इति चेत् पश्यसि - स्तुतिर् अनर्थिका, न च शब्देनावगम्यत इति। लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु। तद् यथा - इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति। क्रेतव्येत्य् अप्य् उक्ते गुणाभिधानात् प्रवर्तन्तेतरां क्रेतारः। बहुक्षीरेति च गुणाभिधानम् अवगम्यते। तद्वद् वेदे ऽपि भविष्यति। न पूर्वत्वात्
iti cet paśyasi - stutir anarthikā, na ca śabdenāvagamyata iti. laukikāni vākyāni bhavanto vidāṃ kurvantu. tad yathā - iyaṃ gauḥ kretavyā devadattīyā, eṣā hi bahukṣīrā, stryapatyā, anaṣṭaprajā ceti. kretavyety apy ukte guṇābhidhānāt pravartantetarāṃ kretāraḥ. bahukṣīreti ca guṇābhidhānam avagamyate. tadvad vede 'pi bhaviṣyati. na pūrvatvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.