हि यस्मात् अर्थे । ऽशेषं समस्तं जगत् चित्प्रकाशच्छटा चित्प्रकाशे सिद्धपदार्थपङ्क्तिमयत्वात् चित्प्रकाशपङ्क्तिः । भवति । कथम्भूतं । शान्ताशेषविशेषं । शान्ताः चिन्मात्रे प्रलीनाः । अशेषाः समस्ताः । विशेषाः भावाः यस्य । तत् । तस्मात् ततो हेतोः । कार्यकारणकादित्वम् अन्यत् चिन्मात्रात् पृथक् । न विद्यते । कार्यकारणत्वादेर् अपि जगत्त्वेन चित्प्रकाशच्छटात्वानपायात्
hi yasmāt arthe | 'śeṣaṃ samastaṃ jagat citprakāśacchaṭā citprakāśe siddhapadārthapaṅktimayatvāt citprakāśapaṅktiḥ | bhavati | kathambhūtaṃ | śāntāśeṣaviśeṣaṃ | śāntāḥ cinmātre pralīnāḥ | aśeṣāḥ samastāḥ | viśeṣāḥ bhāvāḥ yasya | tat | tasmāt tato hetoḥ | kāryakāraṇakāditvam anyat cinmātrāt pṛthak | na vidyate | kāryakāraṇatvāder api jagattvena citprakāśacchaṭātvānapāyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.