प्रीतिशोकौ स्याताम्, न स्याताम् । न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते । तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता । मध्यस्थता च स्थितेः स्यात् -- इति दुर्घटमापद्येत । तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् । न च स्यात्, स्थितेः । प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् । न च भवेत्, पूर्वस्यैव स्थितेः । विनाशाच्च शोकः स्यादिति । अथ भेदो ऽप्यस्तीति नायं दोषः । अभेदो ऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः । नात्यन्तमभेद इति व्यवस्थापि न युज्यते । न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते -- नात्यन्तमभेद इत्यसंकर इति । तथा च नैकान्तः सर्वभावानां यदि सर्वविधानतः । अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वत्र ही जगत्
prītiśokau syātām, na syātām / na hi taddravyamavatiṣṭhata eva, vinaśyatyapūrvaṃ cotpadyate / tatra vināśādapūrvotpatteśca prītiśokau syātām, na madhyasthatā / madhyasthatā ca sthiteḥ syāt -- iti durghaṭamāpadyeta / tathā vardhamānakārthinastannāśācchokaḥ syāt / na ca syāt, sthiteḥ / prītiśca tasyāpūrvasyotpādātsyāt / na ca bhavet, pūrvasyaiva sthiteḥ / vināśācca śokaḥ syāditi / atha bhedo 'pyastīti nāyaṃ doṣaḥ / abhedo 'pyastīti kiṃ na bhavati? atha nātyantamabhedaḥ, tena na saṃkaraḥ / nātyantamabheda iti vyavasthāpi na yujyate / na cāsya kiñcitkvacidekāntataḥ sarvatrānekāntamabhyupayataḥ, yenāyaṃ viśeṣa ucyate -- nātyantamabheda ityasaṃkara iti / tathā ca naikāntaḥ sarvabhāvānāṃ yadi sarvavidhānataḥ / apravṛttinivṛttīdaṃ prāptaṃ sarvatra hī jagat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.