------------------ दर्शपूर्णमासप्रकरणे श्रूयते - ऽहस्ताववनेनिक्ते, ऽ ऽउलपराजिं स्तृणातिऽ इति । वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः । तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् । मैवम् । अवनेजनं हस्तसंस्कारः । ऽसंस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौऽ इत्येतादृशं सामर्थ्यो लिङ्गम् । प्रकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः । अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः । स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- ऽमुष्टी करोतिऽ ऽवाचं यच्छतिऽ इति । तदनन्तरमेवेदं श्रुतम् - ऽदीक्षितमावेदयतिऽ इति । आवेदनप्रकारश्चैवं श्रुतः- ऽअदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहऽ इति । अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् । तेन क्रमो बाध्यते
------------------ darśapūrṇamāsaprakaraṇe śrūyate - 'hastāvavanenikte, ' 'ulaparājiṃ stṛṇāti' iti | vedyāmāstarituṃ saṃpāditastṛṇastamba ulaparājiḥ | tatra - hastarśuddhadarbhāstaraṇavākyayornairantaryeṇa paṭhitatvātkramapramāṇena hastarśuddharāstaraṇamātrasyāṅgam - iti cet | maivam | avanejanaṃ hastasaṃskāraḥ | 'saṃskṛtau ca hastau sarvānuṣṭhānayogyau' ityetādṛśaṃ sāmarthyo liṅgam | prakaraṇaṃ ca darśapūrṇamāsayoḥ sphuṭam | ataḥ prabalābhyāṃ liṅgaprakaraṇābhyāṃ kramabādhātsarvaśeṣo hastarśuddhaḥ | ayaṃ nyāyo vāgyame 'pi draṣṭavyaḥ | sa ca vāgyamo jyotiṣṭomaprakaraṇe śrutaḥ- 'muṣṭī karoti' 'vācaṃ yacchati' iti | tadanantaramevedaṃ śrutam - 'dīkṣitamāvedayati' iti | āvedanaprakāraścaivaṃ śrutaḥ- 'adīkṣiṣṭāyaṃ brāhmaṇa iti trirupāṃśvāha devebhya evainaṃ prāha, triruccairubhayebhya evainaṃ devamanuṣyebhyaḥ prāha' iti | atra muṣṭīkaraṇavāṅniyamābhyāṃ hastajihvāgatacāpale nivārite sati manasa ekāgrasya sarvakarmastu yogyatvaṃ liṅgam | tena kramo bādhyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.