स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः । एतेषु त्रिष्वेव शेषत्वम् । स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म । न हि फलादीनां त्रयाणां शेषत्वमस्ति । उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् । पारार्थ्ये लक्षणमभिप्रेत्य ऽफलादयो ऽपि शेषाःऽ इति जैमिनेर्मतम् । तथा च त्रीणि सूत्राणि पठ्यन्ते- ऽकर्माण्यपि जैमिनिः फलार्थत्वात्ऽ ऽफलं च पुरुषार्थत्वात्ऽ ऽपुरुषश्च कर्मार्थत्वात्ऽ इति । तत्रोपकारित्वमतिव्याप्तम् । प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् । तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः
sphyakapālādikaṃ dravyam, arūṇimādiko guṇaḥ, avaghātaprokṣaṇādikaḥ saṃskāraḥ | eteṣu triṣveva śeṣatvam | svargaḥ phalam, tatkāmī puruṣaḥ, darśapūrṇamāsau karma | na hi phalādīnāṃ trayāṇāṃ śeṣatvamasti | upakāritvasya śeṣatvalakṣaṇasya phalādiṣvabhāvāt - iti bādarermatam | pārārthye lakṣaṇamabhipretya 'phalādayo 'pi śeṣāḥ' iti jaiminermatam | tathā ca trīṇi sūtrāṇi paṭhyante- 'karmāṇyapi jaiminiḥ phalārthatvāt' 'phalaṃ ca puruṣārthatvāt' 'puruṣaśca karmārthatvāt' iti | tatropakāritvamativyāptam | pradhānabhūte 'pi svāmini garbhadāsopakāritvadarśanāt | tasmājjaiminimatameva mukhyaḥ siddhāntaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.