यः सेतुर् ईजानानाम् अक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ यः सेतुः सेतुर् इव सेतुर् ईजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वात् । नाचिकेतं नाचिकेतो ऽग्निस् तम्, वयं ज्ञातुं चेतुं च शकेमहि शक्नुवन्तः । किञ् च यच् चाभयं भयशून्यं संसारस्य पारं तितीर्षतां तर्तुम् इच्छतां ब्रह्मविदां यत्परमाश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच् च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः । एतयोर् एव ह्य् उपन्यासः कृत "ऋतं पिबन्तौ" (कउ ३।१) इति ॥ कउभ्_३।२।१,३।२ ॥
yaḥ setur ījānānām akṣaraṃ brahma yat param / abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi // yaḥ setuḥ setur iva setur ījānānāṃ yajamānānāṃ karmiṇāṃ duḥkhasantaraṇārthatvāt / nāciketaṃ nāciketo 'gnis tam, vayaṃ jñātuṃ cetuṃ ca śakemahi śaknuvantaḥ / kiñ ca yac cābhayaṃ bhayaśūnyaṃ saṃsārasya pāraṃ titīrṣatāṃ tartum icchatāṃ brahmavidāṃ yatparamāśrayam akṣaram ātmākhyaṃ brahma, tac ca jñātuṃ śakemahi / parāpare brahmaṇī karmibrahmavidāśraye veditavye iti vākyārthaḥ / etayor eva hy upanyāsaḥ kṛta "ṛtaṃ pibantau" (KaU 3.1) iti // KaUBh_3.2/1,3.2 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.