------------------ चातुर्मास्येष्विदमाम्नायते - ऽ एतद्ब्राह्मणान्येव पञ्च हर्वीषि ऽ इति । तत्र - ब्राह्मणस्य लक्षणं नास्ति । कुतः । वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि - "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्फना । "इति । ऽ तेन ह्मन्नं क्रियते ऽ इति हेतुः । ऽ तद्दधणे दधित्वम् ऽ इति निर्वचनम् । ऽ अमाध्या वै माषाः ऽ इति निन्दा । ऽवायुर्वै क्षेपिष्ठा देवताऽ इति प्रशंसा । ऽ तद्व्यचिकित्सज्जुहवानि , मा हौषम् ऽ इति संशयः । ऽ यजमानेन संमितौदुम्बरी भवति ऽ इति विधिः । ऽ भाषानेव मह्यं पचत ऽ इति परकृतिः । ऽ पुरा ब्राह्मणा अभैषुः ऽ इति पुराकल्पः । ऽ यावतो ऽश्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत् ऽ इति विशेषावधारणकल्पना । एवमन्यदप्युदाहार्यम् । न च ऽ हेत्वादीनामन्यतमं ब्राह्मणम्ऽइति लक्षणम् । मन्त्रेष्वपि हेत्वादिसद्भावात् । तथा हि - ऽ इन्दवोवामुशन्ति हि ऽ इति हेतुः । ऽ उदानिषुर्महीरीति तस्मादुदकमुच्यते ऽ इति निर्वचनम् । ऽमोघमन्नं विन्दते अप्रचेताः ऽ इति निन्दा । ऽ अग्निर्मूर्धा दिवः ककुत्पतिः ऽ इति प्रशंसा । ऽ अधः स्विदासीदुपरि स्विदासीत् ऽ इति संशयः । ऽ कपिञ्जलानालभेत ऽ इति विधिः । ऽ सहस्त्रमंयुतं ददत् ऽ इति परकृतिः । ऽ यज्ञेन यज्ञमयजन्त देवाः ऽ इति पुराकल्पः । ऽ इतिकरणबहुलं ब्राह्मणम् ऽ इति चेत् । न । ऽ इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् ऽ इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः । ऽ इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् ऽ इति चेत् । न । ऽ राजा चिद्यं भगं भक्षीत्याह ऽ ऽ यो वा रक्षाः शुचिरस्मीत्याह ऽ इत्यनयोर्मन्त्रयोरतिव्याप्तेः । ऽ आख्यायिकारूपं ब्राह्मणम् ऽ इति चेत् । न । यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मात् - ऽ नास्ति ब्राह्मणस्य लक्षणम् ऽ इति प्राप्ते - ब्रूमः- ऽ मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ ऽ इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् ऽ अवशिष्टो वेदभागो ब्राह्मणम् ऽ इत्येतल्लक्षणं भवति -- इति
------------------ cāturmāsyeṣvidamāmnāyate - ' etadbrāhmaṇānyeva pañca harvīṣi ' iti | tatra - brāhmaṇasya lakṣaṇaṃ nāsti | kutaḥ | vedabhāgānāmiyattānavadhāraṇena brāhmaṇabhāgeṣvanyabhāgeṣu ca lakṣaṇasyāvyāptyativyāptyoḥ śodhayitumaśakyatvāt | pūrvokto mantrabhāga ekaḥ | bhāgāntarāṇi ca kānicitpūrvairudāhartu saṃgṛhītāni - "heturnirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ | parakriyā purākalpo vyavadhāraṇakalphanā | "iti | ' tena hmannaṃ kriyate ' iti hetuḥ | ' taddadhaṇe dadhitvam ' iti nirvacanam | ' amādhyā vai māṣāḥ ' iti nindā | 'vāyurvai kṣepiṣṭhā devatā' iti praśaṃsā | ' tadvyacikitsajjuhavāni , mā hauṣam ' iti saṃśayaḥ | ' yajamānena saṃmitaudumbarī bhavati ' iti vidhiḥ | ' bhāṣāneva mahyaṃ pacata ' iti parakṛtiḥ | ' purā brāhmaṇā abhaiṣuḥ ' iti purākalpaḥ | ' yāvato 'ścānpratigṛhṇīyāt, tāvato vāruṇāṃścatuṣkapālannirvapet ' iti viśeṣāvadhāraṇakalpanā | evamanyadapyudāhāryam | na ca ' hetvādīnāmanyatamaṃ brāhmaṇam'iti lakṣaṇam | mantreṣvapi hetvādisadbhāvāt | tathā hi - ' indavovāmuśanti hi ' iti hetuḥ | ' udāniṣurmahīrīti tasmādudakamucyate ' iti nirvacanam | 'moghamannaṃ vindate apracetāḥ ' iti nindā | ' agnirmūrdhā divaḥ kakutpatiḥ ' iti praśaṃsā | ' adhaḥ svidāsīdupari svidāsīt ' iti saṃśayaḥ | ' kapiñjalānālabheta ' iti vidhiḥ | ' sahastramaṃyutaṃ dadat ' iti parakṛtiḥ | ' yajñena yajñamayajanta devāḥ ' iti purākalpaḥ | ' itikaraṇabahulaṃ brāhmaṇam ' iti cet | na | ' ityadadā ityayajathā ityapaca iti brāhmaṇo gāyet ' ityasminbrahmaṇena gātavye mantre ativyāpteḥ | ' ityāhetyanena vākyenopanibaddhaṃ brāhmaṇam ' iti cet | na | ' rājā cidyaṃ bhagaṃ bhakṣītyāha ' ' yo vā rakṣāḥ śucirasmītyāha ' ityanayormantrayorativyāpteḥ | ' ākhyāyikārūpaṃ brāhmaṇam ' iti cet | na | yamayamīsaṃvādasūktādāvativyāpteḥ | tasmāt - ' nāsti brāhmaṇasya lakṣaṇam ' iti prāpte - brūmaḥ- ' mantrabrāhmaṇarūpau dvāveva vedabhāgau ' ityaṅgīkārānmantralakṣaṇasya pūrvamabhihitatvāt ' avaśiṣṭo vedabhāgo brāhmaṇam ' ityetallakṣaṇaṃ bhavati -- iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.