अत्र सूत्रपदार्थप्रकरणसंबन्धाः प्राग्वद्द्रष्टव्याः। वाक्यात्मकस्तु तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ।क़ुओते तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ।किर्। १:२१अब्। इत्यादिभिरनेकविधः। पाटलिकस्तु सर्वानुग्राहकः शान्त इत्यादि। ।क़ुओते सर्वानुग्राहकः शान्तः ।किर्। ४:२९च्। अयं चात्र प्रश्नार्थः। यदुक्तं तीव्रशक्तिनिपातेन गुरुणा दीक्षित इत्येतदयुक्तम्। पातो ह्यव्यापकत्वेन व्याप्तः कुण्डबदरादिसिद्धस्तद्विरुद्धं च व्यापकत्वं ततो व्यापकविरुद्धोपलब्ध्यात्र व्यापकत्वेन शक्तेरव्यापकत्वाभावे पतनाभावः साध्यत इति। न चायमसिद्धो हेतुः। प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यत इति ।क़ुओते प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते ।किर्। ४:१च्द्। पूर्वमेव व्यापकत्वेनास्याः समभ्युपगमादिति। न तु मायया नैकान्तिकत्वमत्रेत्युच्यते शिवस्य समवेतत्वात् सर्वदैव स्थिता पशौ
atra sūtrapadārthaprakaraṇasaṃbandhāḥ prāgvaddraṣṭavyāḥ| vākyātmakastu tīvraśaktinipātena guruṇā dīkṣito yadā /quote tīvraśaktinipātena guruṇā dīkṣito yadā /Kir/ 1:21ab. ityādibhiranekavidhaḥ| pāṭalikastu sarvānugrāhakaḥ śānta ityādi| /quote sarvānugrāhakaḥ śāntaḥ /Kir/ 4:29c. ayaṃ cātra praśnārthaḥ| yaduktaṃ tīvraśaktinipātena guruṇā dīkṣita ityetadayuktam| pāto hyavyāpakatvena vyāptaḥ kuṇḍabadarādisiddhastadviruddhaṃ ca vyāpakatvaṃ tato vyāpakaviruddhopalabdhyātra vyāpakatvena śakteravyāpakatvābhāve patanābhāvaḥ sādhyata iti| na cāyamasiddho hetuḥ| prabodhikā ca sā śaktiḥ sarvagā paripaṭhyata iti /quote prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate /Kir/ 4:1cd. pūrvameva vyāpakatvenāsyāḥ samabhyupagamāditi| na tu māyayā naikāntikatvamatretyucyate śivasya samavetatvāt sarvadaiva sthitā paśau
Sanskrit only: no published translation is held for this verse.
तस्याः सर्वपुरुषगतत्वेनानादिव्यवस्थितेः सर्वपुरुषाणामप्यनादिरेव दीक्षायोगान्मोक्ष इति संसाराभावप्रसङ्गः। अभ्युपगम्यापि शक्तेः प्रागुक्तं पातमित्युच्यते कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम्
tasyāḥ sarvapuruṣagatatvenānādivyavasthiteḥ sarvapuruṣāṇāmapyanādireva dīkṣāyogānmokṣa iti saṃsārābhāvaprasaṅgaḥ| abhyupagamyāpi śakteḥ prāguktaṃ pātamityucyate kālo vā sa ca kaḥ prokto yadi kālaḥ śivena kim
Sanskrit only: no published translation is held for this verse.
वाशब्दः पक्षान्तराभ्युपगमसूचनार्थः। अथवा यदुक्तं प्राक् समे कर्मणि सञ्जाते कालान्तरवशादिति। ।क़ुओते समे कर्मणि सञ्जाते कालान्तरवशात् ।किर्। १:२०च्द्। मलपरिपाककालः प्रोक्तः। चशब्दात् को ऽन्यः प्रोक्त इति। किं प्रागुक्त एव शक्तिपातस्य कालो ऽन्यो वेत्यर्थः। न तु तस्यैवाज्ञातत्वेन व्याख्येयं प्राक् प्रतिपादितत्वेन तस्याज्ञानसम्भवाभावात्। यदपि कालः शक्तिपातस्य निमित्तं, शक्तिपातो दीक्षाया इति प्रागुक्तं तदप्ययुक्तम्। यतः कालो यदि शक्तिपातस्य हेतुरिष्यते ततः स एव दीक्षाहेतुरस्तु किं शिवेनात्र शक्तिपातद्वारेण मोक्षहेतुना कल्पितेन। भोगे तु स्थूलं विचित्रकं कार्यमित्यादिना प्रतिपादितत्वात्तस्य कर्तृत्वमस्त्विति प्रश्नार्थः। ।क़ुओते स्थूलं विचित्रकं कार्यम् ।किर्। ३:१२अ। इदं प्रश्नजातं क्रमेण निराकरोति। भगवान् उवाच उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते । यथा पुमान्विभुर्गन्ता नित्यो ऽप्युक्तो विनश्वरः
vāśabdaḥ pakṣāntarābhyupagamasūcanārthaḥ| athavā yaduktaṃ prāk same karmaṇi sañjāte kālāntaravaśāditi| /quote same karmaṇi sañjāte kālāntaravaśāt /Kir/ 1:20cd. malaparipākakālaḥ proktaḥ| caśabdāt ko 'nyaḥ prokta iti| kiṃ prāgukta eva śaktipātasya kālo 'nyo vetyarthaḥ| na tu tasyaivājñātatvena vyākhyeyaṃ prāk pratipāditatvena tasyājñānasambhavābhāvāt| yadapi kālaḥ śaktipātasya nimittaṃ, śaktipāto dīkṣāyā iti prāguktaṃ tadapyayuktam| yataḥ kālo yadi śaktipātasya heturiṣyate tataḥ sa eva dīkṣāheturastu kiṃ śivenātra śaktipātadvāreṇa mokṣahetunā kalpitena| bhoge tu sthūlaṃ vicitrakaṃ kāryamityādinā pratipāditatvāttasya kartṛtvamastviti praśnārthaḥ| /quote sthūlaṃ vicitrakaṃ kāryam /Kir/ 3:12a. idaṃ praśnajātaṃ krameṇa nirākaroti| bhagavān uvāca upacāreṇa śabdānāṃ pravṛttiriha dṛśyate / yathā pumānvibhurgantā nityo 'pyukto vinaśvaraḥ
Sanskrit only: no published translation is held for this verse.
पाशच्छेदो यथा प्रोक्तो मन्त्रराड् भगवाञ्छिवः । एवं शक्तिनिपातो ऽपि प्रोच्यते सोपचारतः
pāśacchedo yathā prokto mantrarāḍ bhagavāñchivaḥ / evaṃ śaktinipāto 'pi procyate sopacārataḥ
Sanskrit only: no published translation is held for this verse.
तत्र यदुक्तं निपातो न विभुत्वतः शक्तेरिति तत्सिद्धसाधनमेव। अत एव त्वदुक्तप्रमाणबाधितत्वान्मुख्यार्थासम्भवेनास्माभिरपि शक्तिपातश्रुतीनामुपचरितार्थत्वमभ्युपगतं। यथा नित्यव्यापकधर्मयुक्तो ऽपि पुरुषो गन्ता विनश्वरश्च स्वशरीरेणोपचारेणोच्यते। यथा च पाशानां दीक्षितं पुरुषं प्रत्यप्रवर्तनमेव च्छेद इव च्छेद उच्यते। न तु वास्तवो द्वैधीभावः। यथा च मन्त्रैर्विराजत इति मन्त्रराट् परमेश्वरो ऽपि सन् भगवानुपचारादुच्यत इत्यविरोधः। अथात्रोपचारस्य निमित्तमनादिस्थिताया वामशक्तेस्तावत् पातपदप्रवृत्तावुच्यते निपातो भयदो यद्वद् वस्तुनः सहसा भवेत् । तद्वच्छक्तिनिपातो ऽपि प्रोक्तो भवभयप्रदः
tatra yaduktaṃ nipāto na vibhutvataḥ śakteriti tatsiddhasādhanameva| ata eva tvaduktapramāṇabādhitatvānmukhyārthāsambhavenāsmābhirapi śaktipātaśrutīnāmupacaritārthatvamabhyupagataṃ| yathā nityavyāpakadharmayukto 'pi puruṣo gantā vinaśvaraśca svaśarīreṇopacāreṇocyate| yathā ca pāśānāṃ dīkṣitaṃ puruṣaṃ pratyapravartanameva ccheda iva ccheda ucyate| na tu vāstavo dvaidhībhāvaḥ| yathā ca mantrairvirājata iti mantrarāṭ parameśvaro 'pi san bhagavānupacārāducyata ityavirodhaḥ| athātropacārasya nimittamanādisthitāyā vāmaśaktestāvat pātapadapravṛttāvucyate nipāto bhayado yadvad vastunaḥ sahasā bhavet / tadvacchaktinipāto 'pi prokto bhavabhayapradaḥ
Sanskrit only: no published translation is held for this verse.
यथा हि पाषाणादिपातो भयदः पुंसामेवमनादिरपि परमेश्वरशक्तेः सम्बन्धः संसारभयहेतुत्वात्पात इवोच्यते। ज्येष्ठाशक्तिसम्बन्धिनो ऽपि दीक्षापूर्वभावित्वेन प्रागुक्तस्य पातस्योपचारनिमित्तमुच्यते गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत्
yathā hi pāṣāṇādipāto bhayadaḥ puṃsāmevamanādirapi parameśvaraśakteḥ sambandhaḥ saṃsārabhayahetutvātpāta ivocyate| jyeṣṭhāśaktisambandhino 'pi dīkṣāpūrvabhāvitvena prāguktasya pātasyopacāranimittamucyate gururyathāgrataḥ śiṣyān suptāndaṇḍena bodhayet
Sanskrit only: no published translation is held for this verse.
शिवो ऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत् । यदा स्वरूपविज्ञानं पतितेति तदोच्यते
śivo 'pi mohanidrāyāṃ suptāñchaktyā prabodhayet / yadā svarūpavijñānaṃ patiteti tadocyate
Sanskrit only: no published translation is held for this verse.
यथाग्रे स्थितत्वाविशेषे ऽपि शिष्याञ्छासने ऽर्हान् योग्यानेव गुरुर्दण्डेन बोधयति न त्वशिष्यान्। एवं मोहो मलस्तस्य निद्रा कार्यं प्रत्यसामर्थ्यं परिपाकविशेषस्तस्यां सत्यामपि ये सुप्तास्तन्निवृत्त्युपायसंविद्विकलास्तान्परमेश्वरस्तयैव पूर्वव्यवस्थितया शक्त्या बोधयति। एवं सैव मलपरिपाकयोग्यतानुसारेण यदा विशिष्टं तन्निवृत्त्युपायविज्ञानं संसारवैतृष्ण्यादिक्रमेण जनयति तदा ज्येष्ठा शक्तित्वेन कार्यहेतुः पतितेत्युपचारादुच्यते। यदुक्तं कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति। ।क़ुओते कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ।किर्। २:२९च्द्। श्रीमन्मतङ्गे ऽपि संसारात्स विरज्येत प्रध्वस्तकलुषः सदा। इति। ।क़ुओते संसारात्स विरज्येत प्रध्वस्तकलुषः सदा ।मत्।व्प्। १०:२५च्द्। श्रीमत्स्वायम्भुवे ऽपि तन्निपातात्क्षरत्यस्य मलं संसारकारणम्। ।क़ुओते तन्निपातात्।देव्दोत् परं निःश्रेयसं प्रति ।स्वयम्। १:१७। क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति। इति॥ ततश्च यदुक्तं स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेदिति। ।क़ुओते स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत् ।किर्। ५:२अब्। तदप्यदूषणमेव। सर्वदास्थितत्वे ऽपि तस्यास्तत्र मलपरिपाकानुसारेण तदैव भवविच्छित्तिकारणत्वं नान्यदान्यत्र चेति यतः। तृतीयो ऽपि प्रश्नः प्रतिषिध्यते। तन्निपातस्य सः कालः कर्मणां तुल्यतैव च
yathāgre sthitatvāviśeṣe 'pi śiṣyāñchāsane 'rhān yogyāneva gururdaṇḍena bodhayati na tvaśiṣyān| evaṃ moho malastasya nidrā kāryaṃ pratyasāmarthyaṃ paripākaviśeṣastasyāṃ satyāmapi ye suptāstannivṛttyupāyasaṃvidvikalāstānparameśvarastayaiva pūrvavyavasthitayā śaktyā bodhayati| evaṃ saiva malaparipākayogyatānusāreṇa yadā viśiṣṭaṃ tannivṛttyupāyavijñānaṃ saṃsāravaitṛṣṇyādikrameṇa janayati tadā jyeṣṭhā śaktitvena kāryahetuḥ patitetyupacārāducyate| yaduktaṃ kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti| /quote kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ /Kir/ 2:29cd. śrīmanmataṅge 'pi saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā| iti| /quote saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā /Mat/VP/ 10:25cd. śrīmatsvāyambhuve 'pi tannipātātkṣaratyasya malaṃ saṃsārakāraṇam| /quote tannipātāt/devdot paraṃ niḥśreyasaṃ prati /Svayam/ 1:17. kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati| iti|| tataśca yaduktaṃ sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavediti| /quote sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavet /Kir/ 5:2ab. tadapyadūṣaṇameva| sarvadāsthitatve 'pi tasyāstatra malaparipākānusāreṇa tadaiva bhavavicchittikāraṇatvaṃ nānyadānyatra ceti yataḥ| tṛtīyo 'pi praśnaḥ pratiṣidhyate| tannipātasya saḥ kālaḥ karmaṇāṃ tulyataiva ca
Sanskrit only: no published translation is held for this verse.
न्यूना चाधिका च तुटिः कालः। स कथं गम्यते। कृष्यादिभिर्दृष्टैः कर्मभिरित्यध्याहारः। एतदुक्तं भवति---कृष्यादिकर्मभिरयं हेतुरनैकान्तिकः। यतस्तेषां क्रमेणाप्यनुष्ठितानां कदाचित्पश्चादनुष्ठितस्य न्यूनः कालः शीघ्रमेव पूर्वानुष्ठितेन सहभाव फलं कुर्वन्दृश्यते। पूर्वानुष्ठितस्य त्वधिकश्चिरात्मक इति तद्वदत्रापि सम्भवाद्गम्यमेवैतत् कर्मणोः समत्वमित्यविरोधः। ततश्च एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा
nyūnā cādhikā ca tuṭiḥ kālaḥ| sa kathaṃ gamyate| kṛṣyādibhirdṛṣṭaiḥ karmabhirityadhyāhāraḥ| etaduktaṃ bhavati---kṛṣyādikarmabhirayaṃ heturanaikāntikaḥ| yatasteṣāṃ krameṇāpyanuṣṭhitānāṃ kadācitpaścādanuṣṭhitasya nyūnaḥ kālaḥ śīghrameva pūrvānuṣṭhitena sahabhāva phalaṃ kurvandṛśyate| pūrvānuṣṭhitasya tvadhikaścirātmaka iti tadvadatrāpi sambhavādgamyamevaitat karmaṇoḥ samatvamityavirodhaḥ| tataśca evaṃ sūkṣmaṃ samānatvaṃ yasminkāle tadaiva sā
Sanskrit only: no published translation is held for this verse.
एवं दृष्टस्येवादृष्टस्यापि कर्मणः सम्भाव्यमानं परस्परविरोधात्मकं समानत्वमस्मदाद्यगोचरत्वात् सूक्ष्मं यस्मिन् काले भवति तस्मिन्नेव काले सा पारमेश्वरी शक्तिः। बोधचिह्नस्य यद्बलं मलपरिपाको यदुक्तम् कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति। ।क़ुओते कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ।किर्। २:२९च्द्। श्रीमन्मतङ्गे ऽपि संसारात्स विरज्येत प्रध्वस्तकलुषः सदेति। ।क़ुओते संसारात्स विरज्येत प्रध्वस्तकलुषः सदा ।मत्।व्प्। १०:२५च्द्। श्रीमत्स्वायम्भुवे ऽपि क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रतीति। ।क़ुओते क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति ।स्वयम्। १:१७च्द्। तेन स्वरूपं सर्वज्ञत्वादि पुंसो दीक्षाद्वारेण द्योतयति। यदुक्तं गुरुणा दीक्षितो यदा। ।क़ुओते गुरुण दीक्षितो यदा। सर्वज्ञः स शिवो यद्वत् ।किर्। १:२१ब्च्। सर्वज्ञः स शिवो यद्वदिति न तत्र मलपरिपाकापेक्षो ऽन्यः शक्तिपातः अपि तु स एव प्रसङ्गादुभयनिमित्तं सम्पद्यत इति भावः। वैशब्दो ऽपि प्रकारान्तरे बोधचिह्नबलाभावे तु क्षीणं वा यदि वासममित्युक्तमेव ।क़ुओते क्षीणं वा यदि वासमम् ।किर्। ५:९ब्। प्रकारान्तरं यतः। एवं च यः शक्तिपातो मलपरिपाकनिमित्तत्वेन संहितान्तरेषु श्रुतः स दीक्षाक्रमेणात्रापि मोक्षहेतुतया प्रोक्त एव। यस्तु कर्मसाम्यनिमित्तो ऽत्र श्रुतः तत्साम्यपरिहारायप्रोक्तेन नयेन तत्क्षयाय वा पर्यवस्यतीत्यविरोधो ऽत्र संहितान्तरैरस्य विशेषस्य तैरनुक्तेरिति। ननूभयोरप्यनयोर्मोक्षहेतुत्वमस्तु। एवमप्येष विरोधो न भवत्येवेति। अस्तु यदि मलपरिपाकस्येव कर्मसाम्यस्यापि तन्निमित्तत्वप्रतिपादकं स्फुटं वचनं भवेत्तस्य तु कर्मसाम्यपरिहारमात्रफलं शक्तिपातं प्रति तन्निमित्तत्वं प्रतिपादयति नान्यत्रेत्युक्तम्। वक्ष्यति च समे भोगस्तदा न हीति। ।क़ुओते समे भोगस्तदा न हि ।किर्। ५:११द्। सामान्यशास्त्रेष्वपि तस्य कर्मसाम्य निवृत्तिफलत्वेन सिद्धेरिति दर्शयिष्यामः। ।क़ुओते दर्शयिष्यामः अद् ।किर्। ५:१२च्द्। न चोद्भूतविरोधनिवर्तनाय प्रवृत्तस्यानुद्भूतविरोधमल निवर्तनमपि शक्तिपातस्य युक्तम्। सर्वात्मस्वविशेषतस्तन्निवर्तनप्राप्तेर्मोक्षप्रसङ्गात्। ननु यथा मलपरिपाकनिमित्तशक्तिपातो दीक्षया कर्मणां क्षयमनुद्भूतविरोधानामपि विधत्त इति भवद्भिरिष्यते, तद्वत्कर्मसाम्यनिमित्तो मलस्यानुद्भूतविरोधस्यापि तयैव क्षयं विधास्यतीति नैष प्रसङ्गः। न तेषां तदानीमप्यनुपजातविरोधित्वासिद्धेः। कर्मणां हि भोगदानाय मलः सहकारिकारणमविद्यानुबन्धं विना मुक्तस्येव भोगायोगादिति तस्यान्यथाभावे तेषामुद्भूतविरोधित्वमेवेति युक्त एव तदा क्षयः न त्वेवं कर्माविरोधो मलस्यावस्थितेः सहकारिकारणं येन तन्निवृत्तौ तस्यावस्थानानुपपत्तेस्तदानीमुद्भूतविरोधित्वेन क्षयः सम्भाव्येत। अनादित्वेन सिद्धेरनुद्भूतविरोधस्यापि क्षयाभ्युपगमे प्रोक्त एव प्रसङ्ग इत्यन्य एवायं कर्मविरोधपरिहारमात्रफलः शक्तिपातस्त्रिधायुक्तितो ऽभ्युपगन्तव्य इत्यविरोधः। अथ केन हेतुना विरुद्धयोः कर्मणोर्युगपत्सम्भव इत्युच्यते कर्मांशो यो ऽधिकः पूर्वं भोगदस्त्वितरः पुनः
evaṃ dṛṣṭasyevādṛṣṭasyāpi karmaṇaḥ sambhāvyamānaṃ parasparavirodhātmakaṃ samānatvamasmadādyagocaratvāt sūkṣmaṃ yasmin kāle bhavati tasminneva kāle sā pārameśvarī śaktiḥ| bodhacihnasya yadbalaṃ malaparipāko yaduktam kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti| /quote kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ /Kir/ 2:29cd. śrīmanmataṅge 'pi saṃsārātsa virajyeta pradhvastakaluṣaḥ sadeti| /quote saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā /Mat/VP/ 10:25cd. śrīmatsvāyambhuve 'pi kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ pratīti| /quote kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati /Svayam/ 1:17cd. tena svarūpaṃ sarvajñatvādi puṃso dīkṣādvāreṇa dyotayati| yaduktaṃ guruṇā dīkṣito yadā| /quote guruṇa dīkṣito yadā| sarvajñaḥ sa śivo yadvat /Kir/ 1:21bc. sarvajñaḥ sa śivo yadvaditi na tatra malaparipākāpekṣo 'nyaḥ śaktipātaḥ api tu sa eva prasaṅgādubhayanimittaṃ sampadyata iti bhāvaḥ| vaiśabdo 'pi prakārāntare bodhacihnabalābhāve tu kṣīṇaṃ vā yadi vāsamamityuktameva /quote kṣīṇaṃ vā yadi vāsamam /Kir/ 5:9b. prakārāntaraṃ yataḥ| evaṃ ca yaḥ śaktipāto malaparipākanimittatvena saṃhitāntareṣu śrutaḥ sa dīkṣākrameṇātrāpi mokṣahetutayā prokta eva| yastu karmasāmyanimitto 'tra śrutaḥ tatsāmyaparihārāyaproktena nayena tatkṣayāya vā paryavasyatītyavirodho 'tra saṃhitāntarairasya viśeṣasya tairanukteriti| nanūbhayorapyanayormokṣahetutvamastu| evamapyeṣa virodho na bhavatyeveti| astu yadi malaparipākasyeva karmasāmyasyāpi tannimittatvapratipādakaṃ sphuṭaṃ vacanaṃ bhavettasya tu karmasāmyaparihāramātraphalaṃ śaktipātaṃ prati tannimittatvaṃ pratipādayati nānyatretyuktam| vakṣyati ca same bhogastadā na hīti| /quote same bhogastadā na hi /Kir/ 5:11d. sāmānyaśāstreṣvapi tasya karmasāmya nivṛttiphalatvena siddheriti darśayiṣyāmaḥ| /quote darśayiṣyāmaḥ ad /Kir/ 5:12cd. na codbhūtavirodhanivartanāya pravṛttasyānudbhūtavirodhamala nivartanamapi śaktipātasya yuktam| sarvātmasvaviśeṣatastannivartanaprāptermokṣaprasaṅgāt| nanu yathā malaparipākanimittaśaktipāto dīkṣayā karmaṇāṃ kṣayamanudbhūtavirodhānāmapi vidhatta iti bhavadbhiriṣyate, tadvatkarmasāmyanimitto malasyānudbhūtavirodhasyāpi tayaiva kṣayaṃ vidhāsyatīti naiṣa prasaṅgaḥ| na teṣāṃ tadānīmapyanupajātavirodhitvāsiddheḥ| karmaṇāṃ hi bhogadānāya malaḥ sahakārikāraṇamavidyānubandhaṃ vinā muktasyeva bhogāyogāditi tasyānyathābhāve teṣāmudbhūtavirodhitvameveti yukta eva tadā kṣayaḥ na tvevaṃ karmāvirodho malasyāvasthiteḥ sahakārikāraṇaṃ yena tannivṛttau tasyāvasthānānupapattestadānīmudbhūtavirodhitvena kṣayaḥ sambhāvyeta| anāditvena siddheranudbhūtavirodhasyāpi kṣayābhyupagame prokta eva prasaṅga ityanya evāyaṃ karmavirodhaparihāramātraphalaḥ śaktipātastridhāyuktito 'bhyupagantavya ityavirodhaḥ| atha kena hetunā viruddhayoḥ karmaṇoryugapatsambhava ityucyate karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadastvitaraḥ punaḥ
Sanskrit only: no published translation is held for this verse.
एवं च सति कुतश्चित्कारणसामर्थ्याद्द्वयोः शुभयोरशुभयोर्वा परिपाकवशात्तीव्रवेगत्वेन वा समत्वे संजाते सति तस्य पुंसो युगपद्विरुद्धकर्मद्वयाकृष्टस्य कथं भोगः। नैव जायत इत्यवश्यं विरोधपरिहारायात्र शक्तिपातो ऽभ्युपगन्तव्य इत्युक्तं प्रागेव। नन्वेवं सर्वाण्येव कर्माणि स्वस्वफलमात्रसाधकत्वात्परस्परविरुद्धत्वेन समानानीति सर्वदा शक्तिपातप्रसङ्गः। नेत्युच्यते मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि
evaṃ ca sati kutaścitkāraṇasāmarthyāddvayoḥ śubhayoraśubhayorvā paripākavaśāttīvravegatvena vā samatve saṃjāte sati tasya puṃso yugapadviruddhakarmadvayākṛṣṭasya kathaṃ bhogaḥ| naiva jāyata ityavaśyaṃ virodhaparihārāyātra śaktipāto 'bhyupagantavya ityuktaṃ prāgeva| nanvevaṃ sarvāṇyeva karmāṇi svasvaphalamātrasādhakatvātparasparaviruddhatvena samānānīti sarvadā śaktipātaprasaṅgaḥ| netyucyate miśraṃ vārambhakaṃ karma same bhogastadā na hi
Sanskrit only: no published translation is held for this verse.
त्रिविधं हि कर्म जात्यायुर्भोगदं पुंसो भोगारम्भकं न केवलं भोगप्रदमेवायुःप्रदं वा जातिविशेषं विना भोगानुपपत्तेः। नापि जातिप्रदमेव ताभ्यां विना जन्म समनन्तरमेव पुंसो मरणात् भोगा नुपपत्तेरिति। समे विजातीयेनामिश्रे केवलभोगप्रदे केवलायुःप्रदे केवलजातिप्रदे वा कर्मणि सति भोगो नोपपद्यत इति तत्राधिकः कश्चित्कर्मविशेषो विजातीयः। भोगप्रदे जातिप्रदः। तस्मिन्वा भोगप्रद इत्यादिर्वक्तव्यः। अन्यथा सुखदुःखभोगानुपपत्तेस्तथाभूतकर्मसद्भावे ऽपि विज्ञानकेवलित्वमेव तस्येति न सर्वदा कर्मणां विरोधेन शक्तिपातप्रसङ्गः। तदविरोधस्यैव सर्वदा सम्भवादिति। अधिकन्यूनसम्बन्धाद् व्याकुलत्वं न जायते
trividhaṃ hi karma jātyāyurbhogadaṃ puṃso bhogārambhakaṃ na kevalaṃ bhogapradamevāyuḥpradaṃ vā jātiviśeṣaṃ vinā bhogānupapatteḥ| nāpi jātipradameva tābhyāṃ vinā janma samanantarameva puṃso maraṇāt bhogā nupapatteriti| same vijātīyenāmiśre kevalabhogaprade kevalāyuḥprade kevalajātiprade vā karmaṇi sati bhogo nopapadyata iti tatrādhikaḥ kaścitkarmaviśeṣo vijātīyaḥ| bhogaprade jātipradaḥ| tasminvā bhogaprada ityādirvaktavyaḥ| anyathā sukhaduḥkhabhogānupapattestathābhūtakarmasadbhāve 'pi vijñānakevalitvameva tasyeti na sarvadā karmaṇāṃ virodhena śaktipātaprasaṅgaḥ| tadavirodhasyaiva sarvadā sambhavāditi| adhikanyūnasambandhād vyākulatvaṃ na jāyate
Sanskrit only: no published translation is held for this verse.
यदा तयोर्विरुद्धयोर्द्वयोरपि कर्मणोः सर्वमेवान्यत् कर्मावापगतत्वेनाधिकन्यूनरहितं सममेव संपद्यते कस्मिंश्चित्पुरुषे तदानीं व्याकुलत्वं न जायत इति कर्मान्तरस्यानुरोध्यस्या सम्भवेन शक्तिपातात्तेषां सर्वेषां क्षयः प्रोक्त इति स क्षीणकर्मा पुरुषस्तदानीं तत्स्थानं प्राक् यत्समे भोगस्तदा न हीत्यत्रोक्तं ।क़ुओते समे भोगस्तदा न हि ।किर्। ५:११द्। विज्ञानकेवलित्वं प्राप्नोतीत्येतत्तदानीं शक्तिपातस्य प्रयोजनमित्यर्थः। अथ यथायं शक्तिपातो ऽस्मदाद्यगोचरत्वेन प्राक्सूक्ष्म उक्तो व्याध्यादिनिवृत्त्यनुमेयो वा तथैव किमसौ प्रागुक्तो न वेत्युच्यते स पात इति मन्तव्यस् तस्य भक्तिर्विलक्षणा
yadā tayorviruddhayordvayorapi karmaṇoḥ sarvamevānyat karmāvāpagatatvenādhikanyūnarahitaṃ samameva saṃpadyate kasmiṃścitpuruṣe tadānīṃ vyākulatvaṃ na jāyata iti karmāntarasyānurodhyasyā sambhavena śaktipātātteṣāṃ sarveṣāṃ kṣayaḥ prokta iti sa kṣīṇakarmā puruṣastadānīṃ tatsthānaṃ prāk yatsame bhogastadā na hītyatroktaṃ /quote same bhogastadā na hi /Kir/ 5:11d. vijñānakevalitvaṃ prāpnotītyetattadānīṃ śaktipātasya prayojanamityarthaḥ| atha yathāyaṃ śaktipāto 'smadādyagocaratvena prāksūkṣma ukto vyādhyādinivṛttyanumeyo vā tathaiva kimasau prāgukto na vetyucyate sa pāta iti mantavyas tasya bhaktirvilakṣaṇā
Sanskrit only: no published translation is held for this verse.
स एव प्रागुक्तः शक्तेः पातकालः। स निष्णातः कुशलः यस्मादात्मा परिगृह्यते अनुगृह्यते तस्मिन्नित्यात्मपरिग्रहः स काल इति। तस्मात्तमेव तत्रापेक्षते भगवान्नान्यं पुनः अनादिकर्मसम्बन्धाच् छिवः कालमपेक्षते
sa eva prāguktaḥ śakteḥ pātakālaḥ| sa niṣṇātaḥ kuśalaḥ yasmādātmā parigṛhyate anugṛhyate tasminnityātmaparigrahaḥ sa kāla iti| tasmāttameva tatrāpekṣate bhagavānnānyaṃ punaḥ anādikarmasambandhāc chivaḥ kālamapekṣate
Sanskrit only: no published translation is held for this verse.
अनादिर्यः कर्मात्मकः सम्यग्बन्धस्तस्मादेव यो भोगस्तस्यानुपपत्त्या कालच्छिद्रमित्यनेन शब्देन प्रोक्तः कर्मविरोधात्मकस्तमत्रापेक्षते शक्तिपातहेतुत्वेन। शक्तिपातात्तेषां विरोधपरिहारः क्षयो वा नान्यथा सम्भवतीत्येवं भगवान् जानाति यतः। अथ कथमसौ तमेव कालं कर्मणां क्षये ऽपेक्षते। न तु तदविरोधकालमपीत्युच्यते। यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते
anādiryaḥ karmātmakaḥ samyagbandhastasmādeva yo bhogastasyānupapattyā kālacchidramityanena śabdena proktaḥ karmavirodhātmakastamatrāpekṣate śaktipātahetutvena| śaktipātātteṣāṃ virodhaparihāraḥ kṣayo vā nānyathā sambhavatītyevaṃ bhagavān jānāti yataḥ| atha kathamasau tameva kālaṃ karmaṇāṃ kṣaye 'pekṣate| na tu tadavirodhakālamapītyucyate| yathā kaściccale lakṣye kañcitkālamapekṣate
Sanskrit only: no published translation is held for this verse.
यथा ह्यत्यन्तसुशिक्षितो ऽप्यर्जुनादिर्धनुर्धरो न सदैव शत्रुतो विनिर्गतं शराद्यायुधजातं स्वशरैश्छिनत्ति। अपि तु यदा स्वशरीरोपघातायायुष्यकर्मविरोधेन तदुपस्थितं भवति तस्मिन्नेव काले विरुद्धत्वादेव तद्वदेव तत् भगवानपि कर्मविरोधलक्षणं साम्यमेव शक्तिपाते ऽपेक्षते विरुद्धत्वादेव तदानीं भोगासम्भवादित्युक्तम्। न तु तदविरोधकालमप्यविरोधेनैव तदानीं भोगोपपत्तेरिति। यदा त्वेतन्नाभ्युपगम्यते तदा अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा
yathā hyatyantasuśikṣito 'pyarjunādirdhanurdharo na sadaiva śatruto vinirgataṃ śarādyāyudhajātaṃ svaśaraiśchinatti| api tu yadā svaśarīropaghātāyāyuṣyakarmavirodhena tadupasthitaṃ bhavati tasminneva kāle viruddhatvādeva tadvadeva tat bhagavānapi karmavirodhalakṣaṇaṃ sāmyameva śaktipāte 'pekṣate viruddhatvādeva tadānīṃ bhogāsambhavādityuktam| na tu tadavirodhakālamapyavirodhenaiva tadānīṃ bhogopapatteriti| yadā tvetannābhyupagamyate tadā abhāvāttatsamatvasya yugapanmuktiranyathā
Sanskrit only: no published translation is held for this verse.
यदि स क्रमः कालो ऽनुग्रहे नापेक्ष्यते तदा गुर्वाद्युपायदीक्षादिसाधनापेक्षा नात्र भवेत्। सर्वेषां युगपदनुग्रहस्तदानीं प्रसज्यत इत्यर्थः। ततश्चावश्यं तत्परिहाराय केनापि निमित्तेन भवितव्यम्। तच्चक्षुरादौ पटलादीनामिव मलस्य परिपाकात्मकमेवोक्तमिति न कश्चिद्दोषः॥ अधुना चतुर्थमपि प्रश्नं निवर्तयति प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम्
yadi sa kramaḥ kālo 'nugrahe nāpekṣyate tadā gurvādyupāyadīkṣādisādhanāpekṣā nātra bhavet| sarveṣāṃ yugapadanugrahastadānīṃ prasajyata ityarthaḥ| tataścāvaśyaṃ tatparihārāya kenāpi nimittena bhavitavyam| taccakṣurādau paṭalādīnāmiva malasya paripākātmakamevoktamiti na kaściddoṣaḥ|| adhunā caturthamapi praśnaṃ nivartayati prabhuratra śivo jñeyaḥ prabhutvaṃ kiṃ tuṭermatam
Sanskrit only: no published translation is held for this verse.
यदुक्तं काल एव मोक्षहेतुरस्तु। किं शक्तिपातहेतुनात्र शिवेन कल्पितेनेति। तदयुक्तं हेतुत्वभेदात्। निमित्तं हि कालो ऽत्राचेतनत्वादमावास्यादिर्यागादेरिव कर्ता तु भगवानमावास्यादियागे द्विजातिवच्चेतनत्वात्। न च निमित्ताभ्युपगमे कर्त्रभावप्रसङ्गो युक्तः। विरोधाभावात्। कर्त्रन्तराभ्युपगमे तु स युक्त एव। स एवाविरोधः कार्ये कर्तृनिमित्तयोर्दृष्टान्तेनोच्यते सति काले प्रभुत्वं स्यात् पद्मबोधे यथा रवेः
yaduktaṃ kāla eva mokṣaheturastu| kiṃ śaktipātahetunātra śivena kalpiteneti| tadayuktaṃ hetutvabhedāt| nimittaṃ hi kālo 'trācetanatvādamāvāsyādiryāgāderiva kartā tu bhagavānamāvāsyādiyāge dvijātivaccetanatvāt| na ca nimittābhyupagame kartrabhāvaprasaṅgo yuktaḥ| virodhābhāvāt| kartrantarābhyupagame tu sa yukta eva| sa evāvirodhaḥ kārye kartṛnimittayordṛṣṭāntenocyate sati kāle prabhutvaṃ syāt padmabodhe yathā raveḥ
Sanskrit only: no published translation is held for this verse.
न च कालादृते तत्र विकासः प्रतिपद्यते । तथापि भास्करः प्रोक्तो लोके ऽस्मिन्पद्मबोधकः
na ca kālādṛte tatra vikāsaḥ pratipadyate / tathāpi bhāskaraḥ prokto loke 'sminpadmabodhakaḥ
Sanskrit only: no published translation is held for this verse.
दार्ष्टान्तिके ऽप्युच्यते एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः । तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः
dārṣṭāntike 'pyucyate evaṃ yadyapi tulyatvaṃ karmaṇaḥ kāla eva saḥ / tathāpi prabhuratreśaḥ śaktipātasya saṃsthitaḥ
Sanskrit only: no published translation is held for this verse.
सिद्धान्तस्तु बहूनामप्यदोषः स्याद् विभुत्वान्न निवार्यते
siddhāntastu bahūnāmapyadoṣaḥ syād vibhutvānna nivāryate
Sanskrit only: no published translation is held for this verse.
एवं शक्तिपातः प्रागुक्तः। सर्वप्रश्नशून्यो मया प्रोक्तो ऽत्रेति। अत्र प्रसङ्गात्प्रश्नः गरुड उवाच एवं तच्छक्तिसंयोगाद् दीक्षा यदि च संस्थिता
evaṃ śaktipātaḥ prāguktaḥ| sarvapraśnaśūnyo mayā prokto 'treti| atra prasaṅgātpraśnaḥ garuḍa uvāca evaṃ tacchaktisaṃyogād dīkṣā yadi ca saṃsthitā
Sanskrit only: no published translation is held for this verse.
दीक्षितोत्तरकाले ऽपि तिरोभावः प्रदृश्यते । तिरोभावकरी शक्तिर् यदि तस्य न निर्वृतिः
dīkṣitottarakāle 'pi tirobhāvaḥ pradṛśyate / tirobhāvakarī śaktir yadi tasya na nirvṛtiḥ
Sanskrit only: no published translation is held for this verse.
एवमनेन क्रमेण विशिष्टात् परमेश्वरशक्तिसम्बन्धाद्यदि पुंसो दीक्षेति मोक्षहेतुरनुग्रहस्ततो दीक्षोत्तर कालमपि तच्छक्तिसम्बन्धस्य भावात्तिरोभावः समयोल्लङ्घनाद्यात्मको न भवेत्। दृश्यते चासौ ततस्तद्भावभावित्वस्य व्यभिचाराच्छक्तिपातस्यानुग्रहहेतुत्वासिद्धेः। यदुक्तं तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा। ।क़ुओते तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ।किर्। १:२१अब्। इत्येतत्पुनरप्ययुक्तमेव। अथानुग्रहहेतुरसाविष्यते यद्येवं तथा करोतु स शक्तिपातलक्षणं स्वमस्यास्तीति स्वामी यथासौ पुरुषो नान्यथा भवेन्न तिरोभावहेतुषु प्रवर्तत इत्यर्थः। न च तथा करोति तदानीमपि तिरोभावहेतुष्वनुष्ठानदर्शनात्तत् नानुग्रहहेतुः शक्तिपात इति पूर्वः पक्षः। अत्र सिद्धान्तः भगवान् उवाच तिरोभावगतानां सा पुरुषाणां शिवेच्छया
evamanena krameṇa viśiṣṭāt parameśvaraśaktisambandhādyadi puṃso dīkṣeti mokṣaheturanugrahastato dīkṣottara kālamapi tacchaktisambandhasya bhāvāttirobhāvaḥ samayollaṅghanādyātmako na bhavet| dṛśyate cāsau tatastadbhāvabhāvitvasya vyabhicārācchaktipātasyānugrahahetutvāsiddheḥ| yaduktaṃ tīvraśaktinipātena guruṇā dīkṣito yadā| /quote tīvraśaktinipātena guruṇā dīkṣito yadā /Kir/ 1:21ab. ityetatpunarapyayuktameva| athānugrahaheturasāviṣyate yadyevaṃ tathā karotu sa śaktipātalakṣaṇaṃ svamasyāstīti svāmī yathāsau puruṣo nānyathā bhavenna tirobhāvahetuṣu pravartata ityarthaḥ| na ca tathā karoti tadānīmapi tirobhāvahetuṣvanuṣṭhānadarśanāttat nānugrahahetuḥ śaktipāta iti pūrvaḥ pakṣaḥ| atra siddhāntaḥ bhagavān uvāca tirobhāvagatānāṃ sā puruṣāṇāṃ śivecchayā
Sanskrit only: no published translation is held for this verse.
न तिरोभावकर्तृत्वाद् उच्यते सा तिरोहिका । तिरोभावाय पातो न यतो ऽनुग्रहधर्मिणी
na tirobhāvakartṛtvād ucyate sā tirohikā / tirobhāvāya pāto na yato 'nugrahadharmiṇī
Sanskrit only: no published translation is held for this verse.
येन कारणेन यस्यैव पुंसो मलपरिपाककालो ऽसावासन्नस्तेन तस्यैवात्मानं प्रकाशयतीत्युक्तम् कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति। ।क़ुओते कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ।किर्। २:२९च्द्। ततो ऽयमप्यदोषः। यदुक्तं दीक्षोत्तरकालमपि सा शक्तिः कथं तिरोभावहेतुत्वेन संस्थितेति। तदप्ययुक्तम्। यतः प्रकाश्य याति विद्युद्वत् सा शक्तिः पुंप्रबोधिनी
yena kāraṇena yasyaiva puṃso malaparipākakālo 'sāvāsannastena tasyaivātmānaṃ prakāśayatītyuktam kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛha iti| /quote kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ /Kir/ 2:29cd. tato 'yamapyadoṣaḥ| yaduktaṃ dīkṣottarakālamapi sā śaktiḥ kathaṃ tirobhāvahetutvena saṃsthiteti| tadapyayuktam| yataḥ prakāśya yāti vidyudvat sā śaktiḥ puṃprabodhinī
Sanskrit only: no published translation is held for this verse.
पुंसस्तदानीं प्रतिबोधं मलक्षयात्मकं कृत्वा सा शक्तिरचिरेणैव कालेन विद्युद्वद्याति तस्माद्व्यापारान्निवर्त्तते। कृतस्य पुनः करणासम्भवादिति न्यायसिद्ध एवायमर्थ इति भावः। दीक्षोत्तरं तु मोक्षप्राप्तिर्यावत् सामान्येन सा तस्याधिष्ठायकत्वेन स्थितेति न शक्तिपातस्यानुग्रहं प्रति व्यभिचारदोषः। एवमपि दीक्षाया मोक्षव्यभिचारप्रसङ्गदोषस्तदुत्तरकालं तिरोभावदर्शनादिति। अत्राप्युच्यते यदि सर्वात्मना वायं दीक्षितो ऽपि तिरोहितः । द्विविधे ऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत्
puṃsastadānīṃ pratibodhaṃ malakṣayātmakaṃ kṛtvā sā śaktiracireṇaiva kālena vidyudvadyāti tasmādvyāpārānnivarttate| kṛtasya punaḥ karaṇāsambhavāditi nyāyasiddha evāyamartha iti bhāvaḥ| dīkṣottaraṃ tu mokṣaprāptiryāvat sāmānyena sā tasyādhiṣṭhāyakatvena sthiteti na śaktipātasyānugrahaṃ prati vyabhicāradoṣaḥ| evamapi dīkṣāyā mokṣavyabhicāraprasaṅgadoṣastaduttarakālaṃ tirobhāvadarśanāditi| atrāpyucyate yadi sarvātmanā vāyaṃ dīkṣito 'pi tirohitaḥ / dvividhe 'pi tirobhāve sthānaprāptiḥ kvacidbhavet
Sanskrit only: no published translation is held for this verse.
न तु सर्वस्मिन्समयातिक्रमे वक्ष्यमाणैः प्रायश्चित्तैः क्षपित इति क्वचिद्ग्रहणम्। किमत इत्युच्यते। तत्र स्थितस्य तस्येह वासना सैव जायते । तद्युक्तस्य विमोक्षः स्याद् आत्मनो निर्विकल्पकः
na tu sarvasminsamayātikrame vakṣyamāṇaiḥ prāyaścittaiḥ kṣapita iti kvacidgrahaṇam| kimata ityucyate| tatra sthitasya tasyeha vāsanā saiva jāyate / tadyuktasya vimokṣaḥ syād ātmano nirvikalpakaḥ
Sanskrit only: no published translation is held for this verse.
तथा हि अनेन क्रमयोगेन तिरोभावगतो भवेत् । आनर्थक्यप्रसङ्गः स्याद् यदि मुक्तिर्न सा भवेत्
tathā hi anena kramayogena tirobhāvagato bhavet / ānarthakyaprasaṅgaḥ syād yadi muktirna sā bhavet
Sanskrit only: no published translation is held for this verse.
कर्मणा मलपरिपाकलक्षणेन यत्साम्यं मन्दत्वं मन्दतरत्वं वा तस्य विवक्षाहेतुत्वाद्विवक्षा ज्ञानमेव तया हेतुभूतया मन्दा मन्दतरा वा शक्तिः पारमेश्वरी दीक्षा वा यस्योपतिष्ठते तस्य प्रत्यवाययोगो भवत्येव। यस्य तु मलपरिपाकलक्षणेन कर्मणा तीव्रेण तीव्रतरेण वा साम्यं तद्विवक्षया तीव्रा तीव्रतरा वा शक्तिः पतति तस्य न प्रत्यवायः कथमपि सम्भवतीत्युक्तं भवति। एवमनुग्रहशक्तेर्मन्दत्वोपचारेण प्रत्यवायहेतुत्वं मन्तव्यम्। नान्यथेत्युच्यते न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी
karmaṇā malaparipākalakṣaṇena yatsāmyaṃ mandatvaṃ mandataratvaṃ vā tasya vivakṣāhetutvādvivakṣā jñānameva tayā hetubhūtayā mandā mandatarā vā śaktiḥ pārameśvarī dīkṣā vā yasyopatiṣṭhate tasya pratyavāyayogo bhavatyeva| yasya tu malaparipākalakṣaṇena karmaṇā tīvreṇa tīvratareṇa vā sāmyaṃ tadvivakṣayā tīvrā tīvratarā vā śaktiḥ patati tasya na pratyavāyaḥ kathamapi sambhavatītyuktaṃ bhavati| evamanugrahaśaktermandatvopacāreṇa pratyavāyahetutvaṃ mantavyam| nānyathetyucyate na punastādṛśī śaktiḥ kṣīravatpariṇāminī
Sanskrit only: no published translation is held for this verse.
यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा । द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम्
yataḥ śaktimataḥ śaktiḥ kṛtyasaṃsthānabhedagā / dvijādivarṇaniśreṇī sā ca mocayati sphuṭam
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.