प्रधानशक्तेः ब्रह्मशक्तेः । नियमः प्रधानशक्तिनियमः । सुप्रतिष्ठः सुस्थिरः । न चेद् भवेत् यदि न स्यात् । तत् तदा । रोहितानां क्वचित् कुत्रापि देशे काले वा । फलं न स्यात् । कुतः । शक्त्यशक्तत्वात् । शक्त्या ब्रह्मशक्त्या । लक्षणया तन्नियमेन । यत् शक्तत्वं फलं प्रति सामर्थ्यं । तदभावः अशक्तत्वं । तस्मात् शक्त्यशक्तत्वात् । यतः रोहितानां नानाविधानां क्रियाणां फलं विद्यते ऽतः अनुमीयते को ऽपि नियमो ऽस्ति येन क्रियाणां फलोत्पादनं प्रति सामर्थ्यम् अस्तीति भावः
pradhānaśakteḥ brahmaśakteḥ | niyamaḥ pradhānaśaktiniyamaḥ | supratiṣṭhaḥ susthiraḥ | na ced bhavet yadi na syāt | tat tadā | rohitānāṃ kvacit kutrāpi deśe kāle vā | phalaṃ na syāt | kutaḥ | śaktyaśaktatvāt | śaktyā brahmaśaktyā | lakṣaṇayā tanniyamena | yat śaktatvaṃ phalaṃ prati sāmarthyaṃ | tadabhāvaḥ aśaktatvaṃ | tasmāt śaktyaśaktatvāt | yataḥ rohitānāṃ nānāvidhānāṃ kriyāṇāṃ phalaṃ vidyate 'taḥ anumīyate ko 'pi niyamo 'sti yena kriyāṇāṃ phalotpādanaṃ prati sāmarthyam astīti bhāvaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.