Library·Brahmasiddhi·1

Brahmasiddhi 1

आनन्दमेकममृतमजं विज्ञानमक्षरम् । असर्वं सर्वमभयं नमस्यामः प्रजापतिम्

ānandamekamamṛtamajaṃ vijñānamakṣaram / asarvaṃ sarvamabhayaṃ namasyāmaḥ prajāpatim

Sanskrit only: no published translation is held for this verse.

तथा ‘क्षीयन्ते चास्य कर्माणिऽ; इति । अथवा विद्ययाविद्यानिवृत्तौ प्रविलीन एव कर्तृकर्मफलप्रविभागः । तस्य कुतः सम्भवः । नाप्यविद्यानिमित्तः, तत्प्रवृत्तिहेतोरभावात् । अनादिर्ह्यविद्या, अनादित्वादेव न हेतुमपेक्षते । प्रागभावे हि हेतुव्यापारः, असति प्रागभावे कदा हेतुर्व्याप्रियेत । न हि सतो हेतुकृत्यमस्ति, विद्यया तूच्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात्प्रवर्तितुमर्हति । सुषुप्ते तु विक्षेपमात्रं निवृत्तम्, तत्संस्कारो ऽग्रहणं च नैव निवृत्ते । अन्यथा न तुरीयाद्भिद्येत । विक्षेपमात्राभावात्तु ब्रह्मप्राप्त्यभिधानम् । तस्मात्सुष्ठूक्तम् -- अभयमिति । केन पुनः प्रमाणेनास्यार्थस्य समधिगमः । न तावत्प्रत्यक्षेण, तस्यैतद्विपरीतभेदविषयत्वात् । नाप्यनुमानेन, तत्पूर्वकत्वात् । नोपमानेन, सादृश्यविषयत्वात्, तस्य च भेदाधिष्ठानत्वात् । अर्थापत्तिस्तु विपर्यये, न भेदमन्तरेण कश्चिद्व्यवहार उपपद्यते यतः । अभेदो ऽपि हि प्रमात्रादिविभागादृते दुरवगमः । अभावो ऽपि न भावरूपतत्त्वावगमायालम् । नापि [क्क्स् २३] प्रपञ्चाभावावगमाय, प्रत्यक्षादिषु सत्सु तदसंभवात् । आगमो ऽपि न तावदाप्तप्रणेतृको ऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् । नापि स्वतन्त्रः, विधिनिषेधरूपत्वात्, तयोश्च स्थिते तत्त्वे ऽसंभवात् । नापि तदनपेक्षं व्यवस्थितवस्तुविषयमेव प्रामाण्यम्, भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् । लोकाच्च शब्दसामर्थ्याधिगमः । तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थवत्त्वात् । न हि प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्थः । अपि च न भूतानुवादाद्वचसः सम्बन्धानुगमः, अपि तु प्रवर्तकात् । प्रवृत्त्या ह्यनुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थ्यप्रतीतिः ( प्रतीतेः - एदितिओन्) तथा च न प्रवृत्तिसम्बन्धरहितेष्वर्थेषु शब्दानां शक्तिर्गम्यते । तथा सत्यनवगतसामर्थ्याः शब्दा भूते ऽर्थे कथं तदवगमयेयुः । अपि च प्रमाणान्तरावसितश्चेत्सो ऽर्थः, न शब्दस्य तत्र प्रामाण्यम् । अथानवसितः, नतराम् । अपदार्थत्वे वाक्यविषयत्वासम्भवात् । पदार्थ एव हि विशिष्टतया वाक्यार्थीभवति । अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे न गुणत्वेन प्रधानत्वेन वानुप्रवेशमर्हति । अपि च प्रलीननिखिलावच्छेदं तत्त्वमगोचर एव प्रतिपत्तेः । सर्वा हि प्रतिपत्तिः -- ‘एवम्, नैवम्ऽ; इति व्यवच्छेदेन प्रवर्तते । अन्यथा न कश्चित्प्रतिपन्नः स्यात् । सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह -- आम्नायतः प्रसिद्धिं च कवयो ऽस्य प्रचक्षते । भेदप्रपञ्चविलयद्वारेण च निरूपणाम्

tathā ‘kṣīyante cāsya karmāṇi'; iti / athavā vidyayāvidyānivṛttau pravilīna eva kartṛkarmaphalapravibhāgaḥ / tasya kutaḥ sambhavaḥ / nāpyavidyānimittaḥ, tatpravṛttihetorabhāvāt / anādirhyavidyā, anāditvādeva na hetumapekṣate / prāgabhāve hi hetuvyāpāraḥ, asati prāgabhāve kadā heturvyāpriyeta / na hi sato hetukṛtyamasti, vidyayā tūcchinnā prāgasatī pravartamānā nākasmātpravartitumarhati / suṣupte tu vikṣepamātraṃ nivṛttam, tatsaṃskāro 'grahaṇaṃ ca naiva nivṛtte / anyathā na turīyādbhidyeta / vikṣepamātrābhāvāttu brahmaprāptyabhidhānam / tasmātsuṣṭhūktam -- abhayamiti / kena punaḥ pramāṇenāsyārthasya samadhigamaḥ / na tāvatpratyakṣeṇa, tasyaitadviparītabhedaviṣayatvāt / nāpyanumānena, tatpūrvakatvāt / nopamānena, sādṛśyaviṣayatvāt, tasya ca bhedādhiṣṭhānatvāt / arthāpattistu viparyaye, na bhedamantareṇa kaścidvyavahāra upapadyate yataḥ / abhedo 'pi hi pramātrādivibhāgādṛte duravagamaḥ / abhāvo 'pi na bhāvarūpatattvāvagamāyālam / nāpi [KKS 23] prapañcābhāvāvagamāya, pratyakṣādiṣu satsu tadasaṃbhavāt / āgamo 'pi na tāvadāptapraṇetṛko 'tra kramate, pramāṇāntarādhigatagocaratvāt / nāpi svatantraḥ, vidhiniṣedharūpatvāt, tayośca sthite tattve 'saṃbhavāt / nāpi tadanapekṣaṃ vyavasthitavastuviṣayameva prāmāṇyam, bhūtānuvādatve pramāṇāntarāpekṣatvāt / lokācca śabdasāmarthyādhigamaḥ / tatra kāryaparatayaiva kāryānvayiṣvartheṣu padāni prayujyante, tathārthavattvāt / na hi pravṛttinivṛttiśūnyasya vacasaḥ kaścidarthaḥ / api ca na bhūtānuvādādvacasaḥ sambandhānugamaḥ, api tu pravartakāt / pravṛttyā hyanumāyārthapratyayaṃ tatra śabdasya sāmarthyapratītiḥ ( pratīteḥ - edition) tathā ca na pravṛttisambandharahiteṣvartheṣu śabdānāṃ śaktirgamyate / tathā satyanavagatasāmarthyāḥ śabdā bhūte 'rthe kathaṃ tadavagamayeyuḥ / api ca pramāṇāntarāvasitaścetso 'rthaḥ, na śabdasya tatra prāmāṇyam / athānavasitaḥ, natarām / apadārthatve vākyaviṣayatvāsambhavāt / padārtha eva hi viśiṣṭatayā vākyārthībhavati / atyantāparidṛṣṭastu padādanavagamyamānaḥ padārthasaṃsargātmake vākyārthe na guṇatvena pradhānatvena vānupraveśamarhati / api ca pralīnanikhilāvacchedaṃ tattvamagocara eva pratipatteḥ / sarvā hi pratipattiḥ -- ‘evam, naivam'; iti vyavacchedena pravartate / anyathā na kaścitpratipannaḥ syāt / sarvaviśeṣapratyastamaye tu kathaṃ pratipattiḥ syādityatrāha -- āmnāyataḥ prasiddhiṃ ca kavayo 'sya pracakṣate / bhedaprapañcavilayadvāreṇa ca nirūpaṇām

Sanskrit only: no published translation is held for this verse.

‘यज्ञेन दानेनऽइति श्रवणात्कर्माण्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यश्वं ग्रामप्राप्तौ सिद्द्यन्त्यां शैघ्र्यायाक्लेशाय वाश्वो ऽपेक्ष्यते । ननु विद्यारूपं ब्रह्मैव । न विद्या ब्रह्मणो ऽन्या । तच्च नित्यमकार्यम् । तत्र कथं किञ्चिदपेक्ष्येत? उच्यते -- यथोपधानतिरोहितरूपस्फटिकमणिरुपधावकर्षणं स्वरूपाभिव्यक्तये ऽपेक्षते तथेहापि द्रष्टव्यम् । न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधानसन्निधेः, तदपगमे वान्यदुत्पन्नम् । न ह्यकस्मादनेकविसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः सम्भवति । न ह्यग्निविगमे ऽङ्गारेभ्यः पुनः काष्ठसन्ततिप्रवृत्तिः । तस्माद्यथैवाकार्यं स्फटिकरूपमुपधानावकर्षणमपेक्षते तथात्मरूपमपि । स्यदेतत् -- ज्ञानं तत्र सापेक्षम् । तच्च स्फटिकाद्भिन्नं कार्यम् । पुरुषप्रयत्नो हि तत्र ज्ञानार्थः । किं पुनर्ज्ञानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये? न तावत्स्वरूपेण, अर्थेन व्यवहारत् । न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् । अथार्थस्वभाय ज्ञानमर्थ्येत, तदर्थो व्यापारस्तेनार्थितो भवति । न च ज्ञानादर्थे कश्चिद्विकारः, तयोरसंबन्धात् । योग्यदेशतायाः सर्वत्र भावात् । सर्वप्रतिपत्तृणां च विदितत्वप्रसङ्गात् । ध्वस्तानागतेषु च तदसंभवात् । तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयत्नापेक्षम्, तथात्मतत्त्वमप्यतिरोहितं तिरोहितमिव प्रयत्नादभिव्यज्यत इवेति पुष्कलम् । संहृताखिलभेदो ऽतः सामान्यात्मा स वर्णितः । हेमेव पारिहार्यादिभेदसंहारसूचितम्

‘yajñena dānena'iti śravaṇātkarmāṇyapekṣyante vidyāyāmabhyāsalabhyāyāmapi, yathāntareṇāpyaśvaṃ grāmaprāptau siddyantyāṃ śaighryāyākleśāya vāśvo 'pekṣyate / nanu vidyārūpaṃ brahmaiva / na vidyā brahmaṇo 'nyā / tacca nityamakāryam / tatra kathaṃ kiñcidapekṣyeta? ucyate -- yathopadhānatirohitarūpasphaṭikamaṇirupadhāvakarṣaṇaṃ svarūpābhivyaktaye 'pekṣate tathehāpi draṣṭavyam / na hi sphaṭikamaṇeḥ pūrvarūpaṃ vinaṣṭamupadhānasannidheḥ, tadapagame vānyadutpannam / na hyakasmādanekavisabhāgakṣaṇavyavahitasya pūrvasabhāgakṣaṇasyotpattiḥ sambhavati / na hyagnivigame 'ṅgārebhyaḥ punaḥ kāṣṭhasantatipravṛttiḥ / tasmādyathaivākāryaṃ sphaṭikarūpamupadhānāvakarṣaṇamapekṣate tathātmarūpamapi / syadetat -- jñānaṃ tatra sāpekṣam / tacca sphaṭikādbhinnaṃ kāryam / puruṣaprayatno hi tatra jñānārthaḥ / kiṃ punarjñānaṃ svarūpeṇaivārthitam, āhosvidarthasvabhāvasiddhaye? na tāvatsvarūpeṇa, arthena vyavahārat / na vijñānamātranibandhano vyavahāraḥ, mithyājñānenāpi prasaṅgāt / athārthasvabhāya jñānamarthyeta, tadartho vyāpārastenārthito bhavati / na ca jñānādarthe kaścidvikāraḥ, tayorasaṃbandhāt / yogyadeśatāyāḥ sarvatra bhāvāt / sarvapratipattṛṇāṃ ca viditatvaprasaṅgāt / dhvastānāgateṣu ca tadasaṃbhavāt / tasmādyathātirohitamapi tirohitamivābhivyajyata iva prayatnāpekṣam, tathātmatattvamapyatirohitaṃ tirohitamiva prayatnādabhivyajyata iveti puṣkalam / saṃhṛtākhilabhedo 'taḥ sāmānyātmā sa varṇitaḥ / hemeva pārihāryādibhedasaṃhārasūcitam

Sanskrit only: no published translation is held for this verse.

ननु प्रत्यक्षादिभिर्व्यावृत्तानां भावस्वभावानामवगमान्नैकस्मिन्नद्वये शब्दः प्रमाणम्, प्रत्यक्षादिविरोधात्, ग्रावप्लवनाद्यर्थवचोवत् । उच्यते -- आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते

nanu pratyakṣādibhirvyāvṛttānāṃ bhāvasvabhāvānāmavagamānnaikasminnadvaye śabdaḥ pramāṇam, pratyakṣādivirodhāt, grāvaplavanādyarthavacovat / ucyate -- āhurvidhātṛ pratyakṣaṃ na niṣeddhṛ vipaścitaḥ / naikatva āgamastena pratyakṣeṇa virudhyate

Sanskrit only: no published translation is held for this verse.

न खलु रजतज्ञानानुग्रहाय शुक्तिशकलज्ञानस्य गोचरो ऽपरः कल्प्यते । न च प्रत्यक्षादीनामनन्यगतित्वादनवकाशत्वम् । या खलु रजतादिविभ्रमाणां गतिः, सा तेषामपि । यदि तेषामुपचरितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तथा । अथासत्त्वात्तस्याविषया अविद्यमानार्थाः प्रत्यक्षादयो ऽप्येवम् । तस्मादविवक्षितार्थत्वमुपचरितार्थत्वं [क्क्स् ४३] वा गतिरुभयोरविशिष्टा । एतेनेदमपि पराकृतम्, यदाहुः -- शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके । तस्मात्प्रत्यक्षादिविरोधे वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति । यत्तु मुख्यत्वात्प्रतिष्ठितार्थैरपहतविषय आम्नाय इति । अत एव बाधकः, शुक्तिज्ञानवत् । न च तदनुसारेणार्थकल्पनामर्हति, अनपेक्षत्वात् । न, तदधीनमस्य प्रमाणत्वम् । न तैः संभूयकारित्वम्, नाम्नायस्य प्रत्यक्षादीनां चैकवाक्यभावः । परस्परानपेक्षो ह्युभयत्र बुद्ध्युत्पादः । तत्र परबलीयस्त्वं न्याय्यम् । यथोक्तम् -- ‘पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्ऽ; ॥ यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया स्वरसवृत्त्या मुख्ये स्थिते, प्रथमया वृत्त्या तदेकवाक्यत्वं प्रतिपत्तुमशक्नुवन्ति तदपेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया वृत्त्या पूर्वापेक्षितमर्थं समर्पयन्त्येकवाक्यतासामर्थ्यादिति मुख्यबलीयस्त्वम् । यत्तु व्याकुलत्वादिति, तत्रोच्यते -- स्याद्व्याकुलत्वम्, यदि कर्मविधयो भेदप्रतिपादनपराः स्युः । ते तु सिद्धं भेदमुपाश्रित्य ‘इदमनेनेत्थं साधयेत्ऽ; इति पुरुषहितानुशासनप्रधानाः । स्यादेतत् । असति भेदे ऽंशत्रयप्रत्यस्तमयात्कुतो हितानुशासनम्? उच्यते -- यथा खलु श्येनादिषु ‘न हिंस्यात्सर्वा भूतानिऽ; इति प्रतिषेधात्साध्यांशप्रत्यस्तमये ऽप्यनुशासनम्, एवं सर्वत्र सर्वांशप्रत्यस्तमये ऽपि । तथा हि -- निषिद्धानर्थोदया कथं हिंसा साध्या स्यात्? अथ भवति कस्य चित्तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थमप्यर्थत्वेन पश्यतः शास्त्रोपदेशमतिक्रामतः, तथा ज्योतिष्टोमादिषु निसर्गजाविद्योपदर्शिता अप्रतिबुद्धानां त्रयो ऽप्यंशाः, तानुपाश्रित्य तेषामनुशासनम् । प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते । यथा श्येनादिविधिभिरपजितक्रोधारातयः । तदेवं व्यवहारसिद्धभेदाश्रयेषु कर्मविधिषु यद्यपि भेदप्रतीतिरस्ति [क्क्स् ४४], तथापि तेषामतत्परत्वान् न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवादपदानाम् । तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम्? अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिशकलादिज्ञानेषु, भेदाभेदप्रतीतेश्च सर्वत्र । तदेवं बलवत्त्वे ऽप्याम्नायस्य यो नाम मन्दधीर्लौकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाल्लोकवद्वेदे ऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्यक्षादीनामेव बलवत्त्वं मन्यते, लोकवचसां च तैर्बाधदर्शनात्, तत्प्रतिबोधनाय विरोधो निरस्यते, न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति । तत्र प्रत्यक्षे त्रयः कल्पाः -- वस्तुस्वरूपविधिः वस्त्वन्तरस्य व्यवच्छेदः, उभयं वेत्ति, उभयस्मिन्नपि त्रैविध्यम् -- यौगपद्यम्, व्यवच्छेदपूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति । तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् वा भेदः प्रत्यक्षगोचर इति भवति विरोधः । स्वरूपविधिमात्रे तु कस्यचिद्व्यवच्छेदेन शून्ये न भेदः प्रमाणार्थः, न हि व्यवच्छेदादृते भेदसिद्धिः । विधिमात्रव्यापारं च प्रत्यक्षम्, अतो न विरोधः कथमित्युच्यते -- लब्धरूपे क्वचित्किञ्चित्तादृग् एव निषिध्यते । विधानमन्तरेणातो न विषेधस्य संभवः

na khalu rajatajñānānugrahāya śuktiśakalajñānasya gocaro 'paraḥ kalpyate / na ca pratyakṣādīnāmananyagatitvādanavakāśatvam / yā khalu rajatādivibhramāṇāṃ gatiḥ, sā teṣāmapi / yadi teṣāmupacaritaḥ kalpito vā viṣayaḥ, pratyakṣādīnāmapi tathā / athāsattvāttasyāviṣayā avidyamānārthāḥ pratyakṣādayo 'pyevam / tasmādavivakṣitārthatvamupacaritārthatvaṃ [KKS 43] vā gatirubhayoraviśiṣṭā / etenedamapi parākṛtam, yadāhuḥ -- śabdasya pramāṇāntaravirodhe dṛṣṭamupacaritārthatvamavivakṣitārthatvaṃ vā loke / tasmātpratyakṣādivirodhe vedāntānāṃ tathābhāva iti, pratyakṣādiṣvapi tathā darśanāditi / yattu mukhyatvātpratiṣṭhitārthairapahataviṣaya āmnāya iti / ata eva bādhakaḥ, śuktijñānavat / na ca tadanusāreṇārthakalpanāmarhati, anapekṣatvāt / na, tadadhīnamasya pramāṇatvam / na taiḥ saṃbhūyakāritvam, nāmnāyasya pratyakṣādīnāṃ caikavākyabhāvaḥ / parasparānapekṣo hyubhayatra buddhyutpādaḥ / tatra parabalīyastvaṃ nyāyyam / yathoktam -- ‘pūrvātparabalīyastvaṃ tatra nāma pratīyatām / anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet'; // yatra tvekavākyatayā saṃbhūyakāritvaṃ tatrānupajātavirodhitayā svarasavṛttyā mukhye sthite, prathamayā vṛttyā tadekavākyatvaṃ pratipattumaśaknuvanti tadapekṣitārthasamarpaṇānupapatteḥ parapadāni dvitīyayā vṛttyā pūrvāpekṣitamarthaṃ samarpayantyekavākyatāsāmarthyāditi mukhyabalīyastvam / yattu vyākulatvāditi, tatrocyate -- syādvyākulatvam, yadi karmavidhayo bhedapratipādanaparāḥ syuḥ / te tu siddhaṃ bhedamupāśritya ‘idamanenetthaṃ sādhayet'; iti puruṣahitānuśāsanapradhānāḥ / syādetat / asati bhede 'ṃśatrayapratyastamayātkuto hitānuśāsanam? ucyate -- yathā khalu śyenādiṣu ‘na hiṃsyātsarvā bhūtāni'; iti pratiṣedhātsādhyāṃśapratyastamaye 'pyanuśāsanam, evaṃ sarvatra sarvāṃśapratyastamaye 'pi / tathā hi -- niṣiddhānarthodayā kathaṃ hiṃsā sādhyā syāt? atha bhavati kasya cittīvrakrodhākrāntasvāntatayā samuddhatadhvāntatiraskṛtavivekavijñānasyānarthamapyarthatvena paśyataḥ śāstropadeśamatikrāmataḥ, tathā jyotiṣṭomādiṣu nisargajāvidyopadarśitā apratibuddhānāṃ trayo 'pyaṃśāḥ, tānupāśritya teṣāmanuśāsanam / pratibuddhāstu karmavidhibhirnānuśiṣyante / yathā śyenādividhibhirapajitakrodhārātayaḥ / tadevaṃ vyavahārasiddhabhedāśrayeṣu karmavidhiṣu yadyapi bhedapratītirasti [KKS 44], tathāpi teṣāmatatparatvān na tatra prāmāṇyaṃ vṛttānteṣvivārthavādapadānām / tathā ca kutastairvedāntānāṃ parāhatiḥ, vedāntairvā teṣām? api ca pratyakṣādiṣveva parāhatirupalabhyate, bādhyabādhakabhāvadarśanādrajataśuktiśakalādijñāneṣu, bhedābhedapratīteśca sarvatra / tadevaṃ balavattve 'pyāmnāyasya yo nāma mandadhīrlaukikavacasāṃ pratyakṣādivirodha upacaritārthatvadarśanāllokavadvede 'pi śabdavṛttamiti manyate, yo vā nirūḍhanibiḍatayā bhedadarśanāndhakārasya pratyakṣādīnāmeva balavattvaṃ manyate, lokavacasāṃ ca tairbādhadarśanāt, tatpratibodhanāya virodho nirasyate, na hi yo nāma mandaviṣeṇa vṛścikena daṣṭo mriyate, nāsau na cikitsyata iti / tatra pratyakṣe trayaḥ kalpāḥ -- vastusvarūpavidhiḥ vastvantarasya vyavacchedaḥ, ubhayaṃ vetti, ubhayasminnapi traividhyam -- yaugapadyam, vyavacchedapūrvako vidhiḥ, vidhipūrvako vyavaccheda iti / tatra vastvantaravyavacchede ubhayasmin vā bhedaḥ pratyakṣagocara iti bhavati virodhaḥ / svarūpavidhimātre tu kasyacidvyavacchedena śūnye na bhedaḥ pramāṇārthaḥ, na hi vyavacchedādṛte bhedasiddhiḥ / vidhimātravyāpāraṃ ca pratyakṣam, ato na virodhaḥ kathamityucyate -- labdharūpe kvacitkiñcittādṛg eva niṣidhyate / vidhānamantareṇāto na viṣedhasya saṃbhavaḥ

Sanskrit only: no published translation is held for this verse.

कुतश्चिन्निमित्ताद् बुद्धौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति, अन्यथा दैवनिषिद्धे कः प्रतिषेधो ऽप्राप्तरूपे? प्राप्तरूपे वा कथमत्यन्ताय प्रतिषेधः? अपि चानपेक्षितविषयनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्थः स्यात्, न भेदः, सर्वस्य सर्वत्राविशेषेण निषेधात् । यस्तु भेदाय व्यवच्छेदः स भेद्ययोः सिद्धिमपेक्षते, न च सा विधानादृत इति प्राग्विधानमेषितव्यम्, विधिपूर्वक एव च निषेधो ऽङ्गीक्रियत इति । नापि विधिपूवको व्यवच्छेदः यतः -- क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः । न संनिहितजं तच्च तदन्यामर्शि जायते

kutaścinnimittād buddhau labdharūpāṇāṃ bahirniṣedhaḥ kriyata iti varṇayanti, anyathā daivaniṣiddhe kaḥ pratiṣedho 'prāptarūpe? prāptarūpe vā kathamatyantāya pratiṣedhaḥ? api cānapekṣitaviṣayaniṣedhye vyavacchede śūnyatā pramāṇārthaḥ syāt, na bhedaḥ, sarvasya sarvatrāviśeṣeṇa niṣedhāt / yastu bhedāya vyavacchedaḥ sa bhedyayoḥ siddhimapekṣate, na ca sā vidhānādṛta iti prāgvidhānameṣitavyam, vidhipūrvaka eva ca niṣedho 'ṅgīkriyata iti / nāpi vidhipūvako vyavacchedaḥ yataḥ -- kramaḥ saṃgacchate yuktyā naikavijñānakarmaṇoḥ / na saṃnihitajaṃ tacca tadanyāmarśi jāyate

Sanskrit only: no published translation is held for this verse.

न खल्वेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात्, क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तद्व्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुद्धेर्व्यापारो ऽर्थावग्रहरूपायाः, सा चेदर्हविधानरूपोदया, विधेरेवास्या व्यापारः, यौगपद्यस्य निषेधात्, उत्पन्नायाश्च पुनरनुत्पत्तेः । अपि च संनिहितार्थालम्बनं प्रत्यक्षं नासंनिहितमर्थमवभासयितुमर्हति, न चानवभासमानरूपं व्यवच्छेत्तुं पर्याप्नोति, अनवभासमाने हि तत्र व्यवच्छेद्ये व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्यचित्, सर्वस्य वा स्यात् । तस्मान्नानवभासमाने व्यवच्छेद्ये व्यवच्छेदः, न च संनिहितार्थावलम्बने प्रत्यक्षे ऽसंनिहितावभासो युक्तः । कथमिदानीं बाधकं प्रत्यक्षम्? तत्र हि पूर्वार्थनिषेधपुरःसरो ऽन्यविधिरेकज्ञाने ऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च, तस्मान्नैष नियमः, यतः पूर्वो निषेधः, एकज्ञानव्यापारे च क्रमः, प्रत्यक्षेण चासंनिहितार्थावभासः । नैतत्सारम्, तत्रापि पूर्वविज्ञानविहिते रजतादौ ‘इदम्ऽ; इति च संनिहितार्थसामान्ये निषेधो विधिपूर्व एव, शुक्तिकाविधिस्तु विरोधिनिषेधपूर्व उच्यते, विधिपूर्वता च नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते, न च तत्रैकज्ञानस्य [क्क्स् ४६] क्रमवद्व्यापारता, उभयरूपस्योत्पत्तेः । पूर्वज्ञानप्रापितत्वाच्च विषयव्यवच्छेद्ययोर्नासंभवः, पूर्वज्ञानावभासिते च व्यवच्छेद्ये व्यवच्छेदस्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः । पूर्वापेक्षयैव च तद् द्विरूपमुदेति, अन्यथा एकरूपमेवोदीयात् । अपि च सर्वव्यवच्छेदानपाकुर्वतः को व्यवच्छेदो ऽभिमतः, येन प्रत्यवस्थीयेत? सिद्धः स लोक इति चेत्, अयं वा किं न लोकसिद्धः -- नाश्वो गौः, न गौरश्व इति? यत्तु मतम् -- एकविधिरेवान्यव्यवच्छेदः । तथा हि -- दर्शनं यथैव तदाकारतया तद्रूपं विदधाति, तथा तदेकाकारप्रतिनियमात्, ‘तदेव, नान्यत्ऽ; इत्यन्यद्व्यवच्छिनत्ति, तत्सामर्थ्यप्रभावितौ च ‘इदम्, नेदम्ऽइति विकल्पौ भावाभावव्यवहारं प्रवर्तयतः । न ह्येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानादन्यो ऽन्यव्यवच्छेदः । तत्रोच्यते -- विधानमेव नैकस्य व्यवच्छेदो ऽन्यगोचरः । मा स्म भूदविशेषेण मा न भूदेकधीजुषाम्

na khalvekapramāṇajñānavyāpārau santau vidhivyavacchedau kramavantau yujyete, kṣaṇikatvāt, kramavatorhi vyāpārayoḥ paścāttano na tadvyāpāraḥ syāt, vyavadhānāt / api ca janmaiva buddhervyāpāro 'rthāvagraharūpāyāḥ, sā cedarhavidhānarūpodayā, vidherevāsyā vyāpāraḥ, yaugapadyasya niṣedhāt, utpannāyāśca punaranutpatteḥ / api ca saṃnihitārthālambanaṃ pratyakṣaṃ nāsaṃnihitamarthamavabhāsayitumarhati, na cānavabhāsamānarūpaṃ vyavacchettuṃ paryāpnoti, anavabhāsamāne hi tatra vyavacchedye vyavacchedamātraṃ syāt, na vyavacchedaḥ kasyacit, sarvasya vā syāt / tasmānnānavabhāsamāne vyavacchedye vyavacchedaḥ, na ca saṃnihitārthāvalambane pratyakṣe 'saṃnihitāvabhāso yuktaḥ / kathamidānīṃ bādhakaṃ pratyakṣam? tatra hi pūrvārthaniṣedhapuraḥsaro 'nyavidhirekajñāne 'bhyupeyate, asaṃnihitaniṣedhyāvabhāsaśca, tasmānnaiṣa niyamaḥ, yataḥ pūrvo niṣedhaḥ, ekajñānavyāpāre ca kramaḥ, pratyakṣeṇa cāsaṃnihitārthāvabhāsaḥ / naitatsāram, tatrāpi pūrvavijñānavihite rajatādau ‘idam'; iti ca saṃnihitārthasāmānye niṣedho vidhipūrva eva, śuktikāvidhistu virodhiniṣedhapūrva ucyate, vidhipūrvatā ca niyamena niṣedhasyocyate, na vidherniṣedhapūrvakatā niṣidhyate, na ca tatraikajñānasya [KKS 46] kramavadvyāpāratā, ubhayarūpasyotpatteḥ / pūrvajñānaprāpitatvācca viṣayavyavacchedyayornāsaṃbhavaḥ, pūrvajñānāvabhāsite ca vyavacchedye vyavacchedasya vṛtternāsaṃnihitārthāvabhāsaprasaṅgaḥ, pūrvāpekṣasya tasyotpatteḥ / pūrvāpekṣayaiva ca tad dvirūpamudeti, anyathā ekarūpamevodīyāt / api ca sarvavyavacchedānapākurvataḥ ko vyavacchedo 'bhimataḥ, yena pratyavasthīyeta? siddhaḥ sa loka iti cet, ayaṃ vā kiṃ na lokasiddhaḥ -- nāśvo gauḥ, na gauraśva iti? yattu matam -- ekavidhirevānyavyavacchedaḥ / tathā hi -- darśanaṃ yathaiva tadākāratayā tadrūpaṃ vidadhāti, tathā tadekākārapratiniyamāt, ‘tadeva, nānyat'; ityanyadvyavacchinatti, tatsāmarthyaprabhāvitau ca ‘idam, nedam'iti vikalpau bhāvābhāvavyavahāraṃ pravartayataḥ / na hyekākārapratiniyatādananyasaṃsargiṇo jñānādanyo 'nyavyavacchedaḥ / tatrocyate -- vidhānameva naikasya vyavacchedo 'nyagocaraḥ / mā sma bhūdaviśeṣeṇa mā na bhūdekadhījuṣām

Sanskrit only: no published translation is held for this verse.

नैकप्रतिनियमो ऽन्याभावनिश्चयनिमित्तम्, उपलब्धिलक्षणप्राप्त्यस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्, तत्प्रतिनियमो हि ततो ऽन्यस्यासंसर्गः । तथा चासंसर्गाद्व्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुभयोर्व्यवच्छेदः स्यात् । अथ मतम् -- भवत्येव, तथा हि -- यावन्तो ऽस्यानात्मानस्तानविशेषेण तदात्मनियमाद्दर्शनमपाकरोति, तथा च नास्यान्य आत्मानः, तद्देशकालास्तु भवेयुः, रूपादिवदविरोधात्, तत्रोपलब्धिलक्षणप्राप्तिर्विशेषस्तद्देशकालव्यवच्छेदावधारणाय, संभवति ह्यनुपलभ्यस्तद्देशकालो ऽनात्मानुपलभ्यमानो ऽप्यन्योपलब्धौ, इतरवत्, अन्यथा न तुल्योपलम्भयोग्यतः स्यात् । सत्यमस्त्ययं विभागः, न त्विदानीं दर्शनप्रतिनियमस्य सामर्थ्यम्, तथा हि -- प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रोपक्षयान्न [क्क्स् ४७] रसं व्यवच्छिनत्ति, तथा भूभागदर्शननियमो ऽपि भूभागविधिमात्रव्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात्, व्यवच्छेदे वा सर्वस्य व्यवच्छेदः । तस्माद् दृश्यव्यवच्छेदे ऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममात्रम् । तथा चात्मान्तरव्यवच्छेदो ऽपि न ततः सिद्धिमुपाश्नुते । कामं विधेर्विधेयासत्त्वव्यवच्छेदरूपत्वात्तदभावो व्यवच्छिद्येत, नात्मान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता । नैकस्य बहव आत्मान इति चेत्, अन्यतस्तर्हि विरोधाद्व्यवच्छेदः । न दर्शननियमात् । असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोध इतरेतराश्रयं वा? तस्मान्नैकविधिरन्यव्यवच्छेदः । अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् । ननु प्रकृत्यैव भिन्ना भावाः, तांस्तद्विधान् विदधदेव दर्शनं परस्परतो व्यावर्तयति, न हि व्यावृत्तिरन्या व्यावृत्तिमतः । तत्र व्यावृत्तिमद्विधौ सापि विधीयत एव, यत्प्रकृतिः खलु यः पदार्थः स तयैव प्रकृत्या विधेयः, अन्यथा न तस्य विधिः स्यात्, व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते, तस्मात्तथैव विधीयन्त इति । अत्राप्यसंस्पृष्टनिर्भासनादसंस्पृष्टस्वभावत्वे दृश्ययोरविशेषेण व्यवच्छेदस्तदवस्थः । अपि च न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः । अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते

naikapratiniyamo 'nyābhāvaniścayanimittam, upalabdhilakṣaṇaprāptyasyetarasya cāviśeṣeṇa vyavacchedaprasaṅgāt, tatpratiniyamo hi tato 'nyasyāsaṃsargaḥ / tathā cāsaṃsargādvyavacchede tasya dṛśyādṛśyayoraviśeṣādubhayorvyavacchedaḥ syāt / atha matam -- bhavatyeva, tathā hi -- yāvanto 'syānātmānastānaviśeṣeṇa tadātmaniyamāddarśanamapākaroti, tathā ca nāsyānya ātmānaḥ, taddeśakālāstu bhaveyuḥ, rūpādivadavirodhāt, tatropalabdhilakṣaṇaprāptirviśeṣastaddeśakālavyavacchedāvadhāraṇāya, saṃbhavati hyanupalabhyastaddeśakālo 'nātmānupalabhyamāno 'pyanyopalabdhau, itaravat, anyathā na tulyopalambhayogyataḥ syāt / satyamastyayaṃ vibhāgaḥ, na tvidānīṃ darśanapratiniyamasya sāmarthyam, tathā hi -- pratiniyatamapi tatra deśe kāle ca rūpe darśanaṃ tayoryathā rūpavidhimātropakṣayānna [KKS 47] rasaṃ vyavacchinatti, tathā bhūbhāgadarśananiyamo 'pi bhūbhāgavidhimātravyāpāratvānna ghaṭadṛśyamapi vyavacchindyāt, vyavacchede vā sarvasya vyavacchedaḥ / tasmād dṛśyavyavacchede 'pi hetvantaramupāsyam, na darśanapratiniyamamātram / tathā cātmāntaravyavacchedo 'pi na tataḥ siddhimupāśnute / kāmaṃ vidhervidheyāsattvavyavacchedarūpatvāttadabhāvo vyavacchidyeta, nātmāntarasattā, taddeśakālayorivānupalabhyasattā / naikasya bahava ātmāna iti cet, anyatastarhi virodhādvyavacchedaḥ / na darśananiyamāt / asati ca vyavacchede kuto bahutvam, kuto vā virodha itaretarāśrayaṃ vā? tasmānnaikavidhiranyavyavacchedaḥ / api ca ekaniyamādanyavyavacchede citrādiṣu nīlādīnāmekadarśanabhājāṃ bhedo na sidhyet, ekajñānasaṃsargādekatra jñānasyāniyamāt / nanu prakṛtyaiva bhinnā bhāvāḥ, tāṃstadvidhān vidadhadeva darśanaṃ parasparato vyāvartayati, na hi vyāvṛttiranyā vyāvṛttimataḥ / tatra vyāvṛttimadvidhau sāpi vidhīyata eva, yatprakṛtiḥ khalu yaḥ padārthaḥ sa tayaiva prakṛtyā vidheyaḥ, anyathā na tasya vidhiḥ syāt, vyāvṛttasvabhāvāśca bhāvā yathāyathaṃ darśaneṣu nirbhāsante, tasmāttathaiva vidhīyanta iti / atrāpyasaṃspṛṣṭanirbhāsanādasaṃspṛṣṭasvabhāvatve dṛśyayoraviśeṣeṇa vyavacchedastadavasthaḥ / api ca na bhedo vastuno rūpaṃ tadabhāvaprasaṅgataḥ / arūpeṇa ca bhinnatvaṃ vastuno nāvakalpate

Sanskrit only: no published translation is held for this verse.

न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते । न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति । कथं तर्थि पित्रादयः? न हि ते ऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् । उच्यते -- भेदो ऽप्येवं किं न लोकसिद्धः? अपि च पित्रादिविषये ऽपेक्षा जननादिप्रभाविता

na bhedo vastuno rūpam, āpekṣiko hi pratīyate / na cāpekṣāyāṃ puruṣapratyayaṃ vastvanuvartate, vyavasthitavastupūrvakatvāditi / kathaṃ tarthi pitrādayaḥ? na hi te 'pekṣayā vinā, na ca khapuṣpagandharvanagarāditulyāḥ, avisaṃvādivyavahārāṅgatayā lokasiddhatvāt / ucyate -- bhedo 'pyevaṃ kiṃ na lokasiddhaḥ? api ca pitrādiviṣaye 'pekṣā jananādiprabhāvitā

Sanskrit only: no published translation is held for this verse.

एकक्रियाविशेषेण व्यपेक्षा ह्रस्वदीर्घयोः । व्यवस्थिते एव जन्यजनकशक्ती पितृपुत्रशब्दयोरभिधेये, ते तु समानजननव्यापारविषये तावास्कन्दतः, स्वभावभेदात् । अतो येन समानत्वम्, तत्रापेक्षा । एतदुक्तं भवति -- शब्दार्थस्तत्र सापेक्षः, न वस्तु । अपेक्षाहेतुश्च तत्र साधारणी क्रिया विद्यते व्यवस्थितयोरपि वस्तुनोः । भावभेदे त्वयं वस्तुतत्त्वगतो विचारः, न चापेक्षाहेतुः कश्चिदुपलभ्यते । ह्रस्वदीर्घयोरप्येकजातीयायां क्रियायां देशव्याप्तौ न्यूनाधिकभावादेवं द्रष्टव्यम् । यदि तर्हि कार्यभेदादप्यपेक्षा, हन्त! अर्थक्रियाभेदादेव भावानां परस्परापेक्षो भेदः सेत्स्यति । किं चासत्यामपि दर्शनाद्भेदसिद्धौ विधिमात्रव्यापारत्वात्कार्यभेदादेव कारणभेदमनुमिमीमहे । नैकत्वे कार्यभेदः कल्पते, कारणस्वभावापेक्षत्वात्कार्यभेदस्य । तज्जननश्चेदस्य (तज्जननं चेदस्य - एदितिओन्) स्वभावः, नान्यजननः । तस्मात्कार्यान्तरस्यान्यतो जन्मेति । तदिदं भेदेनैव भेदप्रसाधनं नातिचतुरश्रम् । अपि च -- अर्थक्रियाकृते भेदे रूपभेदो न लभ्यते

ekakriyāviśeṣeṇa vyapekṣā hrasvadīrghayoḥ / vyavasthite eva janyajanakaśaktī pitṛputraśabdayorabhidheye, te tu samānajananavyāpāraviṣaye tāvāskandataḥ, svabhāvabhedāt / ato yena samānatvam, tatrāpekṣā / etaduktaṃ bhavati -- śabdārthastatra sāpekṣaḥ, na vastu / apekṣāhetuśca tatra sādhāraṇī kriyā vidyate vyavasthitayorapi vastunoḥ / bhāvabhede tvayaṃ vastutattvagato vicāraḥ, na cāpekṣāhetuḥ kaścidupalabhyate / hrasvadīrghayorapyekajātīyāyāṃ kriyāyāṃ deśavyāptau nyūnādhikabhāvādevaṃ draṣṭavyam / yadi tarhi kāryabhedādapyapekṣā, hanta! arthakriyābhedādeva bhāvānāṃ parasparāpekṣo bhedaḥ setsyati / kiṃ cāsatyāmapi darśanādbhedasiddhau vidhimātravyāpāratvātkāryabhedādeva kāraṇabhedamanumimīmahe / naikatve kāryabhedaḥ kalpate, kāraṇasvabhāvāpekṣatvātkāryabhedasya / tajjananaścedasya (tajjananaṃ cedasya - edition) svabhāvaḥ, nānyajananaḥ / tasmātkāryāntarasyānyato janmeti / tadidaṃ bhedenaiva bhedaprasādhanaṃ nāticaturaśram / api ca -- arthakriyākṛte bhede rūpabhedo na labhyate

Sanskrit only: no published translation is held for this verse.

नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तल्लक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् । तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था । ततो भेदः । न ह्येकविषय एकस्य शक्त्यशक्ती युज्येते इति -- स चायं विरोधिधर्मयोगो भेदहेतुरनन्तरमेव निरासि । यथा खलु दीर्घकालाः पदार्था मितकालैर्धर्मैः संबध्यमानास्तद्धर्माणो ऽतद्धर्माणश्च न विरोधपदभाजः, तथा परिमितदेशैर्विपुलदेशा अनन्ताश्च । कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यतिरेके ऽनिवर्चनीयत्वे वा नास्त्यसंभावनावकाशः । अव्यतिरेके ऽपि दीर्घकालस्येव मितकालः । यो ऽपि दीर्घकालमर्थं न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम् -- दाहपाकविभागेनेति । एको ऽपि वह्निः किञ्चिदेव दहति पचति च । तथा च दाहकश्चादाहकश्च न भिद्यते । तथा न दाहान्तराणि पाकान्तराणि वा करोति तस्मिन्नेव दाह्ये पाक्ये च । तथा बीजादयः प्रत्येकं समर्था अपि नाङ्कुरान्तराणि जनयन्ति, नापि सामग्री । तथा च जनकत्वमजनकत्वमिति । अथैकस्मिन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं वैकं किं न जनयति । अथ तत्रैवैषां सामर्थ्यम्, नान्यत्र तुल्यजातीये ऽपि । कुतः? तस्यैवोत्पत्तेः, कार्यगम्यत्वाच्च सामर्थ्यस्य । तथा च न शक्तिरशक्तिश्चेति विरोधः । अभेदे ऽपि तर्हि पयसस्तिलानां दध्नो ऽनुत्पत्तौ न विरोधः । तथा हि -- यस्य तावद्दध्नः पयसो जन्म न तस्य तिलेभ्यो ऽनुत्पत्तिः, येन शक्त्यशक्तिविरोधाद् [क्क्स् ५४] भेदः स्यात् । कुतः? तिलानां पयसो ऽभेदात् । अथ दध्यन्तरस्यानुत्पत्तेर्विरोधः । तच्च न, अन्यत्राशक्तेस्तत्रैव शक्तेर्बीजादीनामिव । न हि समर्थमित्येव कारणं सर्वं तुल्यजातीयं जनयति, एकस्मादेव सर्वतुल्यजातीयकार्योत्पत्तिप्रसङ्गात् । अथ मतम् -- अर्थक्रियासु भेदेन विनियोगाद्भेदमध्यवस्यामः । दध्ने हि पयो विनियुज्यते, न सिकतेति । तदप्यनैकान्तिकम्, एकत्वे ऽपि भेदेन विनियोगदर्शनात् । तदेवार्थवस्तु सहकारिसमेतं विनियुज्यते, न केवलम् । अथ मतम् -- भिन्नमेव तत्, सहकारिसन्निधानोपाधिभेदात् । औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न परमार्थतः । तथाभूतश्च भावभेदो ह्यनुज्ञायत एव । यो ऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात्सर्वं सर्वत्र विनियुज्यते, न वा किञ्चित्क्वचित्, अदृष्टसामर्थ्यत्वात् । अथ कल्पनाविषयादभेदात्तत्सिद्धिः, परस्यापि तादृशाद्भेदादिति न विशेष इत्युक्तम् । यो ऽप्येकस्योभयं प्रतिजानीते -- भेदमभेदं च, तेनैकत्रापि विरुद्धधर्मावेशमभ्युपयता दुर्लभ एव दध्नो जनकत्वाजनकत्वाभ्यां तिलपयसोर्विभाग इति । तदेवम् -- एकस्यैवैष महिमा भेदसंपादनासहः

nānyatvaṃ siddhayā vyavasthayā pramitsitaṃ tallakṣaṇamanupraveṣṭumarhati, tasyā asiddhiprasaṅgāt / tasmāddadhijananaśaktistadabhāvaśca vyavasthā / tato bhedaḥ / na hyekaviṣaya ekasya śaktyaśaktī yujyete iti -- sa cāyaṃ virodhidharmayogo bhedaheturanantarameva nirāsi / yathā khalu dīrghakālāḥ padārthā mitakālairdharmaiḥ saṃbadhyamānāstaddharmāṇo 'taddharmāṇaśca na virodhapadabhājaḥ, tathā parimitadeśairvipuladeśā anantāśca / kathamanantasyāntavān dharma iti cet, vyatireke 'nivarcanīyatve vā nāstyasaṃbhāvanāvakāśaḥ / avyatireke 'pi dīrghakālasyeva mitakālaḥ / yo 'pi dīrghakālamarthaṃ na pratipadyate taṃ pratīdaṃ punaḥ paṭhitavyam -- dāhapākavibhāgeneti / eko 'pi vahniḥ kiñcideva dahati pacati ca / tathā ca dāhakaścādāhakaśca na bhidyate / tathā na dāhāntarāṇi pākāntarāṇi vā karoti tasminneva dāhye pākye ca / tathā bījādayaḥ pratyekaṃ samarthā api nāṅkurāntarāṇi janayanti, nāpi sāmagrī / tathā ca janakatvamajanakatvamiti / athaikasminneva janakaśaktiḥ, anyaṃ pradhvastamāgāminaṃ vaikaṃ kiṃ na janayati / atha tatraivaiṣāṃ sāmarthyam, nānyatra tulyajātīye 'pi / kutaḥ? tasyaivotpatteḥ, kāryagamyatvācca sāmarthyasya / tathā ca na śaktiraśaktiśceti virodhaḥ / abhede 'pi tarhi payasastilānāṃ dadhno 'nutpattau na virodhaḥ / tathā hi -- yasya tāvaddadhnaḥ payaso janma na tasya tilebhyo 'nutpattiḥ, yena śaktyaśaktivirodhād [KKS 54] bhedaḥ syāt / kutaḥ? tilānāṃ payaso 'bhedāt / atha dadhyantarasyānutpattervirodhaḥ / tacca na, anyatrāśaktestatraiva śakterbījādīnāmiva / na hi samarthamityeva kāraṇaṃ sarvaṃ tulyajātīyaṃ janayati, ekasmādeva sarvatulyajātīyakāryotpattiprasaṅgāt / atha matam -- arthakriyāsu bhedena viniyogādbhedamadhyavasyāmaḥ / dadhne hi payo viniyujyate, na sikateti / tadapyanaikāntikam, ekatve 'pi bhedena viniyogadarśanāt / tadevārthavastu sahakārisametaṃ viniyujyate, na kevalam / atha matam -- bhinnameva tat, sahakārisannidhānopādhibhedāt / aupādhikastarhi pratyayamātraniveśī bhedaḥ, na paramārthataḥ / tathābhūtaśca bhāvabhedo hyanujñāyata eva / yo 'pi kṣaṇikatvena bhedamāha, tasyāpi bhedasya tulyatvātsarvaṃ sarvatra viniyujyate, na vā kiñcitkvacit, adṛṣṭasāmarthyatvāt / atha kalpanāviṣayādabhedāttatsiddhiḥ, parasyāpi tādṛśādbhedāditi na viśeṣa ityuktam / yo 'pyekasyobhayaṃ pratijānīte -- bhedamabhedaṃ ca, tenaikatrāpi viruddhadharmāveśamabhyupayatā durlabha eva dadhno janakatvājanakatvābhyāṃ tilapayasorvibhāga iti / tadevam -- ekasyaivaiṣa mahimā bhedasaṃpādanāsahaḥ

Sanskrit only: no published translation is held for this verse.

वह्नेरिव यदा भावभेदकल्पस्तदा मुधा । एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदबाधने सामर्थ्याभावात्, विशेषमात्रहेतुत्वात्तस्य च तत्त्वान्यत्वाभ्यामनिर्वाच्यस्य कल्पनास्पदत्वात्, अभेदादिव च तादृशात् कार्याभेदस्य भेदादपि तद्विधाद्भेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद्वा व्यवस्थायाश्च, विनियोगभेदस्य चानैकान्तिकत्वात्, अभेदादिव च कल्पिताद्भेदात्तत्सिद्धेः, भेदाभेदयोश्चैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैकसमवायसंभवादेकस्यैवैष को ऽप्यचिन्त्यः सामर्थ्यातिशयो निखिलभेदप्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकप्लोषादिप्रविभागनिमित्तं यदोपपद्यते [क्क्स् ५५] तदा भेदकल्पनमकारणम्, एकस्मादपि तत्सिद्धेः -- इति पूर्वोपसंहारः । तदेतदृचाभ्यनूक्तम् -- ‘एतावानस्य महिमाऽ; इति । एतत्परिमाणमस्य सामर्थ्यम् -- यदेको ऽपि ‘सहस्रशीर्षाऽ; इति ‘यद्भूतं यच्च भव्यम्ऽ; इति । पूर्वर्ग्द्वयनिर्दिष्टविविधविरुद्धाभिमतधर्मकार्यव्यवहाराश्रयः कथमिति । ‘अतःऽप्रत्यक्षाभिमतात्, ‘पुरुष एवेदं सर्वम्ऽइति वादृष्टनिर्दिष्टात् । ‘उतामृतत्वस्यऽइति वा देवमनुष्यलोकभेदेन प्रपञ्चादेकैकस्मात्समस्ताच्च वृद्धतरः पुरुषः । तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते । तदेव ज्यायस्त्वं दर्शयति -- ‘पादो ऽस्य विश्वाऽ; इति । कृत्स्नो ऽपि तावद्भूतप्रपञ्चो ऽस्य कनीयान् भाग इति, किं पुनः प्रत्येकम् । तथा हि -- ‘त्रिपात्ऽइवापरिमितमनन्तं मरणादिभूतप्रपञ्चधर्मशून्यं रूपं ‘दिविऽप्रद्योतावस्थायां वर्तते, प्रमोदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा । तत्र हि तदुपास्यम् । तद्धि तस्योपलब्धिस्थानमिति तत्रेत्युच्यते । अपरः कल्पः -- कल्पिते ऽपि कार्यभेदाद्यवस्थाया वा कारणभेदे किमिति न कार्यान्तरम्? किमिति वा न संकरः, विपरीता वा व्यवस्था? भेदे ऽपि पयसः, तिलेभ्य एव तैलं न सिकताभ्यः? भिना अपि चैककार्याश्चक्षुरालोकादयः, शरशृङ्गादयश्च । भेदे ऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दधि? यदि मतम् -- अचिन्त्येभ्यो भावसामर्थ्येभ्यः -- अचिन्त्यानुपपत्तितो भावसामर्थ्यानि ‘कस्मात्? कथम्?ऽ; इति, कार्यदर्शनोन्नेयव्यवस्थानि -- तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति । यद्येवम्, एकस्यैव सो ऽस्तु सामर्थ्यातिशयः -- यदनेकं व्यवस्थितमविपरीतं च कार्यम् । तन्मात्रेण तत्सिद्धेरप्रामाणिका भावानां भावकल्पनेति । स्यादेतत् -- वह्नेरपि शक्तिभेदनिबन्धनः कार्यभेदः । तन्नैकस्मादनेकं [क्क्स् ५६] कार्यम् । तत्र यदि वह्निरपि कारणम्, कथं नैकस्मादनेकं कार्यम्? अथ शक्तीनामेव कारणत्वमभिप्रैति । तत्रोच्यते -- यथैव भिन्नशक्तीनामभिन्नं रूपमाश्रयः

vahneriva yadā bhāvabhedakalpastadā mudhā / ekatra kriyābhedopalabdheḥ, asaṃbhavasya cāsiddheḥ, adṛṣṭadarśanasya cābhedabādhane sāmarthyābhāvāt, viśeṣamātrahetutvāttasya ca tattvānyatvābhyāmanirvācyasya kalpanāspadatvāt, abhedādiva ca tādṛśāt kāryābhedasya bhedādapi tadvidhādbhedasyopapatteḥ, virodhasya cānaikāntikatvādasiddhatvādvā vyavasthāyāśca, viniyogabhedasya cānaikāntikatvāt, abhedādiva ca kalpitādbhedāttatsiddheḥ, bhedābhedayoścaikatra samavāye śaktyaśaktyorviniyogāviniyogayoścaikasamavāyasaṃbhavādekasyaivaiṣa ko 'pyacintyaḥ sāmarthyātiśayo nikhilabhedaprapañcasaṃpādanāyai prabhuḥ pāvakasyeva pākaploṣādipravibhāganimittaṃ yadopapadyate [KKS 55] tadā bhedakalpanamakāraṇam, ekasmādapi tatsiddheḥ -- iti pūrvopasaṃhāraḥ / tadetadṛcābhyanūktam -- ‘etāvānasya mahimā'; iti / etatparimāṇamasya sāmarthyam -- yadeko 'pi ‘sahasraśīrṣā'; iti ‘yadbhūtaṃ yacca bhavyam'; iti / pūrvargdvayanirdiṣṭavividhaviruddhābhimatadharmakāryavyavahārāśrayaḥ kathamiti / ‘ataḥ'pratyakṣābhimatāt, ‘puruṣa evedaṃ sarvam'iti vādṛṣṭanirdiṣṭāt / ‘utāmṛtatvasya'iti vā devamanuṣyalokabhedena prapañcādekaikasmātsamastācca vṛddhataraḥ puruṣaḥ / tenāsmin parimitānāṃ viruddhābhimatānāmapyanante na samāveśo na yujyate / tadeva jyāyastvaṃ darśayati -- ‘pādo 'sya viśvā'; iti / kṛtsno 'pi tāvadbhūtaprapañco 'sya kanīyān bhāga iti, kiṃ punaḥ pratyekam / tathā hi -- ‘tripāt'ivāparimitamanantaṃ maraṇādibhūtaprapañcadharmaśūnyaṃ rūpaṃ ‘divi'pradyotāvasthāyāṃ vartate, pramodāvasthāyāṃ vā, sūryamaṇḍale, dyusthāne vā / tatra hi tadupāsyam / taddhi tasyopalabdhisthānamiti tatretyucyate / aparaḥ kalpaḥ -- kalpite 'pi kāryabhedādyavasthāyā vā kāraṇabhede kimiti na kāryāntaram? kimiti vā na saṃkaraḥ, viparītā vā vyavasthā? bhede 'pi payasaḥ, tilebhya eva tailaṃ na sikatābhyaḥ? bhinā api caikakāryāścakṣurālokādayaḥ, śaraśṛṅgādayaśca / bhede 'pi ca tilebhyastailaṃ payaso dadhi, na tu payasastailaṃ tilebhyo dadhi? yadi matam -- acintyebhyo bhāvasāmarthyebhyaḥ -- acintyānupapattito bhāvasāmarthyāni ‘kasmāt? katham?'; iti, kāryadarśanonneyavyavasthāni -- tebhyaḥ kāryasya bhedaḥ, vyavasthā, na viparyayaśceti / yadyevam, ekasyaiva so 'stu sāmarthyātiśayaḥ -- yadanekaṃ vyavasthitamaviparītaṃ ca kāryam / tanmātreṇa tatsiddheraprāmāṇikā bhāvānāṃ bhāvakalpaneti / syādetat -- vahnerapi śaktibhedanibandhanaḥ kāryabhedaḥ / tannaikasmādanekaṃ [KKS 56] kāryam / tatra yadi vahnirapi kāraṇam, kathaṃ naikasmādanekaṃ kāryam? atha śaktīnāmeva kāraṇatvamabhipraiti / tatrocyate -- yathaiva bhinnaśaktīnāmabhinnaṃ rūpamāśrayaḥ

Sanskrit only: no published translation is held for this verse.

तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते । एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते । यदि चैकस्यानेकसंबन्धविरोधः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते? तत्र यथैकस्यार्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगो ऽपि किं नानुज्ञायते? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे । विशेषहेतुर्वाच्यः । अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् । तत्रैकत्वं स्वाश्रयसमवायिनानेकत्वेन च विरुध्यते । कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम्! अथार्थान्तरत्वमेव शक्तीनाम्, आश्रयार्थो वाच्यः । संश्लेषश्चेत्, न भिन्नत्वे रूपाविभागलक्षणः संश्लेषः, भेद एव न स्यात् । न नैरन्तर्यम्, तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् । न हि द्रव्यस्यानन्तरं तच्छक्तेर्व्यवहितं भवति । न हि चक्षुर्द्रव्यस्यानन्तरं रूपस्य नानन्तरम् । विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात्सर्वशक्तिप्रसङ्गः । तस्मादुपकारविशेषात्कुतश्चिदाश्रयः । तत्र यथा भिन्नासु शक्तिषु तद्भेदादुपकारान् भिन्नानेको ऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते? एवं तावन्नानुमाने ऽपि भेदाधिगमः, नार्थापत्त्या च । ये तु मन्यन्ते -- सत्यमेतत्, न प्रत्यक्षं भेदाधिगमायालम् । इतरेतराभावांशो हि भावानां भेदः, न सो ऽक्षगोचरः । ‘भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हिऽ; । तथा च न लिङ्गगम्यो ऽपि, अदृष्टसंगतित्वात् । अर्थापत्तिरपि कार्यव्यवस्थाहेतुका स्यात् । सा असिद्धे भेदे व्यवस्थाया (म्स् च्; कार्यव्यवस्थाया - एदितिओन्) एवानुपपत्तेस्तत्रायुक्ता । तस्मात्सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपासनीयम् । विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम् । तन्निबन्धना [क्क्स् ५७] हि भावानामसंकीर्णता ( मसंकीर्णस्वभावता - एदितिओन्) । यदवोचन् -- ‘वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रयाऽ; । इति । तान् प्रत्युच्यते -- अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः

tathā nānākriyāheturūpaṃ kiṃ nābhyupeyate / ekasyānekakāryayogavirodhācchaktibhedaḥ kalpyate / yadi caikasyānekasaṃbandhavirodhaḥ, kathaṃ nānābhūtābhiḥ śaktibhirekaḥ saṃbadhyate? tatra yathaikasyārthasvabhāvasya nānāśaktiyogaḥ, tathā nānākāryayogo 'pi kiṃ nānujñāyate? atha nānākāryayoge virodhaḥ, na nānāśaktiyoge / viśeṣaheturvācyaḥ / api ca śaktīnāmavyatirekādekamanekātmakamiṣṭam / tatraikatvaṃ svāśrayasamavāyinānekatvena ca virudhyate / kāryagatena tvāśrayāntarasamavāyinā virudhyata iti subhāṣitam! athārthāntaratvameva śaktīnām, āśrayārtho vācyaḥ / saṃśleṣaścet, na bhinnatve rūpāvibhāgalakṣaṇaḥ saṃśleṣaḥ, bheda eva na syāt / na nairantaryam, tacchaktidravyasaṃyuktasya dravyāntarasyāpi tacchaktitvaprasaṅgāt / na hi dravyasyānantaraṃ tacchaktervyavahitaṃ bhavati / na hi cakṣurdravyasyānantaraṃ rūpasya nānantaram / vibhutvāccākāśādīnāṃ sarvārthaśaktivyavadhānābhāvātsarvaśaktiprasaṅgaḥ / tasmādupakāraviśeṣātkutaścidāśrayaḥ / tatra yathā bhinnāsu śaktiṣu tadbhedādupakārān bhinnāneko 'rthasvabhāvaḥ karoti, tathā kāryāṇyapīti kasmānneṣyate? evaṃ tāvannānumāne 'pi bhedādhigamaḥ, nārthāpattyā ca / ye tu manyante -- satyametat, na pratyakṣaṃ bhedādhigamāyālam / itaretarābhāvāṃśo hi bhāvānāṃ bhedaḥ, na so 'kṣagocaraḥ / ‘bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi'; / tathā ca na liṅgagamyo 'pi, adṛṣṭasaṃgatitvāt / arthāpattirapi kāryavyavasthāhetukā syāt / sā asiddhe bhede vyavasthāyā (Ms C; kāryavyavasthāyā - edition) evānupapattestatrāyuktā / tasmātsadupalambhahetubhyaḥ pramāṇāntaramevābhāvāyopāsanīyam / vidhāyakādvā pramāṇāntarameva vyavacchedakamabhāvākhyam / tannibandhanā [KKS 57] hi bhāvānāmasaṃkīrṇatā ( masaṃkīrṇasvabhāvatā - edition) / yadavocan -- ‘vastvasaṃkarasiddhiśca tatprāmāṇyasamāśrayā'; / iti / tān pratyucyate -- anyonyasaṃśrayādbhedo na pramāntarasādhanaḥ

Sanskrit only: no published translation is held for this verse.

निषेध्यत्वेनापेक्षिते न विषयविशेषः । तत्रात्यन्ताय निषेधः स्यात् । स च न सिद्धत्वेनासिद्धत्वेन वा युज्यत इत्युक्तम् । कस्यचित्तावत्कुतश्चिद् (कस्यचित्कुतश्चिद् म्स् च्; कस्यचित्कुतश्चिच्च एदितिओन्) भेदप्रतिपत्तौ सर्वस्य सर्वतो भेदगतिः स्यात्, अविशेषात् । तस्मादनेनासंकीर्णस्वभावेन भिन्नावेव प्रतिपद्य विषयनिषेध्यौ ‘नेदमिहऽ; ‘नायमयम्ऽ; इति व्यवच्छेदः प्रतिपत्तव्यः, संभवान्नियमाच्च । न चान्यथा प्रतियोगित्वम्, सामान्योपलब्धौ च स्थाणौ पुरुषस्याभाव(म्स् अ; पुरुषाभाव एदितिओन्)प्रतिपत्त्यभावात् । तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते । तथा च इतरेतराश्रयत्वम् -- असंकरपूर्वमभावज्ञानम्, ततश्चासंकरसिद्धिरिति । अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम्, सुषुप्तादावनुत्पत्तेः । तस्मात्सत्सु प्रमाणकारणेषु प्रमाणानुत्पादो ऽभावज्ञानहेतुरिष्टः । न च तस्य स्वरूपभेदः कश्चित्, येन सामर्थ्यातिशयाच्चक्षुरादिवद्बोधकः, किं तु नान्तरीयकत्वात् । नान्तरेण प्रमेयाभावं सत्सु प्रमाणहेतुषु प्रमाणानुत्पादः । असत्सु तु सत्यपि प्रमेये तदभावात्स्यादिति । तथा च लिङ्गवज्ज्ञानापेक्षः प्रतिपत्तेर्जनकः, स च यदि वस्त्वन्तरज्ञानम्, [क्क्स् ५८] नासिद्धे वस्तुभेदे सिध्यति । ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः । तथा च वस्तुभेदसिद्धिपूर्विकैवाभावाद्भेदावगतिरितीतरेतराश्रयत्वम् । अथात्मनो ऽपरिणामः । न स स्तिमितावस्था, सर्वाप्रतिपत्तौ कस्यचिदभावस्यानवगतेः । तस्मात्सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभावो ऽभावज्ञानहेतुः । न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् । ये त्वाहुः -- दर्शनादेव भावानां भेदः सिध्यति । तथा हि -- निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम् -- ‘तदयुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनाद्ऽ; इति । यस्तु संयोगात्समवायाद्वा संकरः, सो ऽभावाख्येन प्रमाणेनापनीयत इति । ते प्रागेव प्रत्युक्ताः । ये ऽपि -- विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगिस्मरणेतिकर्तव्यतानुगृहीताक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते । यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चाज्जन्म, शब्दस्मरणव्यवधिश्च -- न चानैन्द्रियकत्वम्, इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात्तदुत्पत्तेः -- एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः । तान् प्रतीदमेव वक्तव्यम् -- अन्योन्यसंश्रयाद्भेदो न प्रमान्तरसाधनः । प्रत्यक्षान्तरसाधन इत्यर्थः । ‘अयमसौ न भवतिऽ; इति ज्ञानं प्रत्यक्षं वा प्रमाणान्तरं वा । सर्वथा विषयनिषेध्यविभागादृते न निषेधसंभव इति । किं च मीयमानैकरूपेषु न निषेधो ऽवकाशवान्

niṣedhyatvenāpekṣite na viṣayaviśeṣaḥ / tatrātyantāya niṣedhaḥ syāt / sa ca na siddhatvenāsiddhatvena vā yujyata ityuktam / kasyacittāvatkutaścid (kasyacitkutaścid Ms C; kasyacitkutaścicca edition) bhedapratipattau sarvasya sarvato bhedagatiḥ syāt, aviśeṣāt / tasmādanenāsaṃkīrṇasvabhāvena bhinnāveva pratipadya viṣayaniṣedhyau ‘nedamiha'; ‘nāyamayam'; iti vyavacchedaḥ pratipattavyaḥ, saṃbhavānniyamācca / na cānyathā pratiyogitvam, sāmānyopalabdhau ca sthāṇau puruṣasyābhāva(Ms A; puruṣābhāva edition)pratipattyabhāvāt / tathā ca siddhaviṣayaniṣedhyāṅgīkaraṇena vyavacchedamātravidhāyinyabhāvapratipattiḥ pratyātmamupalakṣyate / tathā ca itaretarāśrayatvam -- asaṃkarapūrvamabhāvajñānam, tataścāsaṃkarasiddhiriti / api ca na pramāṇānutpādamātrādabhāvajñānam, suṣuptādāvanutpatteḥ / tasmātsatsu pramāṇakāraṇeṣu pramāṇānutpādo 'bhāvajñānaheturiṣṭaḥ / na ca tasya svarūpabhedaḥ kaścit, yena sāmarthyātiśayāccakṣurādivadbodhakaḥ, kiṃ tu nāntarīyakatvāt / nāntareṇa prameyābhāvaṃ satsu pramāṇahetuṣu pramāṇānutpādaḥ / asatsu tu satyapi prameye tadabhāvātsyāditi / tathā ca liṅgavajjñānāpekṣaḥ pratipatterjanakaḥ, sa ca yadi vastvantarajñānam, [KKS 58] nāsiddhe vastubhede sidhyati / jñeyabhedānumeyo hi jñeyānumeyānāṃ jñānānāṃ bhedaḥ / tathā ca vastubhedasiddhipūrvikaivābhāvādbhedāvagatiritītaretarāśrayatvam / athātmano 'pariṇāmaḥ / na sa stimitāvasthā, sarvāpratipattau kasyacidabhāvasyānavagateḥ / tasmātsatyapi vastvantarajñānarūpapariṇāme tajjñānarūpapariṇāmābhāvo 'bhāvajñānahetuḥ / na caiṣa viśeṣaḥ prāgvastubhedasiddheḥ sidhyatīti tadevetaretarāśrayatvam / ye tvāhuḥ -- darśanādeva bhāvānāṃ bhedaḥ sidhyati / tathā hi -- nirvikalpasya pratyakṣasya sāmānyaviṣayatvamapākurvatoktam -- ‘tadayuktaṃ pratidravyaṃ bhinnarūpopalambhanād'; iti / yastu saṃyogātsamavāyādvā saṃkaraḥ, so 'bhāvākhyena pramāṇenāpanīyata iti / te prāgeva pratyuktāḥ / ye 'pi -- vidhāyakapratyakṣapuraḥsaraṃ pratyakṣāntarameva vastugrahaṇapratiyogismaraṇetikartavyatānugṛhītākṣapratilabdhajanma vyavacchedakaṃ manyante / yathaiva savikalpasya vastugrahaṇasya paścājjanma, śabdasmaraṇavyavadhiśca -- na cānaindriyakatvam, itikartavyatāviśeṣānugṛhītādindriyāttadutpatteḥ -- evaṃ nāstītyapi jñānasyeti bruvantaḥ / tān pratīdameva vaktavyam -- anyonyasaṃśrayādbhedo na pramāntarasādhanaḥ / pratyakṣāntarasādhana ityarthaḥ / ‘ayamasau na bhavati'; iti jñānaṃ pratyakṣaṃ vā pramāṇāntaraṃ vā / sarvathā viṣayaniṣedhyavibhāgādṛte na niṣedhasaṃbhava iti / kiṃ ca mīyamānaikarūpeṣu na niṣedho 'vakāśavān

Sanskrit only: no published translation is held for this verse.

सत्यम् । प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्, यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य । तत् सदप्यप्रमाणोत्थं प्रत्यक्षसरूपं स्वप्नदृश्यालातचक्रादिज्ञानवन्न तत्त्वावगमनिमित्तम् । ननूक्तेन प्रकारेण प्रमाणादन्यतो ऽपि भेदज्ञानस्योदयो न संभवति । को वान्यथाह? न हि परमार्थतो भेदावगमो ऽस्ति । यदि स्यात्, कथं भेदो ऽपह्नूयेत? अपह्नवे वा कथं तदवगमः । नावगम्यमस्ति, अवगम्यते चेति दुर्घटम् । किं तर्हीदम्? अविद्या विभ्रमः । यथावभासं वेद्यसद्भावे च न विभ्रमः, किं तु सम्यग्ज्ञानम् । असतो चावगमो ऽनुपपन्नः । तस्मान्न परमार्थतः सत्त्वेन निरुच्यते, नाप्यसत्त्वेन, लोके सिद्धत्वात्सर्वप्रवादेष्वित्युक्तम् । अपि च ज्ञानद्वये ऽस्मिंश्चतस्रः कल्पनाः संभवन्ति -- ज्ञानभेदात्सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः । एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः । विशेषा एव वा वस्तूनि । तेषामात्यन्तिकभेदनिश्चयासामर्थ्यात्तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः । दृष्टा हि भिन्नेष्वभेदकल्पना ‘वनम्ऽ; इति -- यथाहुरात्यन्तिकभेदवादिनः । अभेदो वा परमार्थः । तस्यानवच्छिन्नस्यानन्तस्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानास्तद्विषया भेदपरिकल्पनाः । दृष्टा हि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना । तन्नापरीक्ष्य तत्त्वनिश्चयः । तत्र परीक्षायाम् -- न तावद्द्वयमैकात्म्यप्रख्यानानवकल्पनात्

satyam / pratyakṣataiva bhedajñānasya netyāveditam, yathā kṣepīyassarvatodiksaṃyogakāritasyālātacakrajñānasya / tat sadapyapramāṇotthaṃ pratyakṣasarūpaṃ svapnadṛśyālātacakrādijñānavanna tattvāvagamanimittam / nanūktena prakāreṇa pramāṇādanyato 'pi bhedajñānasyodayo na saṃbhavati / ko vānyathāha? na hi paramārthato bhedāvagamo 'sti / yadi syāt, kathaṃ bhedo 'pahnūyeta? apahnave vā kathaṃ tadavagamaḥ / nāvagamyamasti, avagamyate ceti durghaṭam / kiṃ tarhīdam? avidyā vibhramaḥ / yathāvabhāsaṃ vedyasadbhāve ca na vibhramaḥ, kiṃ tu samyagjñānam / asato cāvagamo 'nupapannaḥ / tasmānna paramārthataḥ sattvena nirucyate, nāpyasattvena, loke siddhatvātsarvapravādeṣvityuktam / api ca jñānadvaye 'smiṃścatasraḥ kalpanāḥ saṃbhavanti -- jñānabhedātsāmānyavyaktivibhāgena vastudvayam, yathāhuḥ saṃsargavādinaḥ / ekaṃ vā sāmānyaviśeṣātmakaṃ vastu, yathāhuranekāntavādinaḥ / viśeṣā eva vā vastūni / teṣāmātyantikabhedaniścayāsāmarthyāttadupādānastadviṣaya evābhedaḥ kalpanājñānagocaraḥ / dṛṣṭā hi bhinneṣvabhedakalpanā ‘vanam'; iti -- yathāhurātyantikabhedavādinaḥ / abhedo vā paramārthaḥ / tasyānavacchinnasyānantasya tathā niścetumaśakteranāditvāccāvidyāyāstadupādānāstadviṣayā bhedaparikalpanāḥ / dṛṣṭā hi taraṅgabhedādabhinne candramasi bhedakalpanā / tannāparīkṣya tattvaniścayaḥ / tatra parīkṣāyām -- na tāvaddvayamaikātmyaprakhyānānavakalpanāt

Sanskrit only: no published translation is held for this verse.

समवायकृतं तच्चेन्न भेदस्यापरिच्युतेः । न तावद्द्वे वस्तुनी सामान्यविशेषौ, प्रख्याभेदात् । समानाधिकरणत्वेन हीमे प्रख्ये जायेते ‘सन् घटः, गौः स्वस्तिमतीऽ; इति । न व्यधिकरणत्वेन यथा नीलपीतप्रख्ये, यथा वा ‘दण्डो देवदत्तःऽ; इति । नापि विशेषणविशेष्यभावेन यथा ‘दण्डीऽइति, संबन्धस्याप्रतिभासनात् । न च वस्तुभेदविषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे । संबन्धिद्वयं विशेषणविशेष्यत्वेन द्वाभ्यामेकया वा बुद्ध्या गृह्यते, न तु परस्परात्मत्वेन । परस्परात्मत्वेन चेह प्रतिपत्तिः प्रत्यात्मवेदनीया । विप्रतिपत्तेश्च सामान्यविशेषयोर् [क्क्स् ६१] भेदे । नान्यथा विप्रतिपद्येरन् । सामान्यप्रत्यक्षे च विशेषप्रत्यक्षाभिमानात् । अन्यथा धूमदृष्टाविवाग्नौ परोक्षाभिमानः स्यात् । स्यादेतत् -- न संबन्धमात्राद्भेदप्रतिपत्तिः, अपि तु संबन्धविशेषात्समवायात् । स हि वस्तुसंश्लेषात्मकः । तन्न, समवाये ऽपि ताभ्यां रूपभेदस्यानपायात्, अन्यथा भेदाभावादसंबन्धात् । तथा च नैकात्म्येन प्रख्या युज्यते । अस्ति चेयम् । अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति । स्वयं वा व्याहतत्वात्, एकाधिकरणत्वेनोत्पत्तेः (एकाधिकरणत्वेनोपपत्तेः एदितिओन्) । ननु भेदे ऽपि परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायः । तस्य खल्वेष सामर्थ्यातिशयः, येन भेदवतामर्थानां भेदं तिरोदधाति । तथा च ते ऽभेदेन प्रकाशन्ते । अत्रोच्यते -- भेदान्तर्धानसामर्थ्यं तस्य भेदे ऽपि चेन्मतम्

samavāyakṛtaṃ taccenna bhedasyāparicyuteḥ / na tāvaddve vastunī sāmānyaviśeṣau, prakhyābhedāt / samānādhikaraṇatvena hīme prakhye jāyete ‘san ghaṭaḥ, gauḥ svastimatī'; iti / na vyadhikaraṇatvena yathā nīlapītaprakhye, yathā vā ‘daṇḍo devadattaḥ'; iti / nāpi viśeṣaṇaviśeṣyabhāvena yathā ‘daṇḍī'iti, saṃbandhasyāpratibhāsanāt / na ca vastubhedaviṣayatve sāmānādhikaraṇyamavakalpate satyapi saṃbandhe / saṃbandhidvayaṃ viśeṣaṇaviśeṣyatvena dvābhyāmekayā vā buddhyā gṛhyate, na tu parasparātmatvena / parasparātmatvena ceha pratipattiḥ pratyātmavedanīyā / vipratipatteśca sāmānyaviśeṣayor [KKS 61] bhede / nānyathā vipratipadyeran / sāmānyapratyakṣe ca viśeṣapratyakṣābhimānāt / anyathā dhūmadṛṣṭāvivāgnau parokṣābhimānaḥ syāt / syādetat -- na saṃbandhamātrādbhedapratipattiḥ, api tu saṃbandhaviśeṣātsamavāyāt / sa hi vastusaṃśleṣātmakaḥ / tanna, samavāye 'pi tābhyāṃ rūpabhedasyānapāyāt, anyathā bhedābhāvādasaṃbandhāt / tathā ca naikātmyena prakhyā yujyate / asti ceyam / atastayā viruddhaḥ prakhyābhedo na vastubhedavyavasthāyai prabhavati / svayaṃ vā vyāhatatvāt, ekādhikaraṇatvenotpatteḥ (ekādhikaraṇatvenopapatteḥ edition) / nanu bhede 'pi parasparātmatvena pratipatternimittaṃ samavāyaḥ / tasya khalveṣa sāmarthyātiśayaḥ, yena bhedavatāmarthānāṃ bhedaṃ tirodadhāti / tathā ca te 'bhedena prakāśante / atrocyate -- bhedāntardhānasāmarthyaṃ tasya bhede 'pi cenmatam

Sanskrit only: no published translation is held for this verse.

हन्तैकस्यैव तत्किं न यदेवमवभासते । समवायसामर्थ्याच्चेद्भेदवतोरभेदवतोरभेदावभासः, हन्तैकस्यैव वस्तुनः सामर्थ्यविशेषान्नानावभासो ऽभ्युपेयताम् । व्यर्था वस्तुभेदकल्पना । न ह्यस्ति विशेषः -- यतो भिन्नयोरभेदप्रकाशसंभवः, नैकस्य नानावभाससंभव इति । ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्थ्यम् । तत्र दर्शनात्संभवी संसर्गाद्भेदवत्स्वभेदावभासः । नैकस्मिन्नानावभासः, अदर्शनात् । उच्यते -- दृष्टः संसर्गधर्मो ऽयं यद्येकमपि वै तथा

hantaikasyaiva tatkiṃ na yadevamavabhāsate / samavāyasāmarthyāccedbhedavatorabhedavatorabhedāvabhāsaḥ, hantaikasyaiva vastunaḥ sāmarthyaviśeṣānnānāvabhāso 'bhyupeyatām / vyarthā vastubhedakalpanā / na hyasti viśeṣaḥ -- yato bhinnayorabhedaprakāśasaṃbhavaḥ, naikasya nānāvabhāsasaṃbhava iti / nanu jvalanāyoguḍādiṣu dṛṣṭamevaṃvidhaṃ saṃsargasya sāmarthyam / tatra darśanātsaṃbhavī saṃsargādbhedavatsvabhedāvabhāsaḥ / naikasminnānāvabhāsaḥ, adarśanāt / ucyate -- dṛṣṭaḥ saṃsargadharmo 'yaṃ yadyekamapi vai tathā

Sanskrit only: no published translation is held for this verse.

नानावभासते चित्रं रूपमेकं तथा मतिः । दृष्टं खल्वेकमपि विविधावभासम्, यथा चित्रं रूपम् । तद्धि खलु न नीलादिसमाहारमात्रम् । तेषामवयवसमवाये रूपान्तरानभ्युपगमे चावयविनो नीरूपत्वप्रसङ्गात् । न च नीरूपत्वमेवावयविनः । रूपसंस्काराभावे हि न स चाक्षुषः स्यात् । न च रूपिसमवायात्संख्याकर्मादिवच्चाक्षुषत्वम् । एवं ह्युक्तम् -- ‘महत्यनेकद्रव्यसमवायाद्रूपाच्चोपलब्धिःऽ; इति । सर्वश्चेत्थमवयवी नीरूपः स्यात् । अथ नारूपः प्रतीयत इति नायं प्रसङ्गः, [क्क्स् ६२] चित्रो ऽपि तथेति नारूपः । तच्चास्य रूपं नीलपीतादिनिर्भासः । तथा नगरत्रैलोक्यादिबुद्धयो विविधविषयाकारा निर्भासन्ते भेदाभावे ऽपीति विषयाकारज्ञानवादिनो मन्यन्ते । न चैकबुद्धितत्त्वाव्यतिरेकाद्विषयाकाराः परस्परतो ऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् -- चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात्तथावभासते । तदसत् । यतः -- न च संबन्धिसंबन्धः संसर्गो व्यवधानतः

nānāvabhāsate citraṃ rūpamekaṃ tathā matiḥ / dṛṣṭaṃ khalvekamapi vividhāvabhāsam, yathā citraṃ rūpam / taddhi khalu na nīlādisamāhāramātram / teṣāmavayavasamavāye rūpāntarānabhyupagame cāvayavino nīrūpatvaprasaṅgāt / na ca nīrūpatvamevāvayavinaḥ / rūpasaṃskārābhāve hi na sa cākṣuṣaḥ syāt / na ca rūpisamavāyātsaṃkhyākarmādivaccākṣuṣatvam / evaṃ hyuktam -- ‘mahatyanekadravyasamavāyādrūpāccopalabdhiḥ'; iti / sarvaścetthamavayavī nīrūpaḥ syāt / atha nārūpaḥ pratīyata iti nāyaṃ prasaṅgaḥ, [KKS 62] citro 'pi tatheti nārūpaḥ / taccāsya rūpaṃ nīlapītādinirbhāsaḥ / tathā nagaratrailokyādibuddhayo vividhaviṣayākārā nirbhāsante bhedābhāve 'pīti viṣayākārajñānavādino manyante / na caikabuddhitattvāvyatirekādviṣayākārāḥ parasparato 'pi vyāvartante, prāgeva buddheḥ / syādetat -- citramapi rūpaṃ saṃsargādevaikārthasamavetasamavāyalakṣaṇāttathāvabhāsate / tadasat / yataḥ -- na ca saṃbandhisaṃbandhaḥ saṃsargo vyavadhānataḥ

Sanskrit only: no published translation is held for this verse.

संश्लेषो हि संसर्गः । ततश्च परस्पररूपावभासः । स चाव्यवधाने युज्यते । न तु स्वाश्रयाभ्यां व्यवधाने । अवयवावयविरूपयोरेकव्यवधाने ऽप्यसंश्लेषः, किमु द्वयव्यवधाने । किं च व्यवहारे परोपाधौ सर्वा धीर्व्यावहारिकी । अयथार्था यदा भावभेदकल्पस्तदा मुधा

saṃśleṣo hi saṃsargaḥ / tataśca paraspararūpāvabhāsaḥ / sa cāvyavadhāne yujyate / na tu svāśrayābhyāṃ vyavadhāne / avayavāvayavirūpayorekavyavadhāne 'pyasaṃśleṣaḥ, kimu dvayavyavadhāne / kiṃ ca vyavahāre paropādhau sarvā dhīrvyāvahārikī / ayathārthā yadā bhāvabhedakalpastadā mudhā

Sanskrit only: no published translation is held for this verse.

यस्य खलु ‘शुक्लो गौःऽ; इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुणजात्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमर्थान्तरत्वात् । तथा च न वस्तुनिबन्धनो व्यवहारः, बुद्ध्यानुपदर्शितस्याव्यवहाराङ्गवाद्बुद्ध्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविरचितेनैवायमर्थेन व्यावृत्तो व्यवहारो ऽनुवृत्तश्चेति व्यर्था वस्तुभेदकल्पना, कल्पितस्यापि तस्य व्यवहारे ऽनुपयोगादितरस्य चोपयोगात् । यथार्थत्वाय हि व्यावहारिकीणां बुद्धीनां वस्तुभेदः कल्प्यते । कल्पिते च तस्मिन् परोपाधित्वात्तासां नायथार्थत्वपरिहारः । स्यादेतत् -- असति वस्तुभेदे ऽयथार्थमप्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिकं विज्ञानं नोदेतुमर्हति, बीजाभावात् । न खलु स्थाणुशकलादिषु पुरुषरजतादिविभ्रान्तयो निर्बीजाः, सामान्यनिबन्धनत्वात् । उच्यते -- अयथार्थधियो बीजमवश्यं बाह्यमेव न । दृष्टस्तिमिरकामादिरान्तरो ऽपि ह्युपप्लवः

yasya khalu ‘śuklo gauḥ'; ityādibuddhayo vyavahārāṅgabhūtā dravyeṣu guṇajātyupādhinibandhanāḥ tasyaitā na yathāvastu, jātiguṇadravyāṇāmanyonyamarthāntaratvāt / tathā ca na vastunibandhano vyavahāraḥ, buddhyānupadarśitasyāvyavahārāṅgavādbuddhyupadarśitasya ca tathābhāvāt / evaṃ ca pratyayaviracitenaivāyamarthena vyāvṛtto vyavahāro 'nuvṛttaśceti vyarthā vastubhedakalpanā, kalpitasyāpi tasya vyavahāre 'nupayogāditarasya copayogāt / yathārthatvāya hi vyāvahārikīṇāṃ buddhīnāṃ vastubhedaḥ kalpyate / kalpite ca tasmin paropādhitvāttāsāṃ nāyathārthatvaparihāraḥ / syādetat -- asati vastubhede 'yathārthamapyanuvṛttavyāvṛttāvagrahaṃ vyāvahārikaṃ vijñānaṃ nodetumarhati, bījābhāvāt / na khalu sthāṇuśakalādiṣu puruṣarajatādivibhrāntayo nirbījāḥ, sāmānyanibandhanatvāt / ucyate -- ayathārthadhiyo bījamavaśyaṃ bāhyameva na / dṛṣṭastimirakāmādirāntaro 'pi hyupaplavaḥ

Sanskrit only: no published translation is held for this verse.

तत्रासति वस्तुभेद आध्यात्मिको दोषो ऽविद्यालक्षणो व्यावहारिकज्ञानबीजमिति नार्थो वस्तुभेदेन । अस्तु तर्ह्येकं द्व्यात्मकम् । एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते । वस्तुविपरीतश्च नार्थसामर्थ्यातिशयः कल्पयितव्यः । वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था वृत्तिः । स्यादेतत् -- एकस्य द्व्यात्मकता विरोधवती । एकं च द्व्यात्मकं चेति विप्रतिषिद्धम् । अपि च सामान्यं भेदान्तरानुयायि । ततो व्यावृत्तस्वभावो भेदः । तयोरेकत्वं हि विरोधादशक्यावहम् । नैतत्सारम् । विरुद्धमिति नः क्व संप्रत्ययः? यत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरुद्धत्वाविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामवगमयति, व्यावृत्त्यनुवृत्तिभ्यां प्रख्यारूपभेदात्सामानाधिकरण्यावगमाच्च (ऐकाधिकरण्यावगमाच्च एदितिओन्) । तदिदमसांप्रतम्, यतो नेदृशां विप्रतिषिद्धार्थज्ञानानां प्रामाण्यमेव युज्यते संशयज्ञानवत् । अन्यथा संशयविषयो ऽपि द्व्यात्मा स्यात्, द्व्याभासत्वात्तस्य सामानाधिकरण्याच्च तदवभासयोः । अथ मतम् -- न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषवति, ‘अयं वा, अयं वाऽइति प्रतीतेः । मा भूत्समुच्चयः, विकल्पः स्यात् । सो ऽपि न, वस्तुनो विकल्पानुपपत्तेः । एकमपि तर्हि न द्व्यात्मकम्, एकस्य द्व्यात्मकताविरोधात् । तत्र यथा संशयज्ञानं विप्रतिषेधादप्रमाणं तथा सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् । स्यादेतत् -- न संशयज्ञानं विप्रतिषेधादप्रमाणम्, निर्णयज्ञानेन तु बाधनात् । यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् । अपि च यथा बाधायामेकस्याप्रामाण्यं निराकरणात्, एवं विरोधे ऽपि द्वयोरेकस्य वा ज्ञानस्य विरुद्धरूपोपग्रहे तद्रूपाधिगत्योरन्योन्यनिराकरणात् । तत्रैकनिराकरणे [क्क्स् ६४] इतरस्मान्निश्चयः । परस्परनिराकृतौ तुल्यबलत्वे सन्देह इति न संशयज्ञानादेकस्य सामान्यविशेषप्रतिपत्तिर्विशिष्यते । तस्मादिहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितमिति स्वपक्षोपवर्णनम् । अपि च एकत्वमविरोधेन भेदसामान्ययोर्यदि । न द्व्यात्मता भवेदेकतरनिर्भक्तभागवत्

tatrāsati vastubheda ādhyātmiko doṣo 'vidyālakṣaṇo vyāvahārikajñānabījamiti nārtho vastubhedena / astu tarhyekaṃ dvyātmakam / evaṃ hi parasparātmapratipattiśca sāmānyaviśeṣayoḥ kalpate / vastuviparītaśca nārthasāmarthyātiśayaḥ kalpayitavyaḥ / vastunibandhano vyavahāraḥ, na vyāvahārikajñānānāmayathārthā vṛttiḥ / syādetat -- ekasya dvyātmakatā virodhavatī / ekaṃ ca dvyātmakaṃ ceti vipratiṣiddham / api ca sāmānyaṃ bhedāntarānuyāyi / tato vyāvṛttasvabhāvo bhedaḥ / tayorekatvaṃ hi virodhādaśakyāvaham / naitatsāram / viruddhamiti naḥ kva saṃpratyayaḥ? yatpramāṇaviparyayeṇa vartate / yattu yathā pramāṇenāvagamyate tasya tathābhāve viruddhatvābhidhāne kaṃ batāyamāśritya hetuṃ viruddhatvāviruddhatve vyavasthāpayet? pramāṇaṃ caikasya sāmānyaviśeṣātmakatāmavagamayati, vyāvṛttyanuvṛttibhyāṃ prakhyārūpabhedātsāmānādhikaraṇyāvagamācca (aikādhikaraṇyāvagamācca edition) / tadidamasāṃpratam, yato nedṛśāṃ vipratiṣiddhārthajñānānāṃ prāmāṇyameva yujyate saṃśayajñānavat / anyathā saṃśayaviṣayo 'pi dvyātmā syāt, dvyābhāsatvāttasya sāmānādhikaraṇyācca tadavabhāsayoḥ / atha matam -- na saṃśayite rūpasamuccayāvagamaḥ, yathā sāmānyaviśeṣavati, ‘ayaṃ vā, ayaṃ vā'iti pratīteḥ / mā bhūtsamuccayaḥ, vikalpaḥ syāt / so 'pi na, vastuno vikalpānupapatteḥ / ekamapi tarhi na dvyātmakam, ekasya dvyātmakatāvirodhāt / tatra yathā saṃśayajñānaṃ vipratiṣedhādapramāṇaṃ tathā sāmānyaviśeṣapratipattirapi, aikādhikaraṇyāt / syādetat -- na saṃśayajñānaṃ vipratiṣedhādapramāṇam, nirṇayajñānena tu bādhanāt / yatra tarhi na nirṇayastatra vikalpātmatā syāt / api ca yathā bādhāyāmekasyāprāmāṇyaṃ nirākaraṇāt, evaṃ virodhe 'pi dvayorekasya vā jñānasya viruddharūpopagrahe tadrūpādhigatyoranyonyanirākaraṇāt / tatraikanirākaraṇe [KKS 64] itarasmānniścayaḥ / parasparanirākṛtau tulyabalatve sandeha iti na saṃśayajñānādekasya sāmānyaviśeṣapratipattirviśiṣyate / tasmādihānaikāntikaṃ vastvityevaṃ jñānaṃ suniścitamiti svapakṣopavarṇanam / api ca ekatvamavirodhena bhedasāmānyayoryadi / na dvyātmatā bhavedekataranirbhaktabhāgavat

Sanskrit only: no published translation is held for this verse.

अवश्यमनेन पदार्थानां भेदाभेदौ व्यवस्थापयता -- यथा तावत्सामान्यमभिन्नं विशेषा भिद्यन्त इति -- भेदाभेदयोर्लक्षणं वाच्यम् । तत्र रूपविरोधो ऽन्योन्याभावो भेदलक्षणम् । विपर्ययो ऽभेदलक्षणम् । रूपविरोधाद्ध्यन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते । भिद्यमानेष्वपि तेषु सामान्यमभिन्नम्, विपर्ययात् । तत्र सामान्यविशेषयोर्यदि स्वरूपविरोधो ऽन्योन्याभावः, नैकत्वं भेदानामिव परस्परम् । अथ सामान्यविशेषबुद्ध्येरैकाधिकरण्येनोत्पत्तेः स्वरूपविरोधो ऽभ्युपेयते, न तर्ह्येकं द्व्यात्मकम् । सामान्यविशेषयोः स्वरूपविरोधाभावादसति भेदे द्वित्वानुपपत्तेः । यथा न सामान्यांशो द्विरूपो विशेषांशो वा रूपविरोधाभावात् -- तत्रैकस्मिन्निर्भक्ते द्वित्वाभावात् -- तथा सामान्यविशेषयोरपि सामानाधिकरण्यबुद्धेर्यदि न रूपविरोधः, न परस्परात्माभावः (म्स् ब्; परस्पराभावः एदितिओन्) । द्वित्वं न युज्यते । अथ रूपविरोधः, नैकत्वमिति । यदि मतम् -- न स्वरूपविरोधान्नानात्वम्, तदभावाच्चैकत्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्द्वित्वं न स्यादन्यतरस्येव भागस्य । किं तु बुद्धे रूपभेदाभेदाभ्याम् । सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपत्तेरसत्यप्यन्योन्याभावलक्षणे स्वरूपविरोधे बुद्धे रूपभेदाद्द्वित्वम् । अंशे तु रूपाभेदादेकत्वम् । अतो वस्तुनो द्विरूपबुद्धिग्राह्यत्वाद् द्व्यात्मतेति । तत्रोच्यते -- ऐकात्म्यबुद्धेर्भागे चेदेवं वस्तुनि तर्ह्यसौ । न चेत्कुतस्त्यमेकत्वमस्ति चेद् द्व्यात्मता कथम्

avaśyamanena padārthānāṃ bhedābhedau vyavasthāpayatā -- yathā tāvatsāmānyamabhinnaṃ viśeṣā bhidyanta iti -- bhedābhedayorlakṣaṇaṃ vācyam / tatra rūpavirodho 'nyonyābhāvo bhedalakṣaṇam / viparyayo 'bhedalakṣaṇam / rūpavirodhāddhyanyonyābhāvaparyāyādviśeṣā bhidyante / bhidyamāneṣvapi teṣu sāmānyamabhinnam, viparyayāt / tatra sāmānyaviśeṣayoryadi svarūpavirodho 'nyonyābhāvaḥ, naikatvaṃ bhedānāmiva parasparam / atha sāmānyaviśeṣabuddhyeraikādhikaraṇyenotpatteḥ svarūpavirodho 'bhyupeyate, na tarhyekaṃ dvyātmakam / sāmānyaviśeṣayoḥ svarūpavirodhābhāvādasati bhede dvitvānupapatteḥ / yathā na sāmānyāṃśo dvirūpo viśeṣāṃśo vā rūpavirodhābhāvāt -- tatraikasminnirbhakte dvitvābhāvāt -- tathā sāmānyaviśeṣayorapi sāmānādhikaraṇyabuddheryadi na rūpavirodhaḥ, na parasparātmābhāvaḥ (Ms B; parasparābhāvaḥ edition) / dvitvaṃ na yujyate / atha rūpavirodhaḥ, naikatvamiti / yadi matam -- na svarūpavirodhānnānātvam, tadabhāvāccaikatvam, yena sāmānyaviśeṣayoḥ svarūpavirodhābhāvāddvitvaṃ na syādanyatarasyeva bhāgasya / kiṃ tu buddhe rūpabhedābhedābhyām / sāmānyaviśeṣayośca parasparātmatvena pratipatterasatyapyanyonyābhāvalakṣaṇe svarūpavirodhe buddhe rūpabhedāddvitvam / aṃśe tu rūpābhedādekatvam / ato vastuno dvirūpabuddhigrāhyatvād dvyātmateti / tatrocyate -- aikātmyabuddherbhāge cedevaṃ vastuni tarhyasau / na cetkutastyamekatvamasti ced dvyātmatā katham

Sanskrit only: no published translation is held for this verse.

तत्र यदि नैकरूपोपग्राहिणी वस्तुनि बुद्धिः -- सामान्यविशेषात्मकं हि वस्तु -- तद्द्विरूपबुद्ध्युपग्राह्यम्, कथमेकत्वं वस्तुनः? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात्, रूपभेदस्य च भेदलक्षणस्य भावात् । अथैकरूपोपग्राहिण्येव वस्तुनि बुद्धिः, न द्व्यात्मकत्वमंशवदेव । अथ मतम् -- बुद्धिरूपभेदः परस्परात्माभावश्च (म्स्स् अब्; परस्परात्मताभावश्च - एदितिओन्) भेदलक्षणम् । तत्र गवादयो भेदा भिन्नरूपबुद्ध्युपग्राह्याः परस्परानात्मानश्च, न तु सामान्यविशेषौ, बुद्धिरूपभेदे ऽपि परस्परात्मत्वेन प्रतिपत्तेः । एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न द्व्यात्मता, अंशवदित्युक्तम् । यदि मन्येत -- बुद्धिरूपाभेदः (म्स् ब्; बुद्धेः रूपाभेदः - एदितिओन्) परस्परात्मप्रतिपत्तिश्च द्वे अभेदलक्षणे । तत्रांशस्य रूपाभेदादेकत्वम्, उभयोस्तु परस्परात्मत्वप्रतीतेः । विशेषाणां तु न बुद्धे रूपाविभागः, न परस्परात्मप्रतिपत्तिरिति भिन्ना इति । एवमप्यभेदलक्षणे सति परस्परात्मप्रतिपत्तौ, उभयाभावे च भेदलक्षणे ऽविद्यमाने, न द्व्यात्मता । न चैकस्याभेदस्य द्वे लक्षणे युज्येते । लक्षणाभेदो ह्यभेदं व्यवस्थापयति, तद्भेदश्च भेदम् । लक्षणभेदे ऽपि चेत्तत्त्वम्, अन्यत्वं च लक्षणाभेदे ऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति । अपि च सामान्यविशेषयोरभेदे, बुद्ध्यन्तरस्य वैयर्थ्यमेकांश इव चापतेत् । नानात्वादर्थवत्ता चेदेकत्वाद्व्यर्थता न किम्

tatra yadi naikarūpopagrāhiṇī vastuni buddhiḥ -- sāmānyaviśeṣātmakaṃ hi vastu -- taddvirūpabuddhyupagrāhyam, kathamekatvaṃ vastunaḥ? buddhirūpābhedasyābhedalakṣaṇasyābhāvāt, rūpabhedasya ca bhedalakṣaṇasya bhāvāt / athaikarūpopagrāhiṇyeva vastuni buddhiḥ, na dvyātmakatvamaṃśavadeva / atha matam -- buddhirūpabhedaḥ parasparātmābhāvaśca (Mss AB; parasparātmatābhāvaśca - edition) bhedalakṣaṇam / tatra gavādayo bhedā bhinnarūpabuddhyupagrāhyāḥ parasparānātmānaśca, na tu sāmānyaviśeṣau, buddhirūpabhede 'pi parasparātmatvena pratipatteḥ / evamapi sāmānyaviśeṣayorbhedalakṣaṇena virahānna dvyātmatā, aṃśavadityuktam / yadi manyeta -- buddhirūpābhedaḥ (Ms B; buddheḥ rūpābhedaḥ - edition) parasparātmapratipattiśca dve abhedalakṣaṇe / tatrāṃśasya rūpābhedādekatvam, ubhayostu parasparātmatvapratīteḥ / viśeṣāṇāṃ tu na buddhe rūpāvibhāgaḥ, na parasparātmapratipattiriti bhinnā iti / evamapyabhedalakṣaṇe sati parasparātmapratipattau, ubhayābhāve ca bhedalakṣaṇe 'vidyamāne, na dvyātmatā / na caikasyābhedasya dve lakṣaṇe yujyete / lakṣaṇābhedo hyabhedaṃ vyavasthāpayati, tadbhedaśca bhedam / lakṣaṇabhede 'pi cettattvam, anyatvaṃ ca lakṣaṇābhede 'pi yadi, vyarthataiva lakṣaṇasya syāditi / api ca sāmānyaviśeṣayorabhede, buddhyantarasya vaiyarthyamekāṃśa iva cāpatet / nānātvādarthavattā cedekatvādvyarthatā na kim

Sanskrit only: no published translation is held for this verse.

बुद्ध्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मतामपाकरोति । सा हि नानात्मत्वे भेदेष्विवार्थवती, अनधिगताधिगमात् । एकत्वे तु यथा सामान्यविशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्ध्यन्तरमर्थ्यते, तथा सामान्यबुद्धेर्न बुद्ध्यन्तरं विलक्षणं विशेषाधिगमाय प्रार्थ्येत । तथा विशेषबुद्धेर्न सामान्याधिगमाय । अथ नात्यन्तमव्यतिरेकः सामान्यविशेषयोः, व्यतिरेको ऽपि तु । तत्र व्यतिरेकादर्थवत्तेति । तदसत् । एवमपि कुत एतत् -- व्यतिरेकादर्थवत्त्वं भेदवत्, न पुनरव्यतिरेकादेकांशवद्वैयर्थ्यम्? [क्क्स् ६६] तुल्ययोर्हि भेदाभेदयोः कुत एतत् -- भेदादेकया बुद्ध्या न ग्रहणम्, न पुनरभेदाद्ग्रहणमिति बुद्ध्यन्तरवैयर्थ्यम्? औत्सर्गिकश्च हेत्वभावे फलाभावः स्वभावसिद्धः । तस्य हेतुभावे फलभावो ऽपवादः । तत्राभेदे हेतुभावादेकयैव बुद्ध्योभयाधिगमो युक्तः । नैकत्वे ऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अथापि कथञ्चिन्नास्तीत्युच्येत । तथाप्यस्ति तावत्, एकत्वात् । तत्र हेतुभावात् फलभावः स्यात्, तस्य कारणत्वात् । न त्वभावो ऽभावस्य कारणम् । स्वभावसिद्धस्त्वभावः फलस्य । तस्य हेतुनिबन्धनः फलभावो निवर्तकः । स च हेतुरुभयत्रास्ति तावत् । असत्त्वं त्वनुपयोगम्, अकारणत्वादिति । अपि च सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः । तस्यानन्वयतो भेदवादः शब्दान्तरादयम्

buddhyantarapravṛttireva sāmānyaviśeṣayorekavastvātmatāmapākaroti / sā hi nānātmatve bhedeṣvivārthavatī, anadhigatādhigamāt / ekatve tu yathā sāmānyaviśeṣavibhāgayoḥ svabuddhisamadhigatayorna vilakṣaṇaṃ buddhyantaramarthyate, tathā sāmānyabuddherna buddhyantaraṃ vilakṣaṇaṃ viśeṣādhigamāya prārthyeta / tathā viśeṣabuddherna sāmānyādhigamāya / atha nātyantamavyatirekaḥ sāmānyaviśeṣayoḥ, vyatireko 'pi tu / tatra vyatirekādarthavatteti / tadasat / evamapi kuta etat -- vyatirekādarthavattvaṃ bhedavat, na punaravyatirekādekāṃśavadvaiyarthyam? [KKS 66] tulyayorhi bhedābhedayoḥ kuta etat -- bhedādekayā buddhyā na grahaṇam, na punarabhedādgrahaṇamiti buddhyantaravaiyarthyam? autsargikaśca hetvabhāve phalābhāvaḥ svabhāvasiddhaḥ / tasya hetubhāve phalabhāvo 'pavādaḥ / tatrābhede hetubhāvādekayaiva buddhyobhayādhigamo yuktaḥ / naikatve 'nyatarādhigamaheturnāstīti śakyaṃ vaktum / athāpi kathañcinnāstītyucyeta / tathāpyasti tāvat, ekatvāt / tatra hetubhāvāt phalabhāvaḥ syāt, tasya kāraṇatvāt / na tvabhāvo 'bhāvasya kāraṇam / svabhāvasiddhastvabhāvaḥ phalasya / tasya hetunibandhanaḥ phalabhāvo nivartakaḥ / sa ca heturubhayatrāsti tāvat / asattvaṃ tvanupayogam, akāraṇatvāditi / api ca sāmānyaṃ na hi vastvātmā na bhedaścitra eva saḥ / tasyānanvayato bhedavādaḥ śabdāntarādayam

Sanskrit only: no published translation is held for this verse.

अपि त्वननुगम (अपि त्वननुगम - एदितिओन्) एव तस्य समुदायात्मकत्वादेकाभावे ऽप्यभावात् । तथा हि -- इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा । उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः । प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते -- तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति । यदि वाखिलभावानामभेदात्तदतत्त्वतः । अभेदवादाश्रयणं स्यादन्यविधया गिरा

api tvananugama (api tvananugama - edition) eva tasya samudāyātmakatvādekābhāve 'pyabhāvāt / tathā hi -- itaretarāpekṣau vā sāmānyaviśeṣau vastu, tatsamāhāro vā / ubhayathārthāntare viśeṣasyābhāvānna vastvanvayaḥ / pratyekamanapekṣayorvastutve nobhayātmakamekaṃ vastu syāditi suṣṭhūcyate -- tasyānanvayato bhedavādaḥ śabdāntarādayamiti / yadi vākhilabhāvānāmabhedāttadatattvataḥ / abhedavādāśrayaṇaṃ syādanyavidhayā girā

Sanskrit only: no published translation is held for this verse.

अंशानुवृत्त्या वा वस्त्वनुगमे ऽद्वैतवादः । तथा हि -- गौः स्वतस्तावद्गौः, सद्द्रव्यादिरूपानुगमादश्ववस्तुनो ऽनुगमादश्वः । तदेवं गौर्गौश्चाश्वश्च । अश्वो ऽपि तावदश्वः सद्द्रव्यादिरूपानुगमेन गोवस्तुनो ऽन्वयाद्गौः । तदेवमश्वो ऽप्यश्वो गौश्च । तदेवं सर्वभावानां तद्भावान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युक्तमन्यप्रकारया वाचा । सत्यम्, द्वैतमप्यस्ति । यतस्तद्भावान्यभावाभ्यामभेदः । नैतत्सारम् । गौरपि चेदश्वो गौश्चाश्वश्च । तत्कुतो ऽन्यत्वम्? गौरश्व इत्यपि (गौश्चाश्वश्चेत्यपि - एदितिओन्) भेदाभिधानमनिबन्धनमेव । सिद्धे हि गवाश्वभेदे एतदुपपद्यते । गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत् । ननु विशेषांशानां व्यावृत्तेरन्यत्वसिद्धिः । तथा च द्वैताद्वैतात्मकं जगदिति । अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः । किमुभयरूपत्वाद्वस्तुनो वस्त्वन्तरे ऽनुगमो नास्ति? अश्ववस्तु गोवस्तु न भवति । अथास्त्यनुगमः, अश्वो ऽपि गौर्भवति? तत्र पूर्वस्मिन्कल्पे वस्तुनो ऽनन्वयादनुयतश्चावस्तुत्वाद्भेदवाद इत्युक्तम् । अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम्, भवत्यश्वो गौः (भवत्यश्वो ऽपि - एदितिओन्) । कुतो ऽन्यत्वसिद्धिः? यदि मतम् -- अनुगतं चाननुगतं चाश्वे गोवस्तु । भवति चाश्वो गौः । गौस्तु गौरेव । भवत्येव हि तत्र गोवस्तु । ततो ऽन्यत्वसिद्धिरिति । अथ गोवस्तु कथं वक्तव्यम्? किं यद्गौर्भवत्येव, अथ यन्न भवत्यपि? तत्र पूर्वस्यां कल्पनायां न वस्तुनो ऽनुगम इत्यनन्वितानि वस्तूनि । द्वितीयस्यां [क्क्स् ६८] वस्तुनो वस्त्वन्तरे ऽन्वयादद्वैतम् । सर्वथा येन विशेषेणायमश्वाद्गोवस्तु व्यवस्थापयत्यन्यत् तद्विशेषयुजस्तु तस्यानन्वयाद्भेदवादः । अथानन्वयदोषान्न विशेषमाश्रयति अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति । द्रव्यपर्यायार्थकानां नय एतेन वारितः । तेषामपि द्रव्यनयः पर्यायनय एव वा

aṃśānuvṛttyā vā vastvanugame 'dvaitavādaḥ / tathā hi -- gauḥ svatastāvadgauḥ, saddravyādirūpānugamādaśvavastuno 'nugamādaśvaḥ / tadevaṃ gaurgauścāśvaśca / aśvo 'pi tāvadaśvaḥ saddravyādirūpānugamena govastuno 'nvayādgauḥ / tadevamaśvo 'pyaśvo gauśca / tadevaṃ sarvabhāvānāṃ tadbhāvānyabhāvābhyāmabheda ityadvaitaṃ jagadityuktamanyaprakārayā vācā / satyam, dvaitamapyasti / yatastadbhāvānyabhāvābhyāmabhedaḥ / naitatsāram / gaurapi cedaśvo gauścāśvaśca / tatkuto 'nyatvam? gauraśva ityapi (gauścāśvaścetyapi - edition) bhedābhidhānamanibandhanameva / siddhe hi gavāśvabhede etadupapadyate / gavāśvasya tu pratyekaṃ gavāśvatve bhedābhāvādanibandhanameva tat / nanu viśeṣāṃśānāṃ vyāvṛtteranyatvasiddhiḥ / tathā ca dvaitādvaitātmakaṃ jagaditi / atha viśeṣavyāvṛtteranyatvasiddhiḥ / kimubhayarūpatvādvastuno vastvantare 'nugamo nāsti? aśvavastu govastu na bhavati / athāstyanugamaḥ, aśvo 'pi gaurbhavati? tatra pūrvasminkalpe vastuno 'nanvayādanuyataścāvastutvādbhedavāda ityuktam / atha viśeṣavyāvṛttāvapi tadvastvanugatam, bhavatyaśvo gauḥ (bhavatyaśvo 'pi - edition) / kuto 'nyatvasiddhiḥ? yadi matam -- anugataṃ cānanugataṃ cāśve govastu / bhavati cāśvo gauḥ / gaustu gaureva / bhavatyeva hi tatra govastu / tato 'nyatvasiddhiriti / atha govastu kathaṃ vaktavyam? kiṃ yadgaurbhavatyeva, atha yanna bhavatyapi? tatra pūrvasyāṃ kalpanāyāṃ na vastuno 'nugama ityananvitāni vastūni / dvitīyasyāṃ [KKS 68] vastuno vastvantare 'nvayādadvaitam / sarvathā yena viśeṣeṇāyamaśvādgovastu vyavasthāpayatyanyat tadviśeṣayujastu tasyānanvayādbhedavādaḥ / athānanvayadoṣānna viśeṣamāśrayati abhedavāda iti na dvaitādvaitakalpanopapadyata iti / dravyaparyāyārthakānāṃ naya etena vāritaḥ / teṣāmapi dravyanayaḥ paryāyanaya eva vā

Sanskrit only: no published translation is held for this verse.

ये च -- द्रव्यं नित्यं मृत्सुवर्णादि । तस्य (तस्य तु म्स् अ; तस्य च - एदितिओन्) घटरुचकादयः पर्याया विशेषाख्या अपायिन उपायिनश्चाव्यतिरेकाः । न च ते द्रव्यमेव, तस्य स्थितिमत्त्वात् । न च ततो ऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः । द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् । एवं द्रव्यपर्यायरूपं वस्तु । अथ (म्स् ब्; अथ - एदितिओन्) तु द्रव्यमेव स्यात्, वर्धमानकभङ्गेन रुचकक्रियायां न किञ्चिदुत्पन्नं नष्टं वेति प्रीतिशोकौ तदर्थिनोर्न स्याताम् । अथ तु पर्यायमात्रम्, हेमार्थिनो मध्यस्थता न स्यात् । पर्यायमात्रे हि हेम्नि हेम्नो विनाशात्पर्यायविनाशे कथं मध्यस्थता? उत्पादे वा? तस्माद्द्रव्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिभङ्गानामेकत्र संभवाद्द्रव्यरूपस्थितेर्माध्यस्थ्यम्, पर्याययोरुत्पत्तिविनाशाभ्यां प्रीतिशोकाववकल्पेते इति -- मन्यन्ते । तन्नीतिरप्यनेनैव निराकृता प्रकारेण । तथा हि -- तेषामपि वस्तुनो वस्त्वन्तरान्वये ऽपि भागाभावाद्द्रव्यमात्रं स्यात् । अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्याननुगमादनन्वितानि तर्हि व्यावृत्तस्वभावानि वस्तूनि । यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात्पर्यायमात्रम् । अवस्थितं हि द्रव्यमुच्यते । न चैवमवस्थितं किञ्चिदेकं वस्त्वस्ति । वस्तुनस्त्वपोद्धृतस्यांशस्यावस्थानकल्पना कल्पनैव । वस्तुनश्चित्रत्वात्, तस्य चातथाभावादिति । अपि च उत्पादस्थितिभङ्गानामेकत्र समवायतः । प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम्

ye ca -- dravyaṃ nityaṃ mṛtsuvarṇādi / tasya (tasya tu Ms A; tasya ca - edition) ghaṭarucakādayaḥ paryāyā viśeṣākhyā apāyina upāyinaścāvyatirekāḥ / na ca te dravyameva, tasya sthitimattvāt / na ca tato 'tyantaṃ vyāvartante, bhedenānupalabdheḥ / dravyasyaiva rucakādirūpeṇa pratyayāt / evaṃ dravyaparyāyarūpaṃ vastu / atha (Ms B; atha - edition) tu dravyameva syāt, vardhamānakabhaṅgena rucakakriyāyāṃ na kiñcidutpannaṃ naṣṭaṃ veti prītiśokau tadarthinorna syātām / atha tu paryāyamātram, hemārthino madhyasthatā na syāt / paryāyamātre hi hemni hemno vināśātparyāyavināśe kathaṃ madhyasthatā? utpāde vā? tasmāddravyaparyāyarūpatvādvastuna utpattisthitibhaṅgānāmekatra saṃbhavāddravyarūpasthitermādhyasthyam, paryāyayorutpattivināśābhyāṃ prītiśokāvavakalpete iti -- manyante / tannītirapyanenaiva nirākṛtā prakāreṇa / tathā hi -- teṣāmapi vastuno vastvantarānvaye 'pi bhāgābhāvāddravyamātraṃ syāt / atha na vastvanveti dravyaparyāyarūpatvādvastunaḥ, paryāyāntare ca paryāyāntarasyānanugamādananvitāni tarhi vyāvṛttasvabhāvāni vastūni / yasyānugamaḥ kalpyate tanmātrarūpasyāvastutvātparyāyamātram / avasthitaṃ hi dravyamucyate / na caivamavasthitaṃ kiñcidekaṃ vastvasti / vastunastvapoddhṛtasyāṃśasyāvasthānakalpanā kalpanaiva / vastunaścitratvāt, tasya cātathābhāvāditi / api ca utpādasthitibhaṅgānāmekatra samavāyataḥ / prītimadhyasthatāśokāḥ syurna syuriti durghaṭam

Sanskrit only: no published translation is held for this verse.

प्रीतिशोकौ स्याताम्, न स्याताम् । न हि तद्द्रव्यमवतिष्ठत एव, विनश्यत्यपूर्वं चोत्पद्यते । तत्र विनाशादपूर्वोत्पत्तेश्च प्रीतिशोकौ स्याताम्, न मध्यस्थता । मध्यस्थता च स्थितेः स्यात् -- इति दुर्घटमापद्येत । तथा वर्धमानकार्थिनस्तन्नाशाच्छोकः स्यात् । न च स्यात्, स्थितेः । प्रीतिश्च तस्यापूर्वस्योत्पादात्स्यात् । न च भवेत्, पूर्वस्यैव स्थितेः । विनाशाच्च शोकः स्यादिति । अथ भेदो ऽप्यस्तीति नायं दोषः । अभेदो ऽप्यस्तीति किं न भवति? अथ नात्यन्तमभेदः, तेन न संकरः । नात्यन्तमभेद इति व्यवस्थापि न युज्यते । न चास्य किञ्चित्क्वचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते -- नात्यन्तमभेद इत्यसंकर इति । तथा च नैकान्तः सर्वभावानां यदि सर्वविधानतः । अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वत्र ही जगत्

prītiśokau syātām, na syātām / na hi taddravyamavatiṣṭhata eva, vinaśyatyapūrvaṃ cotpadyate / tatra vināśādapūrvotpatteśca prītiśokau syātām, na madhyasthatā / madhyasthatā ca sthiteḥ syāt -- iti durghaṭamāpadyeta / tathā vardhamānakārthinastannāśācchokaḥ syāt / na ca syāt, sthiteḥ / prītiśca tasyāpūrvasyotpādātsyāt / na ca bhavet, pūrvasyaiva sthiteḥ / vināśācca śokaḥ syāditi / atha bhedo 'pyastīti nāyaṃ doṣaḥ / abhedo 'pyastīti kiṃ na bhavati? atha nātyantamabhedaḥ, tena na saṃkaraḥ / nātyantamabheda iti vyavasthāpi na yujyate / na cāsya kiñcitkvacidekāntataḥ sarvatrānekāntamabhyupayataḥ, yenāyaṃ viśeṣa ucyate -- nātyantamabheda ityasaṃkara iti / tathā ca naikāntaḥ sarvabhāvānāṃ yadi sarvavidhānataḥ / apravṛttinivṛttīdaṃ prāptaṃ sarvatra hī jagat

Sanskrit only: no published translation is held for this verse.

यदा हि सर्वप्रकारेष्वनैकान्तिकत्वं भावानाम्, तथा सति -- नायं लोकः क्वचिदभिमतसाधनताप्रकारमवधार्य प्रवर्तेत, यतो नासौ तथैव । नापि निवर्तेत, यतो नासावतथैव । तथा दुःखहेतोर्न निवर्तेत, नासौ तथैव । नापि न निवर्तेत, यतो नासावतथैव -- इति कष्टां बत दशामापद्येत । अथ वा यदुक्तम् -- प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटमिति, तत्र ब्रूयुः -- सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात्का दुर्घटता? तथा हि -- प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति । अत्रोच्यते -- नैकान्तः सर्वभावानामिति । यदि खलु प्रीत्यादीनां सदसत्त्वे [क्क्स् ७०] नैकान्तिके (ऽनैकान्तिके - एदितिओन्) -- न प्रीत्यर्थी प्रीतिसाधनेषु प्रवर्तेत, प्रीतेर्विद्यमानत्वात् । नापि न प्रवर्तेत, तस्या अभावात् । तथा दुःखनिवृत्त्यर्थी न दुःखसाधनसंपर्कं परिहरेत्, तस्यासत्त्वात् । नापि न परिहरेत्, तस्य सत्त्वात् -- इत्यप्रवृत्तिनिवृत्तिकं बत विश्वमापन्नमिति । एवं तावन्न द्वे वस्तुनी, नैकं द्व्यात्मकम् । तत्र द्वयमवशिष्यते -- भेदः सत्यः, तदुपादानाभेदकल्पना । अभेदो वा सत्यः, तदुपादाना भेदकल्पनेति । तत्र -- आपेक्षिकत्वाद्भेदो हि भेदग्रहपुरस्सरः । नैकज्ञानं समीक्ष्यैकं न भेदं तत्त्वहानतः

yadā hi sarvaprakāreṣvanaikāntikatvaṃ bhāvānām, tathā sati -- nāyaṃ lokaḥ kvacidabhimatasādhanatāprakāramavadhārya pravarteta, yato nāsau tathaiva / nāpi nivarteta, yato nāsāvatathaiva / tathā duḥkhahetorna nivarteta, nāsau tathaiva / nāpi na nivarteta, yato nāsāvatathaiva -- iti kaṣṭāṃ bata daśāmāpadyeta / atha vā yaduktam -- prītimadhyasthatāśokāḥ syurna syuriti durghaṭamiti, tatra brūyuḥ -- sarvavastuṣu sarvaprakārāṇāmanaikāntikatvātkā durghaṭatā? tathā hi -- prītimadhyasthatāśokā naikāntataḥ santi, naikāntato na santīti / atrocyate -- naikāntaḥ sarvabhāvānāmiti / yadi khalu prītyādīnāṃ sadasattve [KKS 70] naikāntike ('naikāntike - edition) -- na prītyarthī prītisādhaneṣu pravarteta, prītervidyamānatvāt / nāpi na pravarteta, tasyā abhāvāt / tathā duḥkhanivṛttyarthī na duḥkhasādhanasaṃparkaṃ pariharet, tasyāsattvāt / nāpi na pariharet, tasya sattvāt -- ityapravṛttinivṛttikaṃ bata viśvamāpannamiti / evaṃ tāvanna dve vastunī, naikaṃ dvyātmakam / tatra dvayamavaśiṣyate -- bhedaḥ satyaḥ, tadupādānābhedakalpanā / abhedo vā satyaḥ, tadupādānā bhedakalpaneti / tatra -- āpekṣikatvādbhedo hi bhedagrahapurassaraḥ / naikajñānaṃ samīkṣyaikaṃ na bhedaṃ tattvahānataḥ

Sanskrit only: no published translation is held for this verse.

न भेदमुपादायाभेदकल्पना । कुतः? आपेक्षिको हि भेदो नान्यमनपेक्ष्य शक्यते ग्रहीतुम् । न चागृहीतो भेदो ऽभेदकल्पनाया उपादानं भवति । परापेक्षत्वे चास्य ग्रहणमनुपपन्नम् । यतो नागृहीते भेदे परात्मानौ व्यवतिष्ठेते । न च परात्मव्यवस्थामन्तरेण भेदग्रहो ऽस्तीति प्राक्प्रपञ्चितम् । न त्वेवम् (म्स् अ; न चैवम् - एदितिओन्) अभेदग्रहणमभेदग्रहणापेक्षम् । नापि भेदग्रहणापेक्षम्, अभेदहानप्रसङ्गात् । न हि भेदे गृहीते ऽभेदस्यावकाशो ऽस्ति । तत्राभेदं गृहीत्वा तमुपादाय तस्य यथावन्निश्चयाशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्ग्राह्येषु घटादिष्ववयवविभागकल्पना । न तत्र भेदोपादानाभेदकल्पना । भेदो हि परमाणुषु व्यवतिष्ठते । ते चातीन्द्रियाः । ननु चैकत्वमप्यनुसन्धानप्रत्ययावसेयम् । स च न भेदमन्तरेण । भेदास्पर्शे (भेदासंस्पर्शे - एदितिओन्) हि किं केनानुसन्धीयतामिति । प्रत्युक्तमेतत् -- नेदानीमभिन्नदेशकालो ऽर्थ एकः स्यात् । असति चैकस्मिन् किमाश्रया भेदाशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति । अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति । तथा हि -- आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना । अचेत्यमानो भेदो ऽपि चकास्तीत्यतिसाहसम्

na bhedamupādāyābhedakalpanā / kutaḥ? āpekṣiko hi bhedo nānyamanapekṣya śakyate grahītum / na cāgṛhīto bhedo 'bhedakalpanāyā upādānaṃ bhavati / parāpekṣatve cāsya grahaṇamanupapannam / yato nāgṛhīte bhede parātmānau vyavatiṣṭhete / na ca parātmavyavasthāmantareṇa bhedagraho 'stīti prākprapañcitam / na tvevam (Ms A; na caivam - edition) abhedagrahaṇamabhedagrahaṇāpekṣam / nāpi bhedagrahaṇāpekṣam, abhedahānaprasaṅgāt / na hi bhede gṛhīte 'bhedasyāvakāśo 'sti / tatrābhedaṃ gṛhītvā tamupādāya tasya yathāvanniścayāśaktau vyavacchedakalpanopapadyate, yathaikabuddhinirgrāhyeṣu ghaṭādiṣvavayavavibhāgakalpanā / na tatra bhedopādānābhedakalpanā / bhedo hi paramāṇuṣu vyavatiṣṭhate / te cātīndriyāḥ / nanu caikatvamapyanusandhānapratyayāvaseyam / sa ca na bhedamantareṇa / bhedāsparśe (bhedāsaṃsparśe - edition) hi kiṃ kenānusandhīyatāmiti / pratyuktametat -- nedānīmabhinnadeśakālo 'rtha ekaḥ syāt / asati caikasmin kimāśrayā bhedāśaṅkā syāt, yasyānusaṃdhānādekatvamucyata iti / api ca sarvapratyātmavedanīyametadabhedopādāno bheda iti / tathā hi -- ālocyate vastumātraṃ jñānenāpātajanmanā / acetyamāno bhedo 'pi cakāstītyatisāhasam

Sanskrit only: no published translation is held for this verse.

तत्पूर्वास्तु विकल्पबुद्धयो विशेषानवगाहन्त इति सर्वप्रत्यात्मवेदनीयम् । स्यादेतत् -- विशिष्टरूपोपग्राह्येव प्रत्यक्षम् । स तु भेदः शब्देनासंस्पर्शान्न तथोपलक्ष्यते, यथा विकल्पबुद्धौ । तदयुक्तम्, विप्रतिषेधात् । न चोपलक्ष्यते प्रत्यक्षबुद्धौ विशेषः प्रकाशते चेति विप्रतिषिद्धम् । अतो ऽतिसाहसमुच्यते । यस्तु संवित्तावेव विप्रतिपद्यते सर्वानात्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्योत्तरम् -- ‘आहुर्विधातृप्रत्यक्षम्ऽ; इत्याद्युक्तमेवेति । किं च प्रतिष्ठितं च विज्ञानमर्थमात्रावलम्बनम् । भेदेषु त्वप्रतिष्ठत्वमस्तीन्द्रियधियामपि

tatpūrvāstu vikalpabuddhayo viśeṣānavagāhanta iti sarvapratyātmavedanīyam / syādetat -- viśiṣṭarūpopagrāhyeva pratyakṣam / sa tu bhedaḥ śabdenāsaṃsparśānna tathopalakṣyate, yathā vikalpabuddhau / tadayuktam, vipratiṣedhāt / na copalakṣyate pratyakṣabuddhau viśeṣaḥ prakāśate ceti vipratiṣiddham / ato 'tisāhasamucyate / yastu saṃvittāveva vipratipadyate sarvānātmavyāvṛttaspaṣṭapratibhāsaṃ pratyakṣamiti vadan, tasyottaram -- ‘āhurvidhātṛpratyakṣam'; ityādyuktameveti / kiṃ ca pratiṣṭhitaṃ ca vijñānamarthamātrāvalambanam / bhedeṣu tvapratiṣṭhatvamastīndriyadhiyāmapi

Sanskrit only: no published translation is held for this verse.

वस्तुद्वयानुपपत्तेरेकस्य च द्व्यात्मतायोगादवश्यकल्पनीये ऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम्, रजतादिविभ्रान्तिषु दर्शनात् । न च वस्तुमात्रावभासस्य । न हि वस्तुमात्रव्यभिचारः क्वचिज्ज्ञाने दृष्टो ऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात् । दृष्टतद्भावस्यैव तत्कल्पना लघ्वी, कॢप्तत्वाद्योग्यतायाः, इतरत्र तु कल्प्यत्वात् । स्यादेतत् -- मानस्य एव बुद्धयः कॢप्तयोग्यभावा मिथ्यात्वं प्रति, नेन्द्रियजन्मानः । इन्द्रियबुद्धिसमधिगम्याश्च भेदा इति । एतच्च वार्तम् । इन्द्रियदोषानुविधायित्वाद्भ्रान्तीनामिति ( दोषविशेषानुविधायि - एदितिओन्) । अपि च यस्य मतम् -- व्यावृत्तस्वलक्षणा भावाः । तेन ते ऽन्योन्याभावस्वभावा व्याकर्तव्याः, तद्विशेषणा वा । नान्यथा व्यावृत्तशब्दो ऽर्थवान् भवति, तस्येतरेतराभावनिमित्तत्वात् । तत्र अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते । तत्रोपाधौ प्रतीयन्तां तथा भिन्ना न रूपतः

vastudvayānupapatterekasya ca dvyātmatāyogādavaśyakalpanīye 'nyatarasya mithyātve yuktaṃ viśeṣāvabhāsasya mithyātvam, rajatādivibhrāntiṣu darśanāt / na ca vastumātrāvabhāsasya / na hi vastumātravyabhicāraḥ kvacijjñāne dṛṣṭo 'sti, antatastasyaiva vastunaḥ pratibhāsanāt / dṛṣṭatadbhāvasyaiva tatkalpanā laghvī, kḷptatvādyogyatāyāḥ, itaratra tu kalpyatvāt / syādetat -- mānasya eva buddhayaḥ kḷptayogyabhāvā mithyātvaṃ prati, nendriyajanmānaḥ / indriyabuddhisamadhigamyāśca bhedā iti / etacca vārtam / indriyadoṣānuvidhāyitvādbhrāntīnāmiti ( doṣaviśeṣānuvidhāyi - edition) / api ca yasya matam -- vyāvṛttasvalakṣaṇā bhāvāḥ / tena te 'nyonyābhāvasvabhāvā vyākartavyāḥ, tadviśeṣaṇā vā / nānyathā vyāvṛttaśabdo 'rthavān bhavati, tasyetaretarābhāvanimittatvāt / tatra anyonyābhāvarūpatvaṃ sarveṣāṃ na prakalpate / tatropādhau pratīyantāṃ tathā bhinnā na rūpataḥ

Sanskrit only: no published translation is held for this verse.

एकस्मिन्ननपेक्षे स्थिते तदभावरूपो ऽन्यो व्यवतिष्ठते । सर्वे तु नान्योन्याभावरूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् । अथ विशेषणमन्योन्याभावः । कामम्, अतदात्मानो ऽपि विशेषणानुरागात्तथावगम्यन्ताम् । न तु स्वभावभेदः [क्क्स् ७२] स्यात् । ननु नान्योन्याभावो नाम कश्चित्, यो भावानां तत्त्वं विशेषणं वा स्यात् अर्थसिद्धिरेवैषा । न चेदन्योन्याभावो कश्चित्, सिद्धस्तर्ह्यभेद इति । अपि च भेदत्वादेव विश्वस्य भेदो ऽभेदोपादान इति शक्यते ऽनुमातुम् । दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्भेदः । न च तत्र भावान्तरोत्पत्तिः, विरुद्धपरिणामत्वात् । स्यादेतत् -- अभेदो ऽपि शक्यो भेदोपादानो ऽनुमातुम्, वनाभेदस्य तरुभेदोपादानत्वात् । न, भेदाभावप्रसङ्गात् । एवं हि न कश्चिदेको ऽभिन्नः परमाणुरपि । तदभेदो ऽपि हि भेदोपादानः स्याद्वनादिवत् । तथा तदंशाभेदो ऽपीत्यनवस्थायामेकस्याभावात्तत्समुच्चयरूपो ऽभेदो न स्यात् । अथ क्वचिदवतिष्ठते स एकः । तदभेदो न भेदोपादान इति व्यभिचारः । तदिदमुच्यते -- दपर्णादौ मुखस्येव भेदो ऽभेदावलम्बनः । भेदावलम्बनो ऽभेदो न तथा तदभावतः

ekasminnanapekṣe sthite tadabhāvarūpo 'nyo vyavatiṣṭhate / sarve tu nānyonyābhāvarūpāḥ kalpante, parasparāśrayasthititvāt / atha viśeṣaṇamanyonyābhāvaḥ / kāmam, atadātmāno 'pi viśeṣaṇānurāgāttathāvagamyantām / na tu svabhāvabhedaḥ [KKS 72] syāt / nanu nānyonyābhāvo nāma kaścit, yo bhāvānāṃ tattvaṃ viśeṣaṇaṃ vā syāt arthasiddhirevaiṣā / na cedanyonyābhāvo kaścit, siddhastarhyabheda iti / api ca bhedatvādeva viśvasya bhedo 'bhedopādāna iti śakyate 'numātum / dṛṣṭo hi maṇikṛpāṇadarpaṇādiṣvabhinnamukhopādānastadbhedaḥ / na ca tatra bhāvāntarotpattiḥ, viruddhapariṇāmatvāt / syādetat -- abhedo 'pi śakyo bhedopādāno 'numātum, vanābhedasya tarubhedopādānatvāt / na, bhedābhāvaprasaṅgāt / evaṃ hi na kaścideko 'bhinnaḥ paramāṇurapi / tadabhedo 'pi hi bhedopādānaḥ syādvanādivat / tathā tadaṃśābhedo 'pītyanavasthāyāmekasyābhāvāttatsamuccayarūpo 'bhedo na syāt / atha kvacidavatiṣṭhate sa ekaḥ / tadabhedo na bhedopādāna iti vyabhicāraḥ / tadidamucyate -- daparṇādau mukhasyeva bhedo 'bhedāvalambanaḥ / bhedāvalambano 'bhedo na tathā tadabhāvataḥ

Sanskrit only: no published translation is held for this verse.

अपि च प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः । भेदो यथा तरङ्गाणां भेदाद्भेदः कलावतः

api ca pratyekamanuviddhatvādabhedena mṛṣā mataḥ / bhedo yathā taraṅgāṇāṃ bhedādbhedaḥ kalāvataḥ

Sanskrit only: no published translation is held for this verse.

अभेदानुविद्धत्वात्प्रत्येकं विश्वस्य भेदो मृषा । यथा जलतरङ्गेषु चन्द्रमसः । तत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदे ऽपि प्रत्येकम् ‘इदम्ऽ; ‘तत्ऽ; ‘अर्थःऽ; ‘वस्तुऽइत्यभेदान्वयः । तरुभेदस्तु यद्यपि न मृषा, वनमित्यभेदानुगमश्च न प्रत्येकम् । न हि प्रत्येकं तरुषु वनमिति बुद्धिः । अतो न तेन व्यभिचारः । एतदर्थं च प्रत्येकमित्युक्तम् । अपि च -- एकस्यैवास्तु महिमा यन्नानेव प्रकाशते । लाघवान्न तु भिन्नानां यच्चकासत्यभिन्नवत्

abhedānuviddhatvātpratyekaṃ viśvasya bhedo mṛṣā / yathā jalataraṅgeṣu candramasaḥ / tatra hi pratyekaṃ candramā ityabhedānvayaḥ, tathā viśvasya bhede 'pi pratyekam ‘idam'; ‘tat'; ‘arthaḥ'; ‘vastu'ityabhedānvayaḥ / tarubhedastu yadyapi na mṛṣā, vanamityabhedānugamaśca na pratyekam / na hi pratyekaṃ taruṣu vanamiti buddhiḥ / ato na tena vyabhicāraḥ / etadarthaṃ ca pratyekamityuktam / api ca -- ekasyaivāstu mahimā yannāneva prakāśate / lāghavānna tu bhinnānāṃ yaccakāsatyabhinnavat

Sanskrit only: no published translation is held for this verse.

तदसत् । व्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव हि न स्यात् । अथ निश्चयप्रत्यक्षयोरात्मभेदादनिश्चयात् । तदसत्, उभयरूपव्यवहारदर्शनात् । तथा हि -- कालाक्ष्यां गोसामान्यनिबन्धनश्च व्यवहारो गवान्तरव्यावृत्तिश्च दृश्यते । न च गवान्तरव्यावृत्तेरनिश्चये स युज्यते । अथैकार्थक्रियाकारित्वादतत्क्रियाव्यावृत्तेस्तुल्यत्वात् । तदप्यसांप्रतम्, अर्थक्रियाणामपि भेदादतत्क्रियाव्यावृत्तेस्तुल्यत्वायोगात् । नैकसाध्यान्यस्यार्थक्रिया येनातत्कारिव्यावृत्तिस्तुल्या स्यात् । वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तुभेदान्न तुल्या । अथास्वभावाः, तेषां कथं तुल्या? अथानादिवासनोपादानो न वस्तुगतविशेषापेक्षः । तदप्ययुक्तम्, नियमात् । कासुचिदेव हि व्यक्तिषु कश्चिदेवावभासः (म्स् ब्; कश्चिदेवाभेदावभासः - एदितिओन्), स वासनामात्रोपादानत्वे न युज्यते । तस्मात्प्रकृत्यैव केचित्कस्यचिदभेदावमर्शस्य योग्याः केचिन्नेति स्वभावविपरीता भावानां सामर्थ्यातिशया कल्पयितव्याः । तथा सत्येवं गौरवात्कल्पनायाः । एकस्यैवास्तु माहात्म्यं यदेको ऽपि नानेवावभासते (नानेव भासते - एदितिओन्), लघुत्वात्कल्पनायाः । न तु भिन्नानां ते सामर्थ्यातिशयाः, यदमी अभिन्ना इव भासन्ते (इवावभासन्ते - एदितिओन्) । भेदव्यवहारश्च (भेदव्यवहाराश्च - एदितिओन्) यथावभासं भेदवादिनामिवाभेदव्यवहार उपपद्यते ( व्यवहारा उपपद्यन्ते - एदितिओन्) । तथा हि -- आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु । संसर्गवादिनामपि सामान्यस्यार्थस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः । ये ऽप्यनर्थान्तरवादिनः, तेषामपि शबलत्वाद्वस्तुनस्तस्य चानन्वयाद्यथावभासमेवोभयव्यवहारः । न वस्त्वनुपातीति दर्शितमिति । यथानुवृत्तव्यवहारसिद्धिं यथावभासं कथयन्ति बाह्याः । तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः

tadasat / vyāvṛttasvabhāvasya tadagrahe grahaṇameva hi na syāt / atha niścayapratyakṣayorātmabhedādaniścayāt / tadasat, ubhayarūpavyavahāradarśanāt / tathā hi -- kālākṣyāṃ gosāmānyanibandhanaśca vyavahāro gavāntaravyāvṛttiśca dṛśyate / na ca gavāntaravyāvṛtteraniścaye sa yujyate / athaikārthakriyākāritvādatatkriyāvyāvṛttestulyatvāt / tadapyasāṃpratam, arthakriyāṇāmapi bhedādatatkriyāvyāvṛttestulyatvāyogāt / naikasādhyānyasyārthakriyā yenātatkārivyāvṛttistulyā syāt / vastusvabhāvaśca vyāvṛttiḥ prativastubhedānna tulyā / athāsvabhāvāḥ, teṣāṃ kathaṃ tulyā? athānādivāsanopādāno na vastugataviśeṣāpekṣaḥ / tadapyayuktam, niyamāt / kāsucideva hi vyaktiṣu kaścidevāvabhāsaḥ (Ms B; kaścidevābhedāvabhāsaḥ - edition), sa vāsanāmātropādānatve na yujyate / tasmātprakṛtyaiva kecitkasyacidabhedāvamarśasya yogyāḥ kecinneti svabhāvaviparītā bhāvānāṃ sāmarthyātiśayā kalpayitavyāḥ / tathā satyevaṃ gauravātkalpanāyāḥ / ekasyaivāstu māhātmyaṃ yadeko 'pi nānevāvabhāsate (nāneva bhāsate - edition), laghutvātkalpanāyāḥ / na tu bhinnānāṃ te sāmarthyātiśayāḥ, yadamī abhinnā iva bhāsante (ivāvabhāsante - edition) / bhedavyavahāraśca (bhedavyavahārāśca - edition) yathāvabhāsaṃ bhedavādināmivābhedavyavahāra upapadyate ( vyavahārā upapadyante - edition) / tathā hi -- ātyantikabhedavādināṃ yathāvabhāsamabhedavyavahāraḥ, na yathāvastu / saṃsargavādināmapi sāmānyasyārthasyārthāntaratvādyathāvabhāsameva bhedeṣvabhedavyavahāraḥ / ye 'pyanarthāntaravādinaḥ, teṣāmapi śabalatvādvastunastasya cānanvayādyathāvabhāsamevobhayavyavahāraḥ / na vastvanupātīti darśitamiti / yathānuvṛttavyavahārasiddhiṃ yathāvabhāsaṃ kathayanti bāhyāḥ / tathaiva bhedavyavahārayogaṃ vadanti vedāntavivekabhājaḥ

Sanskrit only: no published translation is held for this verse.