------------------ काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- ऽऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुःऽ इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्यर्थः । ऽइद्राग्नी रोचनऽ - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः । तत्र ऽइदं काम्ययाज्यानुवाक्याकाण्डम्ऽ इति याज्ञिकानां समाख्ययो ऽवगम्यते । तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, - ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते । उपजीव्यत्वात । इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते । विशेषतस्तु ऽअस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमःऽ इति क्रमादवगम्यते । ननु - ऽऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रःऽ इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् । न । लिङ्गसाधारण्ये क्रमापेक्षणात् । "ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्"इति द्वितीयेष्टिरपि । तत्रैन्द्राग्नी पठितौ । मन्त्रकाण्डे ऽपि"इन्द्राग्नी नवतिम्"इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- ऽयं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्ऽ इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- ऽअयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मारयन्संचरेत्ऽ इति । तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । ऽइदं वामास्ये हविः- ऽ - इत्येकं युगलम् । ऽअस्मे इन्द्राबृहस्पतीऽ - इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते
------------------ kāmyeṣṭayastatkāṇḍe krameṇā'mnātāḥ- 'aindrāgnamekādaśakapālaṃ nirvapet, yasya sajātā vīyuḥ' ityādinā | sajātā jñātayaḥ | vīyurvigatā vipratipannā ityarthaḥ | 'idrāgnī rocana' - ityādike mantrakāṇḍe yājyānuvākyāḥ krameṇā'mnātāḥ | tatra 'idaṃ kāmyayājyānuvākyākāṇḍam' iti yājñikānāṃ samākhyayo 'vagamyate | tayoriṣṭikāṇḍamantrakāṇḍayoḥ prathamāyāmiṣṭau prathamapaṭhite yājyānuvākye ityādivyavasthā krameṇa kriyate | mantragataṃ tvaindrāgnaliṅgaṃ kāmyāyāṃ nityāyāṃ caindrāgneṣṭau te yājyānuvākye viniyuṅkte | liṅgaṃ ca prabalamiti sarvatra tayorviniyogaḥ- iti prāpte, - brūmaḥ- nātra liṅgena kramasamākhye bādhituṃ śakyete | upajīvyatvāta | indrāgnidevatārūpamātraprakāśanaṃ liṅgam | na ca tāvanmātreṇa mantrakarmaṇoraṅgāṅgibhāvaḥ | tataḥ samākhyābalānmantrakāṇḍakarmakāṇḍayoḥ saṃbandhāvagatau sāmānyena mantrakarmaṇoḥ saṃbandho 'vagamyate | viśeṣatastu 'asminprathame karmaṇyayaṃ mantraḥ prathamaḥ' iti kramādavagamyate | nanu - 'aindrāgneṣṭāvaindrāgnamantraḥ, vaiśvānareṣṭau vaiśvānaramantraḥ' ityetādṛśī viśeṣo liṅgenaivāvagamyate- iti cet | na | liṅgasādhāraṇye kramāpekṣaṇāt | "aindrāgnamekādaśakapālaṃ nirvapedbhrātṛvyavān"iti dvitīyeṣṭirapi | tatraindrāgnī paṭhitau | mantrakāṇḍe 'pi"indrāgnī navatim"ityādikamaparamaindrāgnaṃ yājyānuvākyāyugalamāmnātam | na hi tatra kramamantareṇa nirṇetuṃ śakyam | na ca krameṇaiva tatsiddherliṅgamaprayojakamiti vācyam | kvacilliṅgasyaiva vyavasthāpakatvāt | aindrābārhaspatyeṣṭirakaivā'mnātā- 'yaṃ kāmayeta rājanyamanayoddho jāyeta vṛtrānghnaṃścaret-iti tasmā enamaindrābārhaspatyaṃ caruṃ nirvapet' iti | yaṃ rājaputraṃ jāyamānaṃ prati rājñaḥ purohitasya ca kāma evaṃ bhavati- 'ayaṃ mātṛgarbhe devakṛtavighnena kenāpyapratibaddho jāyatām | jātaśca śatrūnmārayansaṃcaret' iti | tadrājaputrārtheyamiṣṭiḥ | mantrakāṇḍe tadiṣṭikrame yājyāpuronuvākye indrābṛhaspatidevatāke dvividhe āmnāte | 'idaṃ vāmāsye haviḥ- ' - ityekaṃ yugalam | 'asme indrābṛhaspatī' - ityādikamaparam | tayoḥ prathamayugalasya krameṇa viniyoge 'pi dvitīyayugalaṃ liṅgenaiva viniyoktavyam | tasmāt- kramasamākhyāsahakṛtena kāmyeṣṭiṣvevaitā yājyāniyamyante
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.