चित्स्तम्भे चिदाख्ये स्तम्भे । त्रिजगत्सालभञ्जिका त्रिजगदाख्या पुत्रिकानुत्कीर्णैव सती । भातीव । परमार्थतस् तु न भातीतीवशब्दोपादानम् । ननु किमर्थं नोत्कीर्णास्तीत्य् । अत्राह न चेति । सा जगदाख्या पुत्रिका । न चोत्कीर्णा । अर्हप्रत्ययार्थो ऽत्र स्वयं बोद्धव्यः । उत्कर्तुं योग्या न भवति । नकिञ्चिद्रूपत्वात् । न चात्रोत्कर्ता उत्करणकर्ता । विद्यते । द्वैताभावात्
citstambhe cidākhye stambhe | trijagatsālabhañjikā trijagadākhyā putrikānutkīrṇaiva satī | bhātīva | paramārthatas tu na bhātītīvaśabdopādānam | nanu kimarthaṃ notkīrṇāstīty | atrāha na ceti | sā jagadākhyā putrikā | na cotkīrṇā | arhapratyayārtho 'tra svayaṃ boddhavyaḥ | utkartuṃ yogyā na bhavati | nakiñcidrūpatvāt | na cātrotkartā utkaraṇakartā | vidyate | dvaitābhāvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.