"अग्नये जुष्टं निर्वपामि"इत्यस्य सौर्ये चरौ ऽ सूर्याय जुष्टं निर्वपामि ऽ इत्येवं पदान्तरप्रक्षेप ऊहः । ऽ अदीक्षिष्टायं ब्राह्मणः ऽ इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति -"असौ देवदत्तो ऽमुष्य पुत्रो ऽमुष्य पौत्रो ऽमुष्य नप्तामुष्याः पुत्रो ऽमुष्याः पौत्रो ऽमुष्या नप्ता ऽ इति । ऽ आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः ऽ इति च । एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति । कुतः । मन्त्रेण सहैकवाक्यत्वादिति चेत् । मैवम् । याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् । न ह्यध्येतार ऊहादीन्मन्त्रकाण्डे ऽवीयते । तस्मात् - नास्ति मन्त्रत्वम्
"agnaye juṣṭaṃ nirvapāmi"ityasya saurye carau ' sūryāya juṣṭaṃ nirvapāmi ' ityevaṃ padāntaraprakṣepa ūhaḥ | ' adīkṣiṣṭāyaṃ brāhmaṇaḥ ' ityasya mantrasya śeṣatvena prayogakāle brāhmaṇanāmadheyaviśeṣaṃ tadīyapravaraṃ caivaṃ paṭhanti -"asau devadatto 'muṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā naptā ' iti | ' āṅgirasabārhaspatyabhāradvājagotraḥ ' iti ca | eteṣāmūhapravaranāmadheyānāṃ mantratvamasti | kutaḥ | mantreṇa sahaikavākyatvāditi cet | maivam | yājñikaprasiddhirūpasya mantralakṣaṇasyaiteṣvabhāvāt | na hyadhyetāra ūhādīnmantrakāṇḍe 'vīyate | tasmāt - nāsti mantratvam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.