------------------ अनारभ्य द्वौ ग्रहौ श्रुतौ- ऽअंशुं गृह्णातिऽ इति, ऽअदाभ्यं गृह्णातिऽ इति च । तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते । कुतः । आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् - इति चेत् । मैवम् । ऽग्रहाः साद्यन्तेऽ इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् । न चैन्द्रवायवादयः प्रकरणिनः । ज्योतिष्ठोमो हि प्रकरणी । तस्मात्सन्ति तयोर्र्धमाः
------------------ anārabhya dvau grahau śrutau- 'aṃśuṃ gṛhṇāti' iti, 'adābhyaṃ gṛhṇāti' iti ca | tayoḥ sādanasaṃmārgādayo grahadharmā na vidyante | kutaḥ | ārabhyādhīteṣvaindravāyavādiṣveva prakaraṇena vyavasthāpitatvāt - iti cet | maivam | 'grahāḥ sādyante' ityādivākyena grahadharmatvāvagame tayorapi grahayoranivārya tvāt | na caindravāyavādayaḥ prakaraṇinaḥ | jyotiṣṭhomo hi prakaraṇī | tasmātsanti tayorrdhamāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.