Library·Madhava: Jaiminiyanyayamalavistara [MJaiNyC]·3·3.2

Madhava: Jaiminiyanyayamalavistara [MJaiNyC] 3.2

------------------ "बर्हिर्देवसदनं दामिऽ इति लवनप्रकाशको मन्त्र आम्नातः । तत्र - लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते । लवितव्यं च बर्हिर्द्विविधम् - मुख्यं गौणं च । मुख्यं - कुशकाशादिदशविधदर्भरूपम् । गौणं तु -तत्सदृशं तृणान्तरम् । तस्मिन्बर्हिःशब्दस्य माणवके ऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् । तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति - प्राप्ते - ब्रूमः- मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति । तस्मात् - मुख्यस्यैव लवने मन्त्रो नियम्यते

------------------ "barhirdevasadanaṃ dāmi' iti lavanaprakāśako mantra āmnātaḥ | tatra - lavanaprakāśanasāmarthyalakṣaṇena liṅgenāyaṃ mantro lavanakriyāyāṃ viniyujyate | lavitavyaṃ ca barhirdvividham - mukhyaṃ gauṇaṃ ca | mukhyaṃ - kuśakāśādidaśavidhadarbharūpam | gauṇaṃ tu -tatsadṛśaṃ tṛṇāntaram | tasminbarhiḥśabdasya māṇavake 'gniśabdavadguṇayogena pravṛttatvāt | tathā sati mukhyavadgauṇasyāpi śabdārthatvena darbhasya tṛṇāntarasya ca lavane mantraviniyogaḥ- iti - prāpte - brūmaḥ- mukhyasya śīghrapratītatvena mukhye mantraṃ viniyujya caritārtha liṅgaṃ vilambapratītatayā gauṇapratīkṣāṃ na karoti | tasmāt - mukhyasyaiva lavane mantro niyamyate

Sanskrit only: no published translation is held for this verse.

------------------ अग्निचयने - ऽनिवेशनः संगमनःऽ- इत्यादिका काचिदैन्द्री समाम्नाता । तस्या उत्तरार्धे ऽइन्द्रो न तस्थौऽ इति पठ्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते - ऽनिवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठतेऽ इति । एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोर्ऽथे प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः । तत्रेन्द्रशब्दस्य रूढत्वात् । गौणस्त्विन्द्रो गार्हपत्यः । तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् । तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते, ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वे ऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति । ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् ऽऐन्द्र्याऽ इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते

------------------ agnicayane - 'niveśanaḥ saṃgamanaḥ'- ityādikā kācidaindrī samāmnātā | tasyā uttarārdhe 'indro na tasthau' iti paṭhyamānatvāt | tanmantraviṣayaṃ brāhmaṇaṃ caivamāmnāyate - 'niveśanaḥ saṃgamano vasūnāmityaindyā gārhapatyamupatiṣṭhate' iti | etena brāhmaṇena gārhapatyopasthāne viniyujyamāno mantror'the prakāśayanmukhyamindraṃ prakāśayati | mukhyaścendraḥ svargādhipatiḥ sahastrākṣaḥ | tatrendraśabdasya rūḍhatvāt | gauṇastvindro gārhapatyaḥ | tasyaiśvarye guṇayogana yajñasādhanatvena vā mukhyendrasadṛśatvāt | tatra pūrvānyāyena śīghrapratītyā mukhyendra mantreṇa prakāśite sati mantrabrāhmaṇayorvisaṃvādaṃ vārayituṃ gārhapatyaśabdena mukhyendro gārhapatyasamīpadeśo vā lakṣaṇīyaḥ- iti prāpte, brūmaḥ- indragāharpatyaśabdayoranyatasya gauṇatve 'vaśyaṃbhāvini sati brāhmaṇavākyasya vidhāyakatvādaprāptārthatvena vidhau lakṣaṇāyā anyāyyatvātprāptārthatvenānuvādako mantra evendraśabdena vahniṃ lakṣayiṣyati | tato gārhapatyaprakāśane samarthameva mantram 'aindryā' iti tṛtīyāśrutirgārhapatyopasthāne viniyuṅkte

Sanskrit only: no published translation is held for this verse.

------------------ दर्शपूर्णमासयोः श्रूयते - ऽहविष्कृदेहीति त्रिरवघ्नन्नाह्वयतिऽ इति । देवानामर्थे या हविः संपादयति सा हविष्कृत् । तामेनां संबोध्याध्वर्युः ऽएहिऽ इति ब्रूते । तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते - ऽहविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयति ऽ इति । तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः । अनेन वाक्येन मन्त्रो ऽवघाते विनियुज्यते । ननु -आह्वाने समर्थः, न त्ववघाते - इति चेत् । न । तस्यावघातलक्षकत्वात् । यथा पूर्वोदाष्ट्ताया मैच्यामुचीन्द्वशब्दो गौणः, तद्वत् ऽएहिऽ इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति । अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् ऽअवघ्नन्ऽ इति पदमनर्थकं स्यात् । प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत् । न । त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् । कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः । आह्वयतिपदं तु ऽएहिऽ इतिवदवघातपरतयोपचरणीयम्-इति प्राप्ते - ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति । कस्यांचिच्छालायां द्विःपाठात् । कस्यांचित्सकृत्पाठात् । अतो ऽसौ नित्यवद्विधीयते । न च ऽअवत्रन्ऽ इत्यस्य वैयर्थ्यम् । तस्य काललक्षकत्वात् । कालस्यापि विधौ वाक्यभेदः- इति चेत् । न । प्राप्तत्वात् । न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति । ततोर्ऽथप्राप्तः कालः । आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् । न हि ऽएहिऽ इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते । मन्त्रव्याख्यानं चोदहृतम् । तत्रायं वाक्यार्थः संपन्नः- ऽअवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यःऽ इति । अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते । ऽत्रिराह्वयति त्रिःसत्या हि देवाःऽ इति । एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् । लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते । न चैन्द्रीन्यायो ऽत्र प्रसरति । तृतीयाश्रुत्यभावात् । ऽबर्हिद्देवसदनं दामिऽ इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने । तस्मात् - आह्वानशेषो ऽयं मन्त्रः

------------------ darśapūrṇamāsayoḥ śrūyate - 'haviṣkṛdehīti triravaghnannāhvayati' iti | devānāmarthe yā haviḥ saṃpādayati sā haviṣkṛt | tāmenāṃ saṃbodhyādhvaryuḥ 'ehi' iti brūte | tathā cāyaṃ mantro brāhmaṇena vyākhyāyate - 'haviṣkṛdehītyāha yā eva devānāṃ haviṣkṛtastānāhvayati ' iti | tamimaṃ mantramuccāryādhvaryustrivāramavaghātaṃ kurvannāhvayatītyarthaḥ | anena vākyena mantro 'vaghāte viniyujyate | nanu -āhvāne samarthaḥ, na tvavaghāte - iti cet | na | tasyāvaghātalakṣakatvāt | yathā pūrvodāṣṭtāyā maicyāmucīndvaśabdo gauṇaḥ, tadvat 'ehi' iti padaṃ mantragatatvenāvaghāte gauṇaṃ bhavivyati | anyathā mantrabrāhmaṇayorāhvānaparatvācchrūyamāṇam 'avaghnan' iti padamanarthakaṃ syāt | prāptamavaghātamuddiśya mantrasya tritvasya ca vidhau vākyabhedaḥ- iti cet | na | tritvasya prāptatvenānuvādakatvāt | kasyāṃcicchākhāyāmayaṃ mantro mantrakāṇḍe trivāramabhyasyā'mnātaḥ | āhvayatipadaṃ tu 'ehi' itivadavaghātaparatayopacaraṇīyam-iti prāpte - brūmaḥ- trirabhyāsasya nityavatprāptiḥ pāṭhamātreṇa na sidhyati | kasyāṃcicchālāyāṃ dviḥpāṭhāt | kasyāṃcitsakṛtpāṭhāt | ato 'sau nityavadvidhīyate | na ca 'avatran' ityasya vaiyarthyam | tasya kālalakṣakatvāt | kālasyāpi vidhau vākyabhedaḥ- iti cet | na | prāptatvāt | na hyavaghāte sahāyahvānamanyasminkāle bhavati | tator'thaprāptaḥ kālaḥ | āhvānamapi mantrasāmarthyādeva prāptatvānna vidheyam | na hi 'ehi' iti mantrapāṭha āhvānamantareṇopapadyate | mantravyākhyānaṃ codahṛtam | tatrāyaṃ vākyārthaḥ saṃpannaḥ- 'avaghātakāle yadāhvānaṃ tasya trirabhyāsaḥ kartavyaḥ' iti | ata eva śākhāntare vispaṣṭamāhvānānuvādenābhyāso vidhīyate | 'trirāhvayati triḥsatyā hi devāḥ' iti | evaṃsati mantrasyāpi viniyoge vākyabhedaḥ syāt | liṅgena tvāhvāne viniyujyate, nāvaghāte | na caindrīnyāyo 'tra prasarati | tṛtīyāśrutyabhāvāt | 'barhiddevasadanaṃ dāmi' ityatroktena tu nyāyena mukhya evā'hvāne liṅgena mantraviniyogaḥ, na tvavavātarūpe gauṇāhvāne | tasmāt - āhvānaśeṣo 'yaṃ mantraḥ

Sanskrit only: no published translation is held for this verse.

------------------ ज्योतिष्टोमे समामनन्ति - ऽउत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहरऽ इति । तथा - ऽव्रतं कृणुतेति वाचं विसृजतिऽ इति । तत्र - आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रो ऽनेन वाक्येनोत्थानशेषतया विनियुज्यते । तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके ऽव्रतं कृणुतऽ इति मन्त्रो विनियुज्यते । न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ । तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् - इति प्राप्ते, ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च । अतो ऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते

------------------ jyotiṣṭome samāmananti - 'uttiṣṭhannanvāhāgnīdagnīnvihara' iti | tathā - 'vrataṃ kṛṇuteti vācaṃ visṛjati' iti | tatra - āgnīdhraṃ saṃbodhyāgniviharaṇādipraiṣarūpo mantro 'nena vākyenotthānaśeṣatayā viniyujyate | tathā- muṣṭiṃ kṛtvā niyamitavāco dīkṣitasya vāgvimoke 'vrataṃ kṛṇuta' iti mantro viniyujyate | na cātra pūrvoktāvaghātaśabdavadutthānavimokaśabdau kālalakṣakau | tatkālayoravaghātakālavadarthaprāptyabhāvena vidheyatve sati lakṣaṇāyā anyāyyatvāt - iti prāpte, brūmaḥ- agniviharaṇapraiṣe payaḥpānarūpavratasaṃpādanapraiṣe cānvitāvetau mantrau, na tūtthāne vāgvimoke ca | ato 'samarthayorviniyogāsaṃbhavādagatyā lakṣaṇāmapyaṅgīkṛtya kālo vidhīyate

Sanskrit only: no published translation is held for this verse.

------------------ दर्शपूर्णमासयोराम्नायते - ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इति । ऽइदं द्यावापृथिवी भद्रमभूत्ऽ इत्यादिको मन्त्रः सूक्तवाकः । तस्मिन्मन्त्रे ऽग्निं संबोध्य ऽत्वं सूक्तवागसिऽ इत्याम्नानात् । प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः । तत्र - ऽसूक्तवाकेनऽ इत्येतत्पदं कालं लक्षयति । होत्रा मन्त्रे ऽस्मिन्पठ्यमाने तत्पाठकाले ऽध्वर्युः प्रस्तरं प्रहेरत् । न त्वत्र प्रहरणे मन्त्रो ऽयं विनियोक्तुं शक्यः । पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् । ऽअग्निरिदं हविरजुषतावीवृधत महो ज्यायो ऽकृतऽ- इत्यादिकं मन्त्रे पठ्यते । ऽपुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्ऽ इति तस्यार्थः । न चासौ प्रस्तरप्रहरणे ऽन्वेतुं शक्यः - इति प्राप्ते, - ब्रूमः- ऽसूक्तवाकेनऽ इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते । न चात्यन्तमन्वयाभावः । मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति । प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः । अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते । ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः । यजिधातोरश्रवणात् । तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः- इति चेत् । मैवम् । देवतानां सद्भावात् । अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते । यदि प्रकरणे ऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोर्ऽथो मन्त्रस्य लभ्येत । ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति । तस्मात् -- देवताद्वारास्त्येवान्वयः

------------------ darśapūrṇamāsayorāmnāyate - 'sūktavākena prastaraṃ praharati' iti | 'idaṃ dyāvāpṛthivī bhadramabhūt' ityādiko mantraḥ sūktavākaḥ | tasminmantre 'gniṃ saṃbodhya 'tvaṃ sūktavāgasi' ityāmnānāt | prastaro darbhamuṣṭiḥ, tasya praharaṇamagnau prakṣepaḥ | tatra - 'sūktavākena' ityetatpadaṃ kālaṃ lakṣayati | hotrā mantre 'sminpaṭhyamāne tatpāṭhakāle 'dhvaryuḥ prastaraṃ praherat | na tvatra praharaṇe mantro 'yaṃ viniyoktuṃ śakyaḥ | pūrvoktapraiṣamantravadatrānvayābhāvāt | 'agniridaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛta'- ityādikaṃ mantre paṭhyate | 'puroḍāśasevayā vṛddho'gnistasminyajapāne tejobāhulyaṃ kṛtavān' iti tasyārthaḥ | na cāsau prastarapraharaṇe 'nvetuṃ śakyaḥ - iti prāpte, - brūmaḥ- 'sūktavākena' iti tṛtīyāśrutyā praharaṇe mantro viniyujyate | na cātyantamanvayābhāvaḥ | mantro hyayaṃ pūrvamiṣṭānagnyādidevānanusmārayati | prastapapraharaṇaṃ ceṣṭadevatāsaṃskāraḥ | ato devatādvārā mantrapraharaṇayoranvayānmantro viniyujyate | nanu- praharaṇaṃ nāma prakṣepamātram, na tu devatoddeśena prakṣepaḥ | yajidhātoraśravaṇāt | tathā sati devatānāmātrābhāvāttadvārāpi nānvayaḥ- iti cet | maivam | devatānāṃ sadbhāvāt | agnyādidevatāprakāśakasya sūktavākasya tṛtīyāśrutyā praharaṇāṅgatvaṃ bodhyate | yadi prakaraṇe 'gnyādayo devatā bhaveyuḥ, tadā tatprakāśanena dṛṣṭor'tho mantrasya labhyeta | tato devatākalpanena taduddeśapūrvakasya prakṣepasya yāgatvaṃ sidhyati | tasmāt -- devatādvārāstyevānvayaḥ

Sanskrit only: no published translation is held for this verse.

------------------ पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया । याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् । ततः सर्वो ऽपि प्रहरणाङ्गम् - इति चेत् । न । लिङ्गेन समाख्याया बाधितत्वात् । तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- ऽअग्नीषोमाविदं हविरजुषेताम्ऽ इति । भागान्तरे तु दर्शदेवताम्नानम्- ऽइन्द्राग्नी इदं हविरजुषेताम्ऽ इति, ऽइन्द्र इदं हविरजुवतऽ इति, ऽमहेन्द्र इदं हविरजुषतऽ इति च । इम्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः । तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते । सूक्तवाकशब्दश्च भागे यौगिकः । ऽसूक्तं वक्तिऽ इति तद्व्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः । अत एव ब्राह्मणेन व्याख्यातम्- ऽअग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाहऽ इति । अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः । तस्मादयं विभज्य विनियुज्यते

------------------ pūrvodāhṛte mantre sūktavākasamākhyā kṛtsnamantraviṣayā | yājñikaḥ kṛtsne tacchabdaprayogāt | tataḥ sarvo 'pi praharaṇāṅgam - iti cet | na | liṅgena samākhyāyā bādhitatvāt | tasminmatre pūrṇamāsadevatāmnānaṃ kasmiṃścidbhāge dṛśyate- 'agnīṣomāvidaṃ havirajuṣetām' iti | bhāgāntare tu darśadevatāmnānam- 'indrāgnī idaṃ havirajuṣetām' iti, 'indra idaṃ havirajuvata' iti, 'mahendra idaṃ havirajuṣata' iti ca | imdrāgnīndramahendrāḥ puruṣabhedena darśe vyavasthitāḥ | tathā sati mantraliṅgena tattadbhāgavattattatkāle vyavatiṣṭhate | sūktavākaśabdaśca bhāge yaugikaḥ | 'sūktaṃ vakti' iti tadvyutpatteḥ | yāgakāle tattanmantreṇa samyaguktaṃ devaṃ vaktītyarthaḥ | ata eva brāhmaṇena vyākhyātam- 'agniridaṃ havirajuvatetyāha, yo āyākṣma devatāstā arīradhāmeti bāvaitadāha' iti | arīradhāmā'rādhitāṃstuṣṭānakurmetyarthaḥ | tasmādayaṃ vibhajya viniyujyate

Sanskrit only: no published translation is held for this verse.

------------------ काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- ऽऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुःऽ इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्यर्थः । ऽइद्राग्नी रोचनऽ - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः । तत्र ऽइदं काम्ययाज्यानुवाक्याकाण्डम्ऽ इति याज्ञिकानां समाख्ययो ऽवगम्यते । तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, - ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते । उपजीव्यत्वात । इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते । विशेषतस्तु ऽअस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमःऽ इति क्रमादवगम्यते । ननु - ऽऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रःऽ इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् । न । लिङ्गसाधारण्ये क्रमापेक्षणात् । "ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्"इति द्वितीयेष्टिरपि । तत्रैन्द्राग्नी पठितौ । मन्त्रकाण्डे ऽपि"इन्द्राग्नी नवतिम्"इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- ऽयं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्ऽ इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- ऽअयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मारयन्संचरेत्ऽ इति । तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । ऽइदं वामास्ये हविः- ऽ - इत्येकं युगलम् । ऽअस्मे इन्द्राबृहस्पतीऽ - इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते

------------------ kāmyeṣṭayastatkāṇḍe krameṇā'mnātāḥ- 'aindrāgnamekādaśakapālaṃ nirvapet, yasya sajātā vīyuḥ' ityādinā | sajātā jñātayaḥ | vīyurvigatā vipratipannā ityarthaḥ | 'idrāgnī rocana' - ityādike mantrakāṇḍe yājyānuvākyāḥ krameṇā'mnātāḥ | tatra 'idaṃ kāmyayājyānuvākyākāṇḍam' iti yājñikānāṃ samākhyayo 'vagamyate | tayoriṣṭikāṇḍamantrakāṇḍayoḥ prathamāyāmiṣṭau prathamapaṭhite yājyānuvākye ityādivyavasthā krameṇa kriyate | mantragataṃ tvaindrāgnaliṅgaṃ kāmyāyāṃ nityāyāṃ caindrāgneṣṭau te yājyānuvākye viniyuṅkte | liṅgaṃ ca prabalamiti sarvatra tayorviniyogaḥ- iti prāpte, - brūmaḥ- nātra liṅgena kramasamākhye bādhituṃ śakyete | upajīvyatvāta | indrāgnidevatārūpamātraprakāśanaṃ liṅgam | na ca tāvanmātreṇa mantrakarmaṇoraṅgāṅgibhāvaḥ | tataḥ samākhyābalānmantrakāṇḍakarmakāṇḍayoḥ saṃbandhāvagatau sāmānyena mantrakarmaṇoḥ saṃbandho 'vagamyate | viśeṣatastu 'asminprathame karmaṇyayaṃ mantraḥ prathamaḥ' iti kramādavagamyate | nanu - 'aindrāgneṣṭāvaindrāgnamantraḥ, vaiśvānareṣṭau vaiśvānaramantraḥ' ityetādṛśī viśeṣo liṅgenaivāvagamyate- iti cet | na | liṅgasādhāraṇye kramāpekṣaṇāt | "aindrāgnamekādaśakapālaṃ nirvapedbhrātṛvyavān"iti dvitīyeṣṭirapi | tatraindrāgnī paṭhitau | mantrakāṇḍe 'pi"indrāgnī navatim"ityādikamaparamaindrāgnaṃ yājyānuvākyāyugalamāmnātam | na hi tatra kramamantareṇa nirṇetuṃ śakyam | na ca krameṇaiva tatsiddherliṅgamaprayojakamiti vācyam | kvacilliṅgasyaiva vyavasthāpakatvāt | aindrābārhaspatyeṣṭirakaivā'mnātā- 'yaṃ kāmayeta rājanyamanayoddho jāyeta vṛtrānghnaṃścaret-iti tasmā enamaindrābārhaspatyaṃ caruṃ nirvapet' iti | yaṃ rājaputraṃ jāyamānaṃ prati rājñaḥ purohitasya ca kāma evaṃ bhavati- 'ayaṃ mātṛgarbhe devakṛtavighnena kenāpyapratibaddho jāyatām | jātaśca śatrūnmārayansaṃcaret' iti | tadrājaputrārtheyamiṣṭiḥ | mantrakāṇḍe tadiṣṭikrame yājyāpuronuvākye indrābṛhaspatidevatāke dvividhe āmnāte | 'idaṃ vāmāsye haviḥ- ' - ityekaṃ yugalam | 'asme indrābṛhaspatī' - ityādikamaparam | tayoḥ prathamayugalasya krameṇa viniyoge 'pi dvitīyayugalaṃ liṅgenaiva viniyoktavyam | tasmāt- kramasamākhyāsahakṛtena kāmyeṣṭiṣvevaitā yājyāniyamyante

Sanskrit only: no published translation is held for this verse.

------------------ ज्योतिष्टोमे श्रूयते - ऽआग्नेय्याऽग्नीध्रमुपतिष्ठतेऽ इति । तत्र- आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् । ऽअग्निर्देवता यस्या ऋचः साऽग्नेयीऽ इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत् । मैवम् । क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् । ऽको ऽसौ व्यापारःऽ इति विशेषबुभुत्सायाम् ऽआग्नीध्रोपस्यानरूपो ऽयम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् । अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् । तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् । एवम् ऽऐन्द्या सदो वैष्णव्या हविर्धानम्ऽ इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम्

------------------ jyotiṣṭome śrūyate - 'āgneyyā'gnīdhramupatiṣṭhate' iti | tatra- āgnīdhanāmakasya maṇḍapasya yadupasthānaṃ tat, yayā ca kayācidṛcā dāśatayīgatayāgnisaṃbandhinyā kartavyam | 'agnirdevatā yasyā ṛcaḥ sā'gneyī' iti sādhāraṇoktāvṛgviśeṣasyāpratīteḥ- iti cet | maivam | kratuprakaraṇapaṭhitānāmāgneyīnāmṛcāṃ kratuprayuktavyāpārasādhanatvaṃ prakaraṇādevāvagatam | 'ko 'sau vyāpāraḥ' iti viśeṣabubhutsāyām 'āgnīdhropasyānarūpo 'yam, iti bodhayannayaṃ vidhirviśeṣamātre saṃkrāmatīti lāghavam | aprakṛtānāṃ kratūpayuktavyāpārasādhanatvaṃ tadvyāpāraviśeṣaṣcetyubhayamanena bodhyata iti gauravam | tasmātprakṛtābhirāgnepībhistadupasthānam | evam 'aindyā sado vaiṣṇavyā havirdhānam' ityatra sadohavirdhānanāmakayormaṇḍapayorupasthāne prakṛtānāmevaindrīṇāṃ vaṣṇaivīnāṃ ca prayoga iti draṣṭavyam

Sanskrit only: no published translation is held for this verse.

ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् । अत एवाऽम्नातम् - ऽअभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्तिऽ इति । तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्रच्च ऽभक्षेहिऽ- इत्याद्यनुवाके समाम्नातः । तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि । न चाविहितेषु मन्त्रो विनियोगमर्हति । समाख्या तु ऽभक्षानुवाकःऽ इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते, - ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र ऽभक्षेहिऽ- इत्यारभ्य ऽअश्विनोस्त्वा बाहुभ्यां साध्यासम्ऽ । इत्यन्तो ग्रहणं प्रकाशयति । ऽएहिऽ इत्याह्वानस्य बाहुभ्यां स्वीकरवाणिऽ इत्येतस्य च दर्शनात् । ऽनृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्ऽ इत्ययं भागो ऽवेक्षणं प्रकाशयति । ऽशोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीयऽ इत्यभिधानात् । ऽहिन्व मे गात्राऽ- इत्यादिः ऽमा मे ऽवाङ्नाभिमतिगाःऽऐत्यन्तः सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः- इति सेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् । न च - जरणे पुरुषव्यापाराभावः । सम्यगुपवेशनादेर्जरणार्थत्वात् । ऽमन्द्राभिभूतिःऽ - इत्यादिः ऽभक्षयामिऽ इत्यन्तो भक्षणं प्रकाशयति । तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः

jyotiṣṭome hutasya somasya śeṣabhakṣaṇaṃ vihitam | ata evā'mnātam - 'abhiṣutyā'havanīye hutvā pratyañcaḥ paretya sadasi somaṃ bhakṣayanti' iti | tasminmakṣaṇe grahaṇāvekṣaṇanigaraṇasamyagjaraṇarūpāścatvāro vyāpārāḥ santi | mantracca 'bhakṣehi'- ityādyanuvāke samāmnātaḥ | tatra bhakṣaṇaṃ yathā sākṣāccoditaṃ, na tathā grahaṇāvekṣaṇanigaraṇasamyagjaraṇāni coditāni | na cāvihiteṣu mantro viniyogamarhati | samākhyā tu 'bhakṣānuvākaḥ' ityevaṃrūpā bhakṣaṇamātraviṣayā | tasmātkṛtsnasyāpyanuvākasya bhakṣaṇa eva viniyogaḥ- iti prāpte, - brūmaḥ- avihitānyapi grahaṇādīnyarthākṣiptāni | tadvyatirekeṇa bhakṣaṇāsaṃbhavāt | atasteṣvanuvāko yathāliṅgaṃ vibhajya viniyoktavyaḥ | tatra 'bhakṣehi'- ityārabhya 'aśvinostvā bāhubhyāṃ sādhyāsam' | ityanto grahaṇaṃ prakāśayati | 'ehi' ityāhvānasya bāhubhyāṃ svīkaravāṇi' ityetasya ca darśanāt | 'nṛcakṣasaṃtvā deva soma sucakṣā avakhyeṣam' ityayaṃ bhāgo 'vekṣaṇaṃ prakāśayati | 'śobhanacakṣurahaṃ manuṣyeṣu makhyātaṃ tvāmavekṣiṣīya' ityabhidhānāt | 'hinva me gātrā'- ityādiḥ 'mā me 'vāṅnābhimatigāḥ'aityantaḥ samyagjaraṇaṃ prakāśayati | gātraprīṇanenādhobhāge nāmyatikramaṇaniṣedhena ca tadavagamāt | jaraṇaṃ nārthākṣiptam, tena vināpi bhakṣasiddheḥ- iti set | na | jaraṇaparyantasyaiva sārthakabhakṣaṇatvāt | na ca - jaraṇe puruṣavyāpārābhāvaḥ | samyagupaveśanāderjaraṇārthatvāt | 'mandrābhibhūtiḥ' - ityādiḥ 'bhakṣayāmi' ityanto bhakṣaṇaṃ prakāśayati | tasmāt- liṅgena samākhyāṃ bādhitvā viniyogaḥ kartavyaḥ

Sanskrit only: no published translation is held for this verse.

------------------ ऽमन्द्राभिभूतिःऽ - इत्यादिः ऽजुषाणा सोमस्य तृप्यतुऽ इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । ऽवसुमद्गणस्यऽ- इत्यादिः ऽभक्षयामिऽ इत्यन्तो भागो भक्षणप्रकाशकः । तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः- इति चेत् । मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते । किं तर्हि-भक्षणामुनिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागः । तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् । तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते

------------------ 'mandrābhibhūtiḥ' - ityādiḥ 'juṣāṇā somasya tṛpyatu' ityanto bhāgo hṛṣṭāyā arucimabhibhavantyāḥ somaṃ sevamānāyā jihvāyāstṛptiṃ prakāśayati | 'vasumadgaṇasya'- ityādiḥ 'bhakṣayāmi' ityanto bhāgo bhakṣaṇaprakāśakaḥ | tatra pūrvaballiṅgena vibhajya viniyogaḥ- iti cet | maivam | na khalu tṛptirbhakṣaṇādanyena vyāpāreṇa jāyate | kiṃ tarhi-bhakṣaṇāmuniṣpādinī hi sā | tathā sati kasminvyāpāre tṛptiprakāśako bhāgo viniyujyeta | tato liṅgena viniyogāsaṃbhavādbhakṣaṇavākyasya śeṣastṛptiprakāśakabhāgo bhaviṣyati | upayuktaśca tatrāyaṃ bhāgaḥ | tṛptisahitabhakṣaṇaprakāśanena puruṣotsāhajananāt | tasmānmandrādiḥ sarvo bhakṣaṇe viniyujyate

Sanskrit only: no published translation is held for this verse.

------------------ भक्षमन्त्रे कश्चिदंशः ऽइन्द्रपीतस्यऽ इत्येवंविधः श्रूयते । तत्र- ऽइन्द्रेण पूतस्य सोमस्य शेषं भक्षयामिऽ इत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः । ऽइन्द्रपीतस्यऽ इति पदस्यासमर्थत्वे ऽपि ऽमित्रावरुणपीतस्यऽ इत्येषमूहे सति सामर्थ्ये भविष्यति । ननु-आग्नेययागस्य प्रकृतित्वात्तद्वतस्य ऽअग्नये जुष्टम्ऽ । इति मन्त्रस्य विकृतौ सौर्ये चरौ ऽसूर्याय जुष्टम्ऽ इत्येवमूहः क्रियते । इह तु कर्मैक्यान्नोहः- इति चेत् । न । कर्मभेद इव भक्षभेदे ऽप्यूहितुं शक्यत्वात् । इति द्वितीयः पूर्वपक्षः । ऽइन्द्रपीतस्यऽ इत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरूषत्वे ऽसमासस्यऽ (पासू। ६।१।१२३) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् । आद्युदात्तं ह्येतत्पदमाम्नातम् । इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् । तथा सति ऽबहुव्रीहौ प्रकृत्या पूर्वपदम्ऽ[पासू। ६।२।१] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते । ऽइन्द्रेण पीतः सोमो यस्मिन्सवनेऽ इति विग्रहात्सवनपरत्वे सति ऽऐन्द्रभक्षण एवऽ इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः

------------------ bhakṣamantre kaścidaṃśaḥ 'indrapītasya' ityevaṃvidhaḥ śrūyate | tatra- 'indreṇa pūtasya somasya śeṣaṃ bhakṣayāmi' ityartho bhavati | tathā satyasya mantrasyendrapradānaśeṣabhakṣaṇa eva samarthatvāttatraivāyaṃ mantro viniyujyate, na tu maitrāvaruṇādiśeṣabhakṣaṇe | tasmādamantrakameva tadbhakṣaṇam, ityekaḥ pūrvapakṣaḥ | 'indrapītasya' iti padasyāsamarthatve 'pi 'mitrāvaruṇapītasya' ityeṣamūhe sati sāmarthye bhaviṣyati | nanu-āgneyayāgasya prakṛtitvāttadvatasya 'agnaye juṣṭam' | iti mantrasya vikṛtau saurye carau 'sūryāya juṣṭam' ityevamūhaḥ kriyate | iha tu karmaikyānnohaḥ- iti cet | na | karmabheda iva bhakṣabhede 'pyūhituṃ śakyatvāt | iti dvitīyaḥ pūrvapakṣaḥ | 'indrapītasya' ityatra bahuvrīhirdraṣṭavyaḥ | tatpurūṣatve 'samāsasya' (pā.sū. 6.1.123) iti sūtreṇāntodāttatvaprasaṅgāt | ādyudāttaṃ hyetatpadamāmnātam | indrapratipādikaṃ tu svata ādyudāttam | tathā sati 'bahuvrīhau prakṛtyā pūrvapadam'[pā.sū. 6.2.1] iti sūtreṇa pūrvapadaprakṛtisvaravidhānātsamastapadamapyādyudāttameva saṃpadyate | 'indreṇa pītaḥ somo yasminsavane' iti vigrahātsavanaparatve sati 'aindrabhakṣaṇa eva' iti niyantumasamarthatvātsarvabhakṣaṇeṣvanūhenaivāyaṃ mantraḥ prayoktavya iti rāddhāntaḥ

Sanskrit only: no published translation is held for this verse.

------------------ पूर्वाधिकरणे यो ऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः । तेषां च सन्ति चमसाः । पात्रविशेषस्थिताः सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति । तत्र मैत्रावरुणः ऽमित्रं वयं हवामहेऽ - इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी ऽइन्द्र त्वा वृषभं वयम्ऽ - इति मन्त्रेणेन्द्रं यजति । पोता ऽमरुतो यस्य हि क्षयेऽ- इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्षणे ऽमित्रावरुणपीतस्यऽ इति मन्त्र ऊहनीयः । तदानीम् ऽइन्द्रमित्रावरुणपीतस्यऽ इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् । पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत् । न । उन्नयनकाले ऽमित्रावरुणाद्यर्थो ऽयम्ऽ इति संकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते । तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते - ब्रूमः- मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति । तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रो ऽप्युपलक्षणीयः

------------------ pūrvādhikaraṇe yo 'yamūharūpo dvitīyaḥ pūrvapakṣaḥ, tatprasaṃṅgātkṛtvācintārūpeṇa nyāyapañcakenohaviṣayaścintyate | maitrāvaruṇabrāhmaṇācchaṃsipotrādaya ṛtvijo hotrakāḥ | teṣāṃ ca santi camasāḥ | pātraviśeṣasthitāḥ somarasāścamasāḥ | tairvaṣaṭkārānuvaṣaṭkārayorhotavyam | camasānāmaindratvāddhoturvaṣaṭkāre prathamamindro hutaḥ | anantaraṃ camasasthite hutaśeṣe punaḥ somāntaramabhyunnīya devatāntarebhyo hotrakā anuvaṣaṭkāre juhvati | tatra maitrāvaruṇaḥ 'mitraṃ vayaṃ havāmahe' - iti mantreṇa mitrāvaruṇau yajati | brāhmaṇācchaṃsī 'indra tvā vṛṣabhaṃ vayam' - iti mantreṇendraṃ yajati | potā 'maruto yasya hi kṣaye'- iti mantreṇa maruto yajati | evaṃ hutvā paścātsomo bhakṣyate | tasminbhakṣaṇe 'mitrāvaruṇapītasya' iti mantra ūhanīyaḥ | tadānīm 'indramitrāvaruṇapītasya' ityevaṃ mitrāvaruṇābhyāṃ saha nendra upalakṣaṇīyaḥ | kutaḥ | indraśeṣe punarabhyunnītasya tena saha mitrāvaruṇādyarthatve sati tasya śeṣasyendrasaṃbandharāhityāt | punarunnītasyaivānyārthatvam, na pūrvasya- iti cet | na | unnayanakāle 'mitrāvaruṇādyartho 'yam' iti saṃkalpābhāvāt | pradānakāle tu pūrvaśeṣeṇa sahaiva mitrāvaruṇādibhyaḥ pradīyate | tasmāt- indrasaṃbandharāhityānnendro lakṣaṇīyaḥ- iti prāpte - brūmaḥ- mā bhūtsaṃkalpaḥ, tathāpyunnayanaṃ kariṣyamāṇaṃ maitrāvaruṇādiyāgārthameva | na tu tasya pūrvānuṣṭhitendrayāgārścatvaṃ saṃbhavati | tasmādunnīto mitrāvaruṇādisaṃbaddhaśeṣa indrasaṃbaddha evetyubhayabhakṣaṇe mitrāvaruṇādibhiḥ sahendro 'pyupalakṣaṇīyaḥ

Sanskrit only: no published translation is held for this verse.

------------------ ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् - इति प्राप्ते, - ब्रूमः- ऽयदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णातिऽ इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धे ऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः । तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् । तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः

------------------ aindravāyavādayo dvidevatyāḥ | teṣāṃ śeṣa ādityasthālīmāgacchati, punarapi tasyāḥ sthālyā āgrayaṇasthālīmāgacchati | tasyā āgrayaṇasthālyāḥ pātnīvato gṛhyate | tasya pātnīvatasya bhakṣaṇa indravāyvādaya upalakṣaṇīyāḥ | pūrvādhikaraṇe yathā mitrāvaruṇādibhiḥ sahendra upalakṣitaḥ, tadvat - iti prāpte, - brūmaḥ- 'yadupāṃśu pātreṇa pātnīvatamāgrayaṇādgṛhṇāti' ityāgrayaṇapātrasyāpādānatvaśravaṇāttato niḥsṛtasomarasasya tatsaṃbandhe 'pete sati paścātpatnīvaddevatāyai grahaṇaṃ bhavati | tathā satyatyantabhinnasya pātnīvatasya pūrvadeveṣvākāṅkṣā nāsti | punarabhyannītastu soma aindraśeṣeṇa saṃsṛṣṭaḥ | tasya saṃsṛṣṭasya bhakṣaṇe maitrāvaruṇādīnāmivendrasyāpi saṃbandho nāpaitīti vaiṣamyam | tasmātpātnīvatabhakṣaṇa indravādhvādayo nopalakṣaṇīyāḥ

Sanskrit only: no published translation is held for this verse.

------------------ तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । ऽअग्नी ३ इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहाऽ इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्यऽत्वष्ट्रा देवेन सह पिबऽ इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः- ऽपत्नीवत्त्वष्टृपीतस्यऽ इत्युपलक्षणम्-इति प्राप्ते - ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः ऽसजूःऽ इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् । असंबोधितस्य त्वष्टुः ऽपिबऽ इत्यनेन शब्देन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् - "सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री" । इत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रः । विधिबलात्वष्टुर्देवत्वम् - इति चेत् । न । ऽपात्नीवतमाग्रयणाद्गृह्णाति"इत्यत्र त्वष्टुरप्रतीतेः । तस्मात् - अदेवत्वात्त्वष्टा नोपलक्षणीयः

------------------ tasminneva pātnīvatagrahe śeṣabhakṣaṇamantre patnīvatā saha tvaṣṭāpyupalakṣaṇīyaḥ | kutaḥ | tvaṣṭurapi taddevatvāt | tacca homamantrādavagatam | 'agnī 3 i patnībantsajūrdevena tvaṣṭrā somaṃ piba svāhā' ityasminmantre patnīvantamagniṃ plutāntena saṃbodhya'tvaṣṭrā devena saha piba' ityabhidhānātpātṛtvena patnīvata iva tvaṣṭustaddevatvam | tataḥ- 'patnīvattvaṣṭṛpītasya' ityupalakṣaṇam-iti prāpte - brūmaḥ- pānakāle sahāvasthānamātraṃ tvaṣṭuḥ 'sajūḥ' ityanena padena pratīyate, na tu pātṛtvam | asaṃbodhitasya tvaṣṭuḥ 'piba' ityanena śabdena sāmānādhikaraṇyābhāvāt | na ca pātṛsahabhāvamātreṇa pātṛtvam - "sahaiva daśabhiḥ putrairbhāraṃ vahati gardagrī" | ityatra putrāṇāṃ voḍhṛtvādarśanāt | āstāṃ mantraḥ | vidhibalātvaṣṭurdevatvam - iti cet | na | 'pātnīvatamāgrayaṇādgṛhṇāti"ityatra tvaṣṭurapratīteḥ | tasmāt - adevatvāttvaṣṭā nopalakṣaṇīyaḥ

Sanskrit only: no published translation is held for this verse.

------------------ तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य ऽपत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादयऽ इत्यभिधीयते - ऽपत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्वऽ इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् । अत्तस्ते ऽपि भक्षणे लक्षणीयाः- इति चेत् । न । यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् । त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम्

------------------ tasyaiva pātnīvatagrahasya yājyāyāmagniṃ saṃbodhya 'patnīvannāmadhāriṇastrayastriṃśaddevānmādaya' ityabhidhīyate - 'patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamāvaha mādayasva' iti | anuṣvadhamanupradānam | atra hūyamānena somarasena mādanīyatvātrayastriṃśatāṃ taddevatvam | attaste 'pi bhakṣaṇe lakṣaṇīyāḥ- iti cet | na | yajamānena mādanīyasyāgnereva taddevatvāt | trayastriṃśaddevāstu vahninā mādyanta iti na teṣāmatra devatvam | tasmānnopalakṣaṇam

Sanskrit only: no published translation is held for this verse.

------------------ "सोमस्याग्ने वीही । त्यनुयजति"इति श्रूयते । तत्र-अनुवषट्कारस्य मान्त्रवर्णिको ऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् । तस्मात्-अग्निर्लक्षणीयः- इति चेत् । न । प्रकृतावलक्षितत्वात् । ऐन्द्रश्वमसः प्रकृतिः । इतरे विकृतिरूपाः । तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च । तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् ऽइन्द्राय त्वा वसुमतेऽ इत्यादिग्रहणमन्त्रादवगम्यते । तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणे ऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः । एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् । तस्मात्- अग्निर्नोपलक्ष्यः

------------------ "somasyāgne vīhī | tyanuyajati"iti śrūyate | tatra-anuvaṣaṭkārasya māntravarṇiko 'gnirdevatā | na ca trayastriṃśatāmiva vahneradevatātvam | mantre vahniṃ saṃbodhya somapātṛtvāmidhānāt | tasmāt-agnirlakṣaṇīyaḥ- iti cet | na | prakṛtāvalakṣitatvāt | aindraśvamasaḥ prakṛtiḥ | itare vikṛtirūpāḥ | tathā hi-aindraśca somo gṛhyate mīyate ca | tenaindroṣveva somaḥ, anaindreṣu soma eva nāstīti sarve somadharmā aindreṣveva | anaindrā adharmakāḥ | dharmatākāṅkṣāścodakena sadharmakā iti vikṛtitvam | gṛhyamāṇasya mīyamānasya ca somasyaindratvam 'indrāya tvā vasumate' ityādigrahaṇamantrādavagamyate | tasya prakṛtibhūtasyendracamasasya bhakṣaṇe 'gniranuvaṣaṭkāradevo nopalakṣitaḥ | kutaḥ | grahaṇe taduddeśābhāvāt | indrastūddeśyatvādupalakṣitaḥ | evaṃ vikṛtāvapyuddeśyadevānāmevolakṣaṇaṃ nyāyyam | tasmāt- agnirnopalakṣyaḥ

Sanskrit only: no published translation is held for this verse.

उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे यो ऽयम् ऽअनैन्द्रेष्वमन्त्रकं भक्षणम्ऽ इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते - अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः- इति चेत् । न । अनैन्द्रणां विकृतित्वासंभवात् । ऽसोमेन यजेतऽ इत्युत्पत्तिश्रुतः सोमः कर्मणो ऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः । ऽइन्द्राय त्वा वसुमतेऽ इत्यादिमन्त्रो लिङ्गादैन्द्रविषयो ऽस्तु । नैतावता प्रकृतिविकृतिभावः सिध्यति । तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम्

uktābhyaḥ pañcamyaḥ kṛtvācintābhyaḥ pūrvasminnevādhikaraṇe yo 'yam 'anaindreṣvamantrakaṃ bhakṣaṇam' ityevaṃrūpaḥ prathamaḥ pūrvapakṣaḥ, tameva manasi nidhāya punaḥ kṛtvācintānāṃ trayamabhidhīyate - anaindrapūktarītyā vikṛtitvenohasaṃbhavādaratyūhaḥ- iti cet | na | anaindraṇāṃ vikṛtitvāsaṃbhavāt | 'somena yajeta' ityutpattiśrutaḥ somaḥ karmaṇo 'ṅgam, na tu pradānaviśeṣasya kasyacidaṅgam | sa eva somaḥ sarvapradāneṣvabhyasyata iti sarvāṇi samapradhānāni | ata aindrāṇāmanaindraṇāṃ ca prakṛtivikṛtibhāvāsaṃbhavānnāstyatrohaḥ | 'indrāya tvā vasumate' ityādimantro liṅgādaindraviṣayo 'stu | naitāvatā prakṛtivikṛtibhāvaḥ sidhyati | tasmāduktamantrasya liṅgādaindraviṣayatvādanaindreṣvamantrakaṃ bhakṣaṇam

Sanskrit only: no published translation is held for this verse.

------------------ यदेतत् ऽऐन्द्राग्नं गृह्णातिऽ इति विहितं शेषभक्षणम्, तत्र- इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवतिऽ इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् - इति चेत् । मैवम् । नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् । अथ- पतिशब्देन दानं विवक्ष्येत, तदानीम् ऽइन्द्राय दत्तः सोमःऽ इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य । तस्मात् ऽदानं मिश्रविषयम् । मन्त्रस्तु न मिश्रविषयःऽ इत्यमन्त्रकं भक्षणम्

------------------ yadetat 'aindrāgnaṃ gṛhṇāti' iti vihitaṃ śeṣabhakṣaṇam, tatra- indrāgnibhyāṃ pītaḥ soma indreṇāpi pīto bhavati' iti leṅgenaiva viniyogātsamantrakaṃ bhakṣaṇam - iti cet | maivam | navamādhyāye vakṣyamāṇadevatādhikaraṇanyāyenāśarīrasyendrasya pānāsaṃbhavāt | atha- patiśabdena dānaṃ vivakṣyeta, tadānīm 'indrāya dattaḥ somaḥ' iti mantrārtho bhavati | na cātra yajamāna indramuddiśya dadau, kiṃtvindrāgnī uddīśya | tasmāt 'dānaṃ miśraviṣayam | mantrastu na miśraviṣayaḥ' ityamantrakaṃ bhakṣaṇam

Sanskrit only: no published translation is held for this verse.

------------------ तस्मिन्नेव भक्षमन्त्रे ऽगायत्रच्छन्दस इन्द्रपीतस्यऽ इति श्रूयते । ऽगायत्रमेव छन्दो यस्यऽ इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् । मैवम् । बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् । एवकारं परित्यज्य ऽगायत्रं छन्दो यस्यऽ इति विग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र । तदेवं कृत्वाचिन्तात्रयं समाप्तम् । द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता

------------------ tasminneva bhakṣamantre 'gāyatracchandasa indrapītasya' iti śrūyate | 'gāyatrameva chando yasya' iti mantrapade samāsābhidhānādekacchandoyukta aindre some bhakṣamantraḥ- iti cet | maivam | bahucchandoyukte 'pi bahuvrīheḥ samānatvāt | evakāraṃ parityajya 'gāyatraṃ chando yasya' iti vigrahasaṃbhavāt | ekacchandaskastu somo na kvāpyasti | tasmānnānāchandaske soma aindrapradāna eva mantraḥ, nānyatra | tadevaṃ kṛtvācintātrayaṃ samāptam | dvividhakṛtvācintodghāṭanā tu prāgeva siddhāntinā darśitā

Sanskrit only: no published translation is held for this verse.