtiḥ saṅkṛtiścaiva tathābhikṛtirutkṛtiḥ
Sanskrit only: no published translation is held for this verse.
इत्युक्ता छंदसां संज्ञाः क्रमशो वच्मि साम्प्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम्
ityuktā chaṃdasāṃ saṃjñāḥ kramaśo vacmi sāmpratam / lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttānupūrvakam
Sanskrit only: no published translation is held for this verse.