ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ ऋतं पिबन्तावित्यस्या वल्ल्याः सम्बन्धः । विद्याविद्ये नाना विरुद्धफले इत्य् उपन्यस्ते, न तु सफले ते यथावन् निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थरथरूपकद्वारा द्वाव् आत्मानाव् उपन्यस्येते -- ऋतं सत्यम् अवश्यम्भावित्वात् कर्मफलं पिबन्तौ । एकस् तत्र कर्मफलं पिबति भुङ्क्ते नेतरस् तथापि पातृसम्बन्धात् पिबन्ताव् इत्य् उच्यते च्छत्रिन्यायेन । सुकृतस्य स्वयङ्कृतस्य कर्मण ऋतम् इति पूर्वेण सम्बन्धः । लोके ऽस्मिञ् शरीरे । गुहां गुहायां बुद्धौ प्रविष्टौ । परमे बाह्यपुरुषाकाशसंस्थानापेक्षया परमम् । परार्धे परस्य ब्रह्मणो ऽर्धं स्थानं परार्धं हार्दाकाशम् । तस्मिन् हि परं ब्रह्मोपलभ्यते । ततस् तस्मिन् परमे परार्धे हार्दाकाशे प्रविष्टाव् इत्य् अर्थः । तौ च च्छायातपाव् इव विलक्षनौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलम् अकर्मिण एव वदन्ति । पञ्चाग्नयो गृहस्थाः । ये च त्रिणाचिकेताः, त्रिः कृत्वो नाचिकेतो ऽग्निश् चितो यैस् ते त्रिणाचिकेताः ॥ कउभ्_३।१।१,३।१ ॥
ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ // ṛtaṃ pibantāvityasyā vallyāḥ sambandhaḥ / vidyāvidye nānā viruddhaphale ity upanyaste, na tu saphale te yathāvan nirṇīte / tannirṇayārthā ratharūpakakalpanā, tathā ca pratipattisaukaryam / evaṃ ca prāptṛprāpyagantṛgantavyavivekārtharatharūpakadvārā dvāv ātmānāv upanyasyete -- ṛtaṃ satyam avaśyambhāvitvāt karmaphalaṃ pibantau / ekas tatra karmaphalaṃ pibati bhuṅkte netaras tathāpi pātṛsambandhāt pibantāv ity ucyate cchatrinyāyena / sukṛtasya svayaṅkṛtasya karmaṇa ṛtam iti pūrveṇa sambandhaḥ / loke 'smiñ śarīre / guhāṃ guhāyāṃ buddhau praviṣṭau / parame bāhyapuruṣākāśasaṃsthānāpekṣayā paramam / parārdhe parasya brahmaṇo 'rdhaṃ sthānaṃ parārdhaṃ hārdākāśam / tasmin hi paraṃ brahmopalabhyate / tatas tasmin parame parārdhe hārdākāśe praviṣṭāv ity arthaḥ / tau ca cchāyātapāv iva vilakṣanau saṃsāritvāsaṃsāritvena brahmavido vadanti kathayanti / na kevalam akarmiṇa eva vadanti / pañcāgnayo gṛhasthāḥ / ye ca triṇāciketāḥ, triḥ kṛtvo nāciketo 'gniś cito yais te triṇāciketāḥ // KaUBh_3.1/1,3.1 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.