अव्यक्तात् तु परः पुरुषो व्यापको ऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुर् अमृतत्वं च गच्छति ॥ अव्यक्तात् तु परः पुरुषो व्यापको, व्यापकस्याप्य् आकाशादेः सर्वस्य कारणत्वाद् अलिङ्गो लिङ्ग्यते गम्यते येन तल् लिङ्गं बुध्यादि, तद् अविद्यमानं यस्य सो ऽयम् अलिङ्ग एव च । सर्वसंसारधर्मवर्जित इत्य् एतत् । यं ज्ञात्वाचार्यतः शास्त्रतश् च मुच्यते जन्तुर् अविद्यादिहृदयग्रन्थिभिर् जीवन्न् एव, पतिते ऽपि शरीरे ऽमृतत्वं च गच्छति । सो ऽलिङ्गः परो ऽव्यक्तात् पुरुष इति पूर्वेणैव सम्बन्धः ॥ कउभ्_६।८।२,३।८ ॥
avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca / yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati // avyaktāt tu paraḥ puruṣo vyāpako, vyāpakasyāpy ākāśādeḥ sarvasya kāraṇatvād aliṅgo liṅgyate gamyate yena tal liṅgaṃ budhyādi, tad avidyamānaṃ yasya so 'yam aliṅga eva ca / sarvasaṃsāradharmavarjita ity etat / yaṃ jñātvācāryataḥ śāstrataś ca mucyate jantur avidyādihṛdayagranthibhir jīvann eva, patite 'pi śarīre 'mṛtatvaṃ ca gacchati / so 'liṅgaḥ paro 'vyaktāt puruṣa iti pūrveṇaiva sambandhaḥ // KaUBh_6.8/2,3.8 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.