Library·Sucaritamisra: Mimamsaslokavarttikakasika·13·13.12

Sucaritamisra: Mimamsaslokavarttikakasika 13.12

Mima 13.12

नन्व् अस्यां व्याप्तौ न किञ्चित् प्रमाणम् अस्तीत्य् उक्तम् अत आह -- भूयोदर्शनेति। कथं पुनर्भूयोदर्शनगम्या व्याप्तिः। किं हि तत्र प्रत्येकम् एव भूयांसि दर्शनानि प्रमाणम् आहोस्विद् दर्शनसङ्घातः पूर्वतनदर्शनाहितसंस्कारसचिवम् अन्तिमं प्रमान्तरं वा भूयोदर्शनप्रभवम्। तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिर् इत्य् अवसितम् एव। नो खल्व् अस्य सहसाग्निधूमाव् अग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिर् आविरस्ति। न चाननुभूतम् अविकल्पकेन सविकल्पकेनापि विषयीक्रियते। न चानेकदर्शनारब्धो दर्शनसमुदायः कश्चिद् अस्ति, तस्य दर्शनातिरेकेणाभावात्। निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात्। पुरस्तनानेकदर्शनाहितसंस्कारसहायम् अन्तिमं तु दर्शनं कतरत् प्रमाणम् इति चिन्तनीयम्। न तावत् प्रत्यक्षम्। तद् धि द्वेधा विभक्तम्। आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम्। न तावत् पूर्वं व्याप्तेर् अवधारणे समर्थम् अप्रतिसन्धानात्। व्याप्तेश् चायम् अनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात्। न च तदनपेक्षम् उत्तरम् आत्मानं लभते। यच् चेदं संस्काराणां साचिव्यम्, इदम् अपि न चतुरश्रम्। संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रम् आदधति। न पुनरर्थान्तरग्रहणाय कल्पन्ते। प्रत्यक्षे च व्याप्तिप्रमाणे कथम् अतद्विषयाणां व्याप्तिसिद्धिः। भवति हि यथायथं दृष्टानुमितश्रुतेभ्यः कर्मफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम्। न च तत्तत्कर्मनियमस् तस्य तस्य पश्वादेः फलस्यापरोक्षम् ईक्ष्यते अतीन्द्रियत्वात्। यच् चेदम् अध्वरे ३,१३ वितते वैदिकाद् अङ्गात् प्रधानाच् चापूर्वानुमानम्, तद् अपि न स्यात्। व्याप्त्यवधारणे प्रमाणाभावात्। मेघाभावाच् च वृष्ट्यभावानुमानम् इत्यादि दर्शयितव्यम्। अतो न तावत् प्रत्यक्षा व्याप्तिः। न चानुमानिकी। प्रमाणाभावाद् एव तदधीनात्मलाभस्य तस्यानुपपत्तेः। शब्दस् त्व् अनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति। उपमानम् अपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनस् सत्तां प्रमिणोति। अर्थापत्तिर् अप्य् अन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा। न च सहितावधारितयोर् असत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम। ननु कार्यता नोपपद्यते। कथं हि कार्यम् असति कारणे भवति। भूयोदर्शनसमधिगम्यं च कार्यत्वम् इति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः। कथम् इदानीम् अकार्यकारणभूतेषु व्याप्तिस् सेत्स्यति। भूयांसि दर्शनान्य् एवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिम् अन्तरेण न सम्भवति स्वरूपं, तावच् च कारणसामग्रीकं हि वस् सिद्धम्। स्वगोचरप्रकाशनम् अपि स्वत एव विषयस्यापि स्वप्रमाणपरिच्छिन्नस्य न किञ्चिदनुपपन्नं पश्यामः। न चासौ प्रमाणान्तरेण प्रतिहन्यते। यन्नोपपद्येत। न च भावस्वरूपा व्याप्तिर् अभावेन प्रमीयत इति साम्प्रतम्। तत्रासाव् अभावप्रमाणिका न स्याद् एव। स्यान् मतम् -- केयम् अन्या धूमस्याग्निना व्याप्तिर् अनग्निनिवृत्तेः। सा चाभावरूपत्वाद् अभावेन प्रमीयत इति युक्तम् एव। तन् न। वस्तुरूपत्वात्। वस्तुरूपो हि स्वभावो धूमादेः केनचिन् नियतः। इतरया व्यावर्तते खल्व् अयं शशविषाणाभावाद् अपीति शशविषाणेनापि नियम्येत। कथम् असता नियम्यत इति चेत्। को दोषः। व्यावृत्तिर् हि नियमः, सा चास्तीति किं शशविषाणस्य सत्त्वासत्त्वाभ्याम्। यदि मतं विपक्षव्यावृत्तिर् नियम इति। को यं विपक्षो नाम। यो हि येन नियम्यते तस्य तत्परिपन्थी विपक्षः। व्याप्यते च शशविषाणेन तदभावान् निवृत्तो धूम इत्य् अनग्निर् इव तदभावो ऽपि विपक्ष एव। अपि चाशेषविपक्षाणाम् उपलब्ध्ययोग्यत्वान् न तेभ्यो निवृत्तिर् अभावेन शक्यते ऽवगन्तुम्। योग्यप्रमाणाभावो ३,१४ ह्य् अभावे प्रमाणम् इति वक्ष्यते। अतो न किञ्चिद् व्याप्तौ प्रमाणम्। मानसम् इति चेत्। न। बहिरस्वातन्त्र्यात्। तत्रैतत् स्याद् -- यद्य् अप्य् बहिरिन्द्रियाण्य् अतीतानागतादिभिर् भावभेदैर् व्याप्तिं ग्रहीतुम् असमर्थानि, मनस् तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिद् इति तद्बलभाविना प्रत्यक्षेण व्याप्तिर् ग्रहीष्यत इति। तच् च नैवं, बहिरस्वातन्त्र्यान् मनसः। नो खल्व् अपि बहिर्विषयबोधे मनस्स्वतन्त्रम् इति वर्णितम्। तथा हि। मनसस् सार्धम् इत्य् अत्र। स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वस् सर्वदर्शी स्यात्। संस्कारतो व्यवस्थेति चेत्। न। स्मृतिहेतुत्वात्। तत्रैतत् स्यात् -- यद्य् अपि केवलम् अस्वतन्त्रं मनो बहिर्विषयावधारणे, तथापि पूर्वपूर्वानुभवजनितसंस्कारसनाथं बहिर् अपि वर्तीष्यते चक्षुराद्यनुगृहीतम् इव रूपादौ। अतो नाव्यवस्था। तच् च नैवम्। स्मृतिहेतुत्वात्। स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभावितास् संस्कारा नोत्सहन्ते मनसो बहिरवग्रहे ऽनुग्रहम् आधातुम्। स्मृतिविषयान्तराणाम् अपि ग्रहणप्रसङ्गात्। अस्ति हि तत्रापि स्मृतिहेतुस् संस्कारः। स चेद् ग्रहणे क्वचिन् मनसस् सहायी भवतीति किं न स्मृतिविषयान्तराण्य् अपि ग्राहयतीति यत् किञ्चिद् एतत्। यस् तु वदति -- साहित्यम् अग्निधूमयोस् सम्बन्धः। स च प्रथमसमधिगमसमय एव संविदितः। अनवच्छिन्नदेशकालश् चाग्निधूमयोस् सम्बन्धो भासते। न हीदानीम् अत्र वा तयोस् सम्बन्ध इति भवति मतिः। अपि तर्हि सन्निहितवर्तमानयोर् एवेदन्तया प्रतिभासमानयोर् देशकालौ सम्बन्धश् च तयोर् विशेषणम् इमौ सम्बद्धाव् इति। नेदानीम् अत्र वा सम्बन्ध इति। तद् एवम् अनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति। स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती। किम् इदानीम् अनङ्गभूतम् एव भूयोदर्शनम्। नानङ्गम्। अङ्गं त्व् औपाधिकाशङ्कानिराकरणेन। वह्निर् हि धूमेन संयुक्तस् संवेदितो ऽपि कदाचिद् विधूमो दृश्यते। तत्रार्द्रेन्धनादिर् उपाधिर् अनुप्रविशति। न तु स्वाभाविको ऽग्नेर् धूमेन संबन्ध इति निश्चीयते। तद्दर्शनाच् च धूमे ऽपि भवति शङ्का। कदाचिद् औपाधिकः पावकेनास्यापि संबन्ध इति। सा भूयोदर्शनेन निवर्त्यते। बहुशो ऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिद् उपाधिर् उपलभ्यते। प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर् नास्तीति निश्चीयते। तद् एवं ३,१५ धूममात्रानुबन्ध्यग्निर् इति सिद्धं भवति। ततश् चानौपाधिकस्य न व्यभिचाराशङ्केति। स वक्तव्यः किम् इदानीं साहित्यमात्रम् अनुमानाङ्गं तन्नियमो वा। यदि साहित्यमात्रं तत् तर्हि प्रथमदर्शन एव समधिगतम् इति पुनर्धूमदर्शिनो ऽविदितव्याप्तेर् अप्य् अनुमानं स्यात्। अथ तन्नियमः, तस्यैवेदं प्रमाणम् अनुस्रियते कुतस् सिध्यतीति। न हि प्रथमदर्शिनो ऽयम् अनेन नियत इति मतिर् आविर्भवन्ती दृश्यते। अनवच्छिन्नदेशकालतयावगतस् संबन्धः स्वाभाविको भवति, ततो नियम इति चेत्। स तर्हि तथाविधः प्रथमम् एवावगत इति भूयोर् दर्शनं नापेक्षेत। तथा दृष्टस्याप्य् अग्नेर् धूमसंबन्धो व्यभिचरति। तद्दर्शनाच् च धूमे ऽपि व्यभिचाराशङ्का जायते। तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्। यद्य् अनवच्छिन्नस्यापि देशतः कालतो वा कदाचित् कस्यचिद् वियोगो दृश्यते। कस् तर्हि इतरत्रापि समाश्वासः। नन्व् इयम् आशङ्का भूयोदर्शनेन निराक्रियत इत्य् उक्तम्। कथं निराक्रियते। यदा शतशो ऽपि धूमवान् अग्निर् अवगतो विधूमो दृश्यते। न चात्र प्रतिनियमः इयद्भिर् दर्शनैर् अव्यभिचारः सिध्यति इति। ननु धूमस्याप्य् अग्निसंबन्धे न कश्चिद् उपाधिर् उपलभ्यते अग्नेर् इव धूमसंबन्धे। अतः कथम् असौ सत्य् अपि धूमे न भविष्यति। न। देशादेर् एवोपाधित्वेन शङ्क्यमानत्वात्। अग्नौ धूमसंबन्धव्यभिचारम् उपलभ्याशङ्कते -- कदाचिद् धूमस्याप्य् अग्निसम्बन्धे देशकालाद्युपाधिः स्याद् इति। दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम्। वृश्चिकदंशनस्य च मरणकारणत्वम्। तद्देशान्तरे न भवति। तद्वत् धूमो ऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिद् इति शङ्कमाना न तस्य नियमम् अग्निनाध्यवस्यन्ति शतांशेनापि। विपक्षाद् व्यावृत्तिश् शङ्क्यमाना अनुमानोदयं प्रतिबध्नातीति कतरच् चेदं प्रमाणम्, अनौपाधिको ऽग्निर् धूममात्रानुबन्धीति। न तावत् प्रत्यक्षम्। साहित्यमात्रोपक्षीणत्वात्। नानुमानम्। तस्यासत्यां व्याप्तावसम्भवात्। व्याप्तिसिद्ध्यर्थं चापरापरानुमानकल्पनायाम् अनवस्थापातात्। प्रमाणान्तराणि निराकृतपूर्वाण्य् एव। अतो व्याख्येयम् अनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते। ३,१६ इदं तावत् प्रमाणाभाववादी वक्तव्यः। किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा। त्रेधा हि परीक्षकैर् अप्रामाण्यं विभक्तम्। प्रकारान्तरासम्भवात्। न तावदाद्यः पक्षः। संविद्व्यवहारविरोधात्। दृश्यते हि बहुलं धूमम् अग्नाव् उपलभमानो ऽयम् अनेन नियत इत्य् अवधारणपुरस्सरं ततो ऽग्निम् अनुमाय तदनुरूपं व्यवहरमाणः। तन्नासत्यां व्याप्तिसंवित्ताव् उपपद्येत। व्यवहारदर्शनाद् एव संशयविपर्ययौ निराकार्यौ। ताभ्याम् एवंविधव्यवहारासम्भवात्। अतो न तावद् अप्रामाण्यम्। प्रामाण्यं तु षोढा विभज्यते। तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तिसंवित्तौ व्यवस्थापयामः। यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य। न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितम् एव। ननु प्रथमदर्शने ऽनवगमात् प्रत्यक्षासम्भवो ऽप्य् उक्त एव। अत एव भूयोदर्शनावगम्यत्वम्। ननु तान्य् अपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोर् असम्भवात्। सत्यम्। न प्रत्येकं व्याप्तिर् अवगम्यते। न च दर्शनानि संहन्यन्ते। प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नतत्त्वम् एव परीक्षमाणस्य, शब्दतत्त्वम् इव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणतम् एव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तम् इव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य। न ह्य् एतत् सर्वम् आपातान् न प्रतिभातम् इति परस्ताद् अपि भासमानम् अन्यथा भवति। न च प्रमाणान्तरत्वम् आपादयति। ननूक्तं न स्मृतेर् अन्यत्र संस्कारा व्याप्रियन्त इति। केन वा संस्काराणां स्मृतेर् अन्यत्र व्यापार उपेयते। स्मारयन्त एव तु ते पूर्वपूर्वावगतम् अग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुम् अभिप्रवृत्तस्येन्द्रियस्य सहायीभवन्ति। आन्तरालिकस्मृतिव्यवहितम् अपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षम् इति वर्णितम्। इन्द्रियसम्बन्धफलापरोक्षाव् अभासानुसारात्। न च यत् सहसा न प्रतिभाति तत्पशाद् अपि प्रतिभासमानं प्रत्यक्षतां जहाति। यथोदाहृतेष्व् एव तावत् ब्राह्मणस्वम्। ननु न तावद् आपातजं प्रत्यक्षं व्याप्तौ प्रमाणम् इति भणितम्। तत्पूर्वकं च सविकल्पकम् इति कथं तस्यापि प्रामाण्यम्। अस्ति वा ब्राह्मणादिप्रत्यक्षे ३,१७ निर्विकल्पकावस्थायां वृद्धादाव् इव नरान्तरविविक्ताकारप्रतिभासः। येन परस्तात् सविकल्पकं प्रवर्तते। यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणो ऽयम् इति प्रत्यक्षं जायते, एवम् इहापि बहुशो ऽग्निधूमदर्शिनो ऽन्तिमे दर्शने निर्विकल्पकावृत्तधूमस्वलक्षणस्याग्निना नियतो ऽयम् इति धूमस्वभावगोचरं प्रत्यक्षम्, एतावद् एव सविकल्पकस्य निर्विकल्पकपूर्वत्वम्, यत् तज्जन्मपूर्विका प्रवृत्तिः, संज्ञादिस्मरणार्थं हि तत् प्रथमम् अर्थ्यते। तच् चेह व्यक्तिदर्शन एव पूर्वसंस्कारोद्बोधात् सिद्धम् इति नावश्यमनयोस् समानविषयता। अत एव तैलविविक्तविलीनाज्यबोधे तैलम् इदम् इति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पकप्रत्यक्षत्वसिद्धिः। न हि तत्रासङ्कीर्णा घृताकारा संविद् आसीत्। तैलम् इदम् इति विपर्ययात्। अतः परस्ताद् एव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतम् इदम् इति सविकल्पकं प्रत्यक्षम् आविरस्ति। एवम् इहापीति न दोषः। किं पुनर् इह सविकल्पकेन विषयीक्रियते। नियतो ऽयम् अनेनेति नियमः। अस्य हि बहुलं धूमम् अग्नाव् उपलभमानस्यानग्नौ च व्यतिरेकम् अन्ते भवति विमर्शः -- अपि स्याद् व्याप्तो ऽयम् अनेनेति। कथम् अपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृणदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतो ऽग्निम् एवानुधावत्यनग्नौ च न भवति। ततः परं च यथाग्निर् धूमभास्वरत्वादिपरित्यागेनापि (?दु।कु)कूलालातादौ वर्तमानोष्णत्वम् अजहत् तन्नियतो भवति। एवम् अग्निना धूम इत्य् अपरोक्षनिश्चयो जायते। यत् तु देशान्तरादौ व्यभिचार इति, तन् न तावद् दृष्टपूर्वं नापि श्रुतम् इति नाशङ्काम् अधिरोहति। एवम् अपि तु शङ्कमानस्य सर्वप्रमाणेष्व् अनाश्वासः क्वचिद् व्यभिचारदर्शनात्। यत् त्व् अवधारितो ऽपि स्वभावनियमो देशान्तरादाव् अन्यथा भवति वृश्चिकादेर् इति। तन् न। अवान्तरजातिभेदात्। न हि यद् येन नियतम् अवगतम् अबाधितं च तदन्यथा भवति। अवान्तरजातिभेदात् तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारः। ननु अनुमानम् एव किं नेष्यते। यद् औपाधिकं तद् व्यभिचरति। अग्निर् इव धूमम्। न च तथा धूमो ऽग्निम् इत्य् अनौपाधिक इति। भवत्व् एवम्। ३,१८ अव्यवस्था तूपस्थिता। अर्थापत्तिस् तर्हि भवतु। इदम् एव चाग्नौ दर्शनम् अनग्नौ चादर्शनम् अनुपपद्यमानम् अग्निना नियमं प्रतिपादयति। किम् अत्र नोपपद्यते। दर्शनं तावत् तत्र भवतीत्य् एतावतैवोपपन्नम्, न हि यद् एकत्र भवति तेनान्यत्र न भवितव्यम्। अन्यत्र भवतो ऽदर्शनम् अनुपपन्नम् इति चेत्। न। विप्रकृष्टानाम् अन्येषाम् अप्य् असन्निकर्षाद् अदर्शनोपपत्तेः। सन्निहितेष्व् अनग्निष्व् अदर्शनम् अनुपपन्नम् इति चेद् अभावाद् उपपत्तेः। तेषु ह्य् असौ नास्त्व् एव, कथम् उपल(?भ्यते।भ्येत)। तत्र सताप्य् अन्यत्रापि न भवितव्यम् एवेति किम् अत्र प्रमाणम्। अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणम् अपरोक्षं जायत इत्य् एवं समर्थनीयम्। नन्व् एतद् एव न विद्मः। कीदृशो ऽसौ वस्तुनः स्वभावो ऽवधार्यत इति। उक्तम् असकृद् धूमो ऽग्निना नियत इति। एतद् उक्तं भवति -- यदा यत्र धूमस् तदा तत्राग्निर् इति। ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धो ऽस्तु प्रत्यक्षः। अनागतादिसम्बन्धस् तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात्। न। सन्निहितरूपमात्रोपलम्भात्। रूपम् एव तु तादृशं धूमादीनां यद् एवम् उन्नीयते, स्थिरम् इव रूपं कुड्यादीनाम्। अस्ति हि तेषु विध्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः। सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपम् अप्रत्यक्षं भवति। अप्रत्यक्षे हि तस्मिन् नेदं रजतम् इति पूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात्। स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्बाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते। कालान्तरसम्बन्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालम् अपि व्याप्नोतीति भवति समानविषयताम् आसाद्य बाधः। ननु यद् वस्तुनो रूपं तत्परानपेक्षम् अवगम्यते, अग्नेर् इवोष्णत्वम्। न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपम् अवगम्यत इति कथं वस्तुरूपत्वम्। मैवम्। सम्बन्धो ह्य् असौ, कथम् अनवगते प्रतिसम्बन्धिन्य् अवसीयते। यथाह -- नियमो नाम सम्बन्धः स्वमतेनोच्यते ऽधुना । इति। अतो यद् एतद् अग्निना धूमस्य नियतत्वं भावात्मकम् इदं तत्प्रत्यक्षेणावगम्यत इति किम् अनुपपन्नम्। यथा चानग्निनिवृत्तिर् न नियमः तथा वर्णितम् एव। विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर् व्याख्याय परेभ्यः प्रतिपाद्यते। ३,१९ ननु नियम्यत्वम् अपि कर्मकारकत्वं, तच् च शक्तिरूपं कथं प्रत्यक्षम्। न। कारकान्तरप्रत्यक्षवद् उपपत्तेः। कारकान्तरशक्तयो ऽपि हि न प्रत्यक्षाः, अतो ऽसत्य् एव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षम् एषितव्यम्। एवम् इहापि नियम्यः प्रत्यक्षो भविष्यतीति किम् अनुपपन्नम्। अतस् सिद्धं तावत् प्रत्यक्षत्वम्। आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तम् इति शास्त्राद् अवगम्यते। नियतसाध्यत्वावगमात्। मेघाभाववृष्ट्यभावयोश् च स्वतन्त्राभावप्रतीत्यसम्भवाद् भावयोर् एव कथञ्चिद् व्याप्तिसंवेदनम्। मेघाभावो नाम नभस एवावस्थाविशेषः। जलधरनिरोधनिर्मुक्तस्य निर्वातस्तिमितमहार्णवप्रतीकाशम् आकाशस्य वपुस् संलक्ष्यते। वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावः। तच् च रूपम् उभयस्यापि प्रत्यक्षसमधिगम्यम् एवेति तद् एव तत्र व्याप्तिप्रमाणम्। एवम् अन्यत्रापि दर्शयितव्यम् इति। भवतु तावद् अन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेस् स्वरूपं प्रमाणं च। इदं तु चिन्तनीयम्। कस्य केन व्याप्तिर् इति। न ह्य् एकत्र विदिताव् अग्निधूमविशेषौ प्रदेशान्तरे दृश्येते। यत् तयोर् एकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर् भवेत्, अतो वाच्यं व्याप्तेर् अधिकरणम्। अत आह -- सामान्येति। सत्यं न विशेषयोर् व्याप्तिः, सामान्यात्मनोर् एव तु कस्यचिद् धर्मिणो धर्मयोस् तत्तद्भेदपरित्यागेन व्याप्तिर् अवगम्यते धूमाकृतिर् अग्न्याकृत्या नियतेति। अतो न कश्चिद् दोष इति। इदं तु प्रायिकम्, स्थायिनोस् तु विशेषयोर् अपि क्वचिद् व्याप्तिर् भवत्य् एवेत्य् आह -- क्वचिद् इति

nanv asyāṃ vyāptau na kiñcit pramāṇam astīty uktam ata āha -- bhūyodarśaneti. kathaṃ punarbhūyodarśanagamyā vyāptiḥ. kiṃ hi tatra pratyekam eva bhūyāṃsi darśanāni pramāṇam āhosvid darśanasaṅghātaḥ pūrvatanadarśanāhitasaṃskārasacivam antimaṃ pramāntaraṃ vā bhūyodarśanaprabhavam. tatra na tāvat pratyekasandarśanasamadhigamyā vyāptir ity avasitam eva. no khalv asya sahasāgnidhūmāv agniśaraṇe vilokayamānasyāgninā vyāpto dhūma iti matir āvirasti. na cānanubhūtam avikalpakena savikalpakenāpi viṣayīkriyate. na cānekadarśanārabdho darśanasamudāyaḥ kaścid asti, tasya darśanātirekeṇābhāvāt. niruddhānāgatapratyutpannānāṃ cāsaṃhanyamānatvāt. purastanānekadarśanāhitasaṃskārasahāyam antimaṃ tu darśanaṃ katarat pramāṇam iti cintanīyam. na tāvat pratyakṣam. tad dhi dvedhā vibhaktam. ālocanājñānaṃ tatprabhavaṃ ca vikalpasambhinnam. na tāvat pūrvaṃ vyāpter avadhāraṇe samartham apratisandhānāt. vyāpteś cāyam anena pratibaddha iti pratisandhānātmakatvāt. na ca tadanapekṣam uttaram ātmānaṃ labhate. yac cedaṃ saṃskārāṇāṃ sācivyam, idam api na caturaśram. saṃskārāḥ khalu yadvasturūpopalambhasambhāvitātmāno bhavanti, tatraiva smṛtimātram ādadhati. na punararthāntaragrahaṇāya kalpante. pratyakṣe ca vyāptipramāṇe katham atadviṣayāṇāṃ vyāptisiddhiḥ. bhavati hi yathāyathaṃ dṛṣṭānumitaśrutebhyaḥ karmaphalebhyaḥ puṃviśeṣeṣu vaidikakarmānumānam. na ca tattatkarmaniyamas tasya tasya paśvādeḥ phalasyāparokṣam īkṣyate atīndriyatvāt. yac cedam adhvare 3,13 vitate vaidikād aṅgāt pradhānāc cāpūrvānumānam, tad api na syāt. vyāptyavadhāraṇe pramāṇābhāvāt. meghābhāvāc ca vṛṣṭyabhāvānumānam ityādi darśayitavyam. ato na tāvat pratyakṣā vyāptiḥ. na cānumānikī. pramāṇābhāvād eva tadadhīnātmalābhasya tasyānupapatteḥ. śabdas tv anāgatotpādyabhāvaviṣayo na siddhavyāptikḷptaye prabhavati. upamānam api pramāṇāntaraprasiddhavastusādṛśyamātraviṣayaṃ na vastunas sattāṃ pramiṇoti. arthāpattir apy anyathānupapadyamānārthaviṣayā darśanaprabhavā. na ca sahitāvadhāritayor asatyāṃ vyāptau kiñcidanupapannaṃ nāma. nanu kāryatā nopapadyate. kathaṃ hi kāryam asati kāraṇe bhavati. bhūyodarśanasamadhigamyaṃ ca kāryatvam iti bhūyodarśanaprasūtakāryatvāvagamānyathānupapattipramāṇikā kāraṇavyāptisiddhiḥ. katham idānīm akāryakāraṇabhūteṣu vyāptis setsyati. bhūyāṃsi darśanāny evāsatyāṃ vyāptau nopapadyanta iti cet, kiṃ hi teṣāṃ vyāptim antareṇa na sambhavati svarūpaṃ, tāvac ca kāraṇasāmagrīkaṃ hi vas siddham. svagocaraprakāśanam api svata eva viṣayasyāpi svapramāṇaparicchinnasya na kiñcidanupapannaṃ paśyāmaḥ. na cāsau pramāṇāntareṇa pratihanyate. yannopapadyeta. na ca bhāvasvarūpā vyāptir abhāvena pramīyata iti sāmpratam. tatrāsāv abhāvapramāṇikā na syād eva. syān matam -- keyam anyā dhūmasyāgninā vyāptir anagninivṛtteḥ. sā cābhāvarūpatvād abhāvena pramīyata iti yuktam eva. tan na. vasturūpatvāt. vasturūpo hi svabhāvo dhūmādeḥ kenacin niyataḥ. itarayā vyāvartate khalv ayaṃ śaśaviṣāṇābhāvād apīti śaśaviṣāṇenāpi niyamyeta. katham asatā niyamyata iti cet. ko doṣaḥ. vyāvṛttir hi niyamaḥ, sā cāstīti kiṃ śaśaviṣāṇasya sattvāsattvābhyām. yadi mataṃ vipakṣavyāvṛttir niyama iti. ko yaṃ vipakṣo nāma. yo hi yena niyamyate tasya tatparipanthī vipakṣaḥ. vyāpyate ca śaśaviṣāṇena tadabhāvān nivṛtto dhūma ity anagnir iva tadabhāvo 'pi vipakṣa eva. api cāśeṣavipakṣāṇām upalabdhyayogyatvān na tebhyo nivṛttir abhāvena śakyate 'vagantum. yogyapramāṇābhāvo 3,14 hy abhāve pramāṇam iti vakṣyate. ato na kiñcid vyāptau pramāṇam. mānasam iti cet. na. bahirasvātantryāt. tatraitat syād -- yady apy bahirindriyāṇy atītānāgatādibhir bhāvabhedair vyāptiṃ grahītum asamarthāni, manas tu sakalātītādiviṣayaparicchedasādhāraṇaṃ pratibaddhasāmarthyaṃ kvacid iti tadbalabhāvinā pratyakṣeṇa vyāptir grahīṣyata iti. tac ca naivaṃ, bahirasvātantryān manasaḥ. no khalv api bahirviṣayabodhe manassvatantram iti varṇitam. tathā hi. manasas sārdham ity atra. svatantre hi bahiriṣyamāṇe manasi sarvas sarvadarśī syāt. saṃskārato vyavastheti cet. na. smṛtihetutvāt. tatraitat syāt -- yady api kevalam asvatantraṃ mano bahirviṣayāvadhāraṇe, tathāpi pūrvapūrvānubhavajanitasaṃskārasanāthaṃ bahir api vartīṣyate cakṣurādyanugṛhītam iva rūpādau. ato nāvyavasthā. tac ca naivam. smṛtihetutvāt. smṛtimātrahetavo hi pūrvānubhavaprabhāvitās saṃskārā notsahante manaso bahiravagrahe 'nugraham ādhātum. smṛtiviṣayāntarāṇām api grahaṇaprasaṅgāt. asti hi tatrāpi smṛtihetus saṃskāraḥ. sa ced grahaṇe kvacin manasas sahāyī bhavatīti kiṃ na smṛtiviṣayāntarāṇy api grāhayatīti yat kiñcid etat. yas tu vadati -- sāhityam agnidhūmayos sambandhaḥ. sa ca prathamasamadhigamasamaya eva saṃviditaḥ. anavacchinnadeśakālaś cāgnidhūmayos sambandho bhāsate. na hīdānīm atra vā tayos sambandha iti bhavati matiḥ. api tarhi sannihitavartamānayor evedantayā pratibhāsamānayor deśakālau sambandhaś ca tayor viśeṣaṇam imau sambaddhāv iti. nedānīm atra vā sambandha iti. tad evam anavacchinnarūpaḥ svābhāvika eva saṃbandhaḥ siddho bhavati. svābhāvikatve ca na vyabhicārāśaṅkopapattimatī. kim idānīm anaṅgabhūtam eva bhūyodarśanam. nānaṅgam. aṅgaṃ tv aupādhikāśaṅkānirākaraṇena. vahnir hi dhūmena saṃyuktas saṃvedito 'pi kadācid vidhūmo dṛśyate. tatrārdrendhanādir upādhir anupraviśati. na tu svābhāviko 'gner dhūmena saṃbandha iti niścīyate. taddarśanāc ca dhūme 'pi bhavati śaṅkā. kadācid aupādhikaḥ pāvakenāsyāpi saṃbandha iti. sā bhūyodarśanena nivartyate. bahuśo 'pi dṛśyamānasya dhūmasya nāgnisaṃbandhe kaścid upādhir upalabhyate. prayatnenāpi cānviṣṭo na dṛṣṭa upādhir nāstīti niścīyate. tad evaṃ 3,15 dhūmamātrānubandhyagnir iti siddhaṃ bhavati. tataś cānaupādhikasya na vyabhicārāśaṅketi. sa vaktavyaḥ kim idānīṃ sāhityamātram anumānāṅgaṃ tanniyamo vā. yadi sāhityamātraṃ tat tarhi prathamadarśana eva samadhigatam iti punardhūmadarśino 'viditavyāpter apy anumānaṃ syāt. atha tanniyamaḥ, tasyaivedaṃ pramāṇam anusriyate kutas sidhyatīti. na hi prathamadarśino 'yam anena niyata iti matir āvirbhavantī dṛśyate. anavacchinnadeśakālatayāvagatas saṃbandhaḥ svābhāviko bhavati, tato niyama iti cet. sa tarhi tathāvidhaḥ prathamam evāvagata iti bhūyor darśanaṃ nāpekṣeta. tathā dṛṣṭasyāpy agner dhūmasaṃbandho vyabhicarati. taddarśanāc ca dhūme 'pi vyabhicārāśaṅkā jāyate. tannirākaraṇāyāsakṛddarśanāpekṣeti cet. yady anavacchinnasyāpi deśataḥ kālato vā kadācit kasyacid viyogo dṛśyate. kas tarhi itaratrāpi samāśvāsaḥ. nanv iyam āśaṅkā bhūyodarśanena nirākriyata ity uktam. kathaṃ nirākriyate. yadā śataśo 'pi dhūmavān agnir avagato vidhūmo dṛśyate. na cātra pratiniyamaḥ iyadbhir darśanair avyabhicāraḥ sidhyati iti. nanu dhūmasyāpy agnisaṃbandhe na kaścid upādhir upalabhyate agner iva dhūmasaṃbandhe. ataḥ katham asau saty api dhūme na bhaviṣyati. na. deśāder evopādhitvena śaṅkyamānatvāt. agnau dhūmasaṃbandhavyabhicāram upalabhyāśaṅkate -- kadācid dhūmasyāpy agnisambandhe deśakālādyupādhiḥ syād iti. dṛṣṭaṃ hi kvacid deśe kharjūrāṇāṃ piṇḍakharjūraphalatvam. vṛścikadaṃśanasya ca maraṇakāraṇatvam. taddeśāntare na bhavati. tadvat dhūmo 'pi jātu jāyetāntareṇāpi hutāśanaṃ kvacid iti śaṅkamānā na tasya niyamam agninādhyavasyanti śatāṃśenāpi. vipakṣād vyāvṛttiś śaṅkyamānā anumānodayaṃ pratibadhnātīti katarac cedaṃ pramāṇam, anaupādhiko 'gnir dhūmamātrānubandhīti. na tāvat pratyakṣam. sāhityamātropakṣīṇatvāt. nānumānam. tasyāsatyāṃ vyāptāvasambhavāt. vyāptisiddhyarthaṃ cāparāparānumānakalpanāyām anavasthāpātāt. pramāṇāntarāṇi nirākṛtapūrvāṇy eva. ato vyākhyeyam anumānāṅgasambandhāvadhāraṇe pramāṇam, tad vyākhyāyate. 3,16 idaṃ tāvat pramāṇābhāvavādī vaktavyaḥ. kiṃ khalu vyāptigocaraṃ jñānaṃ na jāyata eva, sandigdhaṃ vā jāyate, viparyeti vā. tredhā hi parīkṣakair aprāmāṇyaṃ vibhaktam. prakārāntarāsambhavāt. na tāvadādyaḥ pakṣaḥ. saṃvidvyavahāravirodhāt. dṛśyate hi bahulaṃ dhūmam agnāv upalabhamāno 'yam anena niyata ity avadhāraṇapurassaraṃ tato 'gnim anumāya tadanurūpaṃ vyavaharamāṇaḥ. tannāsatyāṃ vyāptisaṃvittāv upapadyeta. vyavahāradarśanād eva saṃśayaviparyayau nirākāryau. tābhyām evaṃvidhavyavahārāsambhavāt. ato na tāvad aprāmāṇyam. prāmāṇyaṃ tu ṣoḍhā vibhajyate. tad yathāyogyaṃ kasyacit kasyāñcit vyāptisaṃvittau vyavasthāpayāmaḥ. yathaiva tāvad dhūmasyāgninā vyāptau pratyakṣasya. na hīha pramāṇāntarāṇi sambhavantīti varṇitam eva. nanu prathamadarśane 'navagamāt pratyakṣāsambhavo 'py ukta eva. ata eva bhūyodarśanāvagamyatvam. nanu tāny api vikalpya dūṣitāni pratyekasāhityayor asambhavāt. satyam. na pratyekaṃ vyāptir avagamyate. na ca darśanāni saṃhanyante. prācīnānekadarśanajanitasaṃskārasahāye carame darśane cetasi cakāsti dhūmasya vahniniyatasvabhāvatvaṃ, ratnatattvam eva parīkṣamāṇasya, śabdatattvam iva vyākaraṇasmṛtisaṃskṛtasya, brāhmaṇatam eva mātāpitṛsambandhasmaraṇasahakṛtasya, tailād viviktam iva vilīnājyaṃ rasagandhasahakṛtendriyasya. na hy etat sarvam āpātān na pratibhātam iti parastād api bhāsamānam anyathā bhavati. na ca pramāṇāntaratvam āpādayati. nanūktaṃ na smṛter anyatra saṃskārā vyāpriyanta iti. kena vā saṃskārāṇāṃ smṛter anyatra vyāpāra upeyate. smārayanta eva tu te pūrvapūrvāvagatam agnisambandhaṃ dhūmasya vyāptisaṃvidaṃ janayitum abhipravṛttasyendriyasya sahāyībhavanti. āntarālikasmṛtivyavahitam api cendriyasambandhānusāri pratyakṣam iti varṇitam. indriyasambandhaphalāparokṣāv abhāsānusārāt. na ca yat sahasā na pratibhāti tatpaśād api pratibhāsamānaṃ pratyakṣatāṃ jahāti. yathodāhṛteṣv eva tāvat brāhmaṇasvam. nanu na tāvad āpātajaṃ pratyakṣaṃ vyāptau pramāṇam iti bhaṇitam. tatpūrvakaṃ ca savikalpakam iti kathaṃ tasyāpi prāmāṇyam. asti vā brāhmaṇādipratyakṣe 3,17 nirvikalpakāvasthāyāṃ vṛddhādāv iva narāntaraviviktākārapratibhāsaḥ. yena parastāt savikalpakaṃ pravartate. yathā tu tatra piṇḍamātradarśinaḥ smṛtayonisambandhasya brāhmaṇo 'yam iti pratyakṣaṃ jāyate, evam ihāpi bahuśo 'gnidhūmadarśino 'ntime darśane nirvikalpakāvṛttadhūmasvalakṣaṇasyāgninā niyato 'yam iti dhūmasvabhāvagocaraṃ pratyakṣam, etāvad eva savikalpakasya nirvikalpakapūrvatvam, yat tajjanmapūrvikā pravṛttiḥ, saṃjñādismaraṇārthaṃ hi tat prathamam arthyate. tac ceha vyaktidarśana eva pūrvasaṃskārodbodhāt siddham iti nāvaśyamanayos samānaviṣayatā. ata eva tailaviviktavilīnājyabodhe tailam idam iti viparyasyato gandhasahakṛtendriyasya (sa)vikalpakapratyakṣatvasiddhiḥ. na hi tatrāsaṅkīrṇā ghṛtākārā saṃvid āsīt. tailam idam iti viparyayāt. ataḥ parastād eva sahakārivaśāt nirvikalpakopadarśitavyaktiviṣayaṃ ghṛtam idam iti savikalpakaṃ pratyakṣam āvirasti. evam ihāpīti na doṣaḥ. kiṃ punar iha savikalpakena viṣayīkriyate. niyato 'yam aneneti niyamaḥ. asya hi bahulaṃ dhūmam agnāv upalabhamānasyānagnau ca vyatirekam ante bhavati vimarśaḥ -- api syād vyāpto 'yam aneneti. katham aparathā jāṅgalādibhedabhinnānekadeśaparityāgena sāyamādibhedabhinnānekakālaparihāreṇa ca tṛṇadārugomayendhanādisamavadhānaviśeṣaṃ pratyanādṛto 'gnim evānudhāvatyanagnau ca na bhavati. tataḥ paraṃ ca yathāgnir dhūmabhāsvaratvādiparityāgenāpi (?du/ku)kūlālātādau vartamānoṣṇatvam ajahat tanniyato bhavati. evam agninā dhūma ity aparokṣaniścayo jāyate. yat tu deśāntarādau vyabhicāra iti, tan na tāvad dṛṣṭapūrvaṃ nāpi śrutam iti nāśaṅkām adhirohati. evam api tu śaṅkamānasya sarvapramāṇeṣv anāśvāsaḥ kvacid vyabhicāradarśanāt. yat tv avadhārito 'pi svabhāvaniyamo deśāntarādāv anyathā bhavati vṛścikāder iti. tan na. avāntarajātibhedāt. na hi yad yena niyatam avagatam abādhitaṃ ca tadanyathā bhavati. avāntarajātibhedāt tu śaktisadasadbhāvakṛtā kāryavyavastheti na kvacid vyabhicāraḥ. nanu anumānam eva kiṃ neṣyate. yad aupādhikaṃ tad vyabhicarati. agnir iva dhūmam. na ca tathā dhūmo 'gnim ity anaupādhika iti. bhavatv evam. 3,18 avyavasthā tūpasthitā. arthāpattis tarhi bhavatu. idam eva cāgnau darśanam anagnau cādarśanam anupapadyamānam agninā niyamaṃ pratipādayati. kim atra nopapadyate. darśanaṃ tāvat tatra bhavatīty etāvataivopapannam, na hi yad ekatra bhavati tenānyatra na bhavitavyam. anyatra bhavato 'darśanam anupapannam iti cet. na. viprakṛṣṭānām anyeṣām apy asannikarṣād adarśanopapatteḥ. sannihiteṣv anagniṣv adarśanam anupapannam iti ced abhāvād upapatteḥ. teṣu hy asau nāstv eva, katham upala(?bhyate/bhyeta). tatra satāpy anyatrāpi na bhavitavyam eveti kim atra pramāṇam. ato darśanādarśanasahakṛtendriyasyaiva vastusvabhāvāvadhāraṇam aparokṣaṃ jāyata ity evaṃ samarthanīyam. nanv etad eva na vidmaḥ. kīdṛśo 'sau vastunaḥ svabhāvo 'vadhāryata iti. uktam asakṛd dhūmo 'gninā niyata iti. etad uktaṃ bhavati -- yadā yatra dhūmas tadā tatrāgnir iti. nanu sannihitavartamānadeśakālamātrasambandho 'stu pratyakṣaḥ. anāgatādisambandhas tu katham, atiprasaṅgo hi tathā (sati) syāt. na. sannihitarūpamātropalambhāt. rūpam eva tu tādṛśaṃ dhūmādīnāṃ yad evam unnīyate, sthiram iva rūpaṃ kuḍyādīnām. asti hi teṣu vidhyudādivilakṣaṇakālāntarasthāyirūpaprakāśaḥ. sannihitāvāntarasambandho na pratyakṣa iti tadrūpam apratyakṣaṃ bhavati. apratyakṣe hi tasmin nedaṃ rajatam iti pūrvānubhūtarajatabādho na syād, bhinnaviṣayatvāt. svakāle hi pūrvavijñānena rajataṃ viṣayīkṛtaṃ na bhaviṣyadbādhakajñānakṣaṇa iti kathaṃ tatrāprasaktaṃ bādhyate. kālāntarasambandho 'pi tena rūpeṇa pūrvajñānāvadhāritaṃ bhaviṣyajjñānakālam api vyāpnotīti bhavati samānaviṣayatām āsādya bādhaḥ. nanu yad vastuno rūpaṃ tatparānapekṣam avagamyate, agner ivoṣṇatvam. na ca dhūmasyāgṛhītapratisambandhinā tadrūpam avagamyata iti kathaṃ vasturūpatvam. maivam. sambandho hy asau, katham anavagate pratisambandhiny avasīyate. yathāha -- niyamo nāma sambandhaḥ svamatenocyate 'dhunā | iti. ato yad etad agninā dhūmasya niyatatvaṃ bhāvātmakam idaṃ tatpratyakṣeṇāvagamyata iti kim anupapannam. yathā cānagninivṛttir na niyamaḥ tathā varṇitam eva. vipakṣavyāvṛttyā tu vidhirūpa eva niyamaḥ parīkṣakair vyākhyāya parebhyaḥ pratipādyate. 3,19 nanu niyamyatvam api karmakārakatvaṃ, tac ca śaktirūpaṃ kathaṃ pratyakṣam. na. kārakāntarapratyakṣavad upapatteḥ. kārakāntaraśaktayo 'pi hi na pratyakṣāḥ, ato 'saty eva śaktipratyakṣatve kārakaṃ pratyakṣam eṣitavyam. evam ihāpi niyamyaḥ pratyakṣo bhaviṣyatīti kim anupapannam. atas siddhaṃ tāvat pratyakṣatvam. āgamikeṣu cārtheṣu tasya tasya phalasya tena tena vedavedyena karmaṇā samanvayāt, karmāntarānvayasya cānavagamād anenaiva karmaṇedaṃ phalaṃ vyāptam iti śāstrād avagamyate. niyatasādhyatvāvagamāt. meghābhāvavṛṣṭyabhāvayoś ca svatantrābhāvapratītyasambhavād bhāvayor eva kathañcid vyāptisaṃvedanam. meghābhāvo nāma nabhasa evāvasthāviśeṣaḥ. jaladharanirodhanirmuktasya nirvātastimitamahārṇavapratīkāśam ākāśasya vapus saṃlakṣyate. vṛṣṭyabhāva iti ca pṛthivyā eva nibiḍakaṭhorapāṇḍurādibhāvaḥ. tac ca rūpam ubhayasyāpi pratyakṣasamadhigamyam eveti tad eva tatra vyāptipramāṇam. evam anyatrāpi darśayitavyam iti. bhavatu tāvad anyad vyākhyāsyāma iti samadhigataṃ tāvad vyāptes svarūpaṃ pramāṇaṃ ca. idaṃ tu cintanīyam. kasya kena vyāptir iti. na hy ekatra viditāv agnidhūmaviśeṣau pradeśāntare dṛśyete. yat tayor ekasyaikenānvayavyatirekasamadhigamyā vyāptir bhavet, ato vācyaṃ vyāpter adhikaraṇam. ata āha -- sāmānyeti. satyaṃ na viśeṣayor vyāptiḥ, sāmānyātmanor eva tu kasyacid dharmiṇo dharmayos tattadbhedaparityāgena vyāptir avagamyate dhūmākṛtir agnyākṛtyā niyateti. ato na kaścid doṣa iti. idaṃ tu prāyikam, sthāyinos tu viśeṣayor api kvacid vyāptir bhavaty evety āha -- kvacid iti

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Mima/13.12

Cite as: Sucaritamisra: Mimamsaslokavarttikakasika 13.12, in HREEM (hreem.cc/library/Mima/13.12), after GRETIL, Sucaritamisra: Mimamsaslokavarttikakasika Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/mimamsa/mimsvtku.htm — Sucaritamisra: Mimamsaslokavarttikakasika Based on the ed. by K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) Provided by Helmut Krasser, Wien { | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text