------------------ अनारभ्य श्रूयते- ऽचित्रिणीरुपदधातिऽ इति । अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- ऽअखण्डामकृष्णां कुर्यात्ऽ इति । पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वे ऽपि विनियोजकवाक्यं प्रकरणाधीतम् । चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् । तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते । अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः । तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते, - ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापि ऽय एवं विद्वानग्निं चिनुतेऽ इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयो ऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते । अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः । तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति
------------------ anārabhya śrūyate- 'citriṇīrupadadhāti' iti | agniprakaraṇe ceṣṭakānāṃ dharmāḥ śrutāḥ- 'akhaṇḍāmakṛṣṇāṃ kuryāt' iti | pūrvatra- aṃśvadābhyayorutpattivākyasyānārabhyādhītatve 'pi viniyojakavākyaṃ prakaraṇādhītam | citriṇyādināmakānāṃ tviṣṭakāviśeṣāṇāṃ viniyojakaṃ vākyamapyanārabhyāghītam | tacca cityantare tāścitriṇīrviniyuṅkte | akhaṇḍatvādidharmāstu ṣaṇṇāṃ citīnāṃ madhye prathamacitāvāmnātāḥ | tasmāt- te citriṇyādiṣu nocitāḥ- iti prāpte, - brūmaḥ- yadyapyutpattiviniyojakavākyayoranyatarasyāpi prakaraṇapāṭho nāsti, tathāpi 'ya evaṃ vidvānagniṃ cinute' iti prakṛtaṃ yadetadagnyapūrve tatsaṃbandhitvenaivacitriṇyādayo 'pyaprakaraṇa paṭhitenāpi vākyena viniyujyante | akhaṇḍatvādayañcāgnisādhanabhūteṣṭakādharmāḥ, na tu prathamaciti dharmāḥ | tasmāt- agnisādhanabhūtāsu citriṇyādīṣṭakāsvapi te santi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.