Library·Sucaritamisra: Mimamsaslokavarttikakasika·20

Sucaritamisra: Mimamsaslokavarttikakasika 20

असाधारणस्य निर्णये हेतुत्वं दर्शयति -- क्षित्येकदेशेति। गन्धविशेषदर्शिनो हि विदितव्याप्तेः क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति

asādhāraṇasya nirṇaye hetutvaṃ darśayati -- kṣityekadeśeti. gandhaviśeṣadarśino hi viditavyāpteḥ kṣityekadeśasiddhatve bhavatyānumāniko nirṇaya iti

Sanskrit only: no published translation is held for this verse.

द्वौ विरुद्धार्थसम्बन्धाव् एकत्रैकदेशिनि संशये हेतुर् इत्य् उक्तम्। तत्रोदाहरणम् आह -- यत्रेति। यत्र हि न साक्षात्कारिज्ञानविषयो वायुः अरूपत्वाद् इत्य् एकस् साधयति। अपरो ऽपि स्पर्शात् तद्विपर्ययम्। तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैर् अभिहितम्। तत्र तुल्यबलोभयहेतुसन्निपातात् संशयः। द्वयोर् अपि साधनयोः प्रसिद्धावयवत्वाविशेषात्। अरूपं ह्य् अरूपिसमवेतम् अप्रत्यक्षम् इति काणादा मन्यन्ते। तथा च वायुः। अतो न प्रत्यक्षः। कर्मस्वरूपम् अपि रूपैकार्थसमवायाच् चाक्षुषम् आचक्षते। एवं स्पर्शो ऽपि वायोः प्रसिद्ध एव। प्रसिद्धव्याप्तिकश् चापरोक्षत्वेन। अतस् तुल्यबलत्वम्। ततश् च संशयः, विरुद्धयोर् एकत्रोपानपातासम्भवात्, समुच्चयानुपपत्तेः, सिद्धे च वस्तुनि विकल्पासम्भवात् बाध्यबाधकम् आवस्यापि तुल्यकक्ष्यत्वात्। अतो ऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयः। तादात्म्यात्। तस्य बलाबलविशेषे त्व् अनुमानविरोधो वर्णित एव। यथा सर्वज्ञो ऽस्तीति बुद्धवचनं सम्यक् तदुक्तत्वाद् क्षणभङ्गादिवाक्यवद् इत्य् एकेनोक्ते ऽपरः प्रब्रवीति बुद्धो ऽसर्वज्ञ इति मद्वचनं सम्यक् मदुक्तत्वात् यथा ज्योतिर् उष्ण?आपो द्रवा इति। अत्र मदुक्तत्वम् उभयोर् अपि सिद्धम्। बुद्धोक्तता तु न नः प्रसिद्धा, अतो ऽप्रसिद्धाङ्गकत्वात् पूर्वं साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते। यत् तु विरुद्धाव्यभिचारीति द्वयोर् एकवचनान्तम् अभिधानं त???????न्यामहे। विरुद्धाव्यभिचारी संशये हेतुर् इति शाक्या वदन्ति। न??कस्य संशयहेतुत्वम् अन्यतरपरिच्छेदात्। न च समुदायाभिप्रायम् एकवचनम्। तस्य विरुद्धत्वाव्यभिचारिपदानास् पदत्वात्। स ह्य् अंशाभ्यां व्यभिचार्य् एव। द्वौ तु विरुद्धाव्यभिचारिणाव् इति वक्तव्यम्। न त्व् एकवचनेन। यदि प्रतिहेतु ३,६४ विरुद्धम् अर्थम् एकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्य् उच्यते। तद् अस्तु। न त्व् एकः संशये हेतुर् इत्य् उक्तम्। अत एव वार्तिककारेण द्वौ विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्नां संशयहेतुभावो दर्शितः। इहापि विरुद्धाव्यभिचारितेत्य् एतावद् एवोक्तम्। न तु विरुद्धाव्यभिचारी संशयहेतुर् इति। तद् अत्र योग्यतयानयोर् विरुद्धाव्यभिचारितेति व्याख्येयम्। द्वौ विरुद्धाव्यभिचारिणाव् इति यावद् इति

dvau viruddhārthasambandhāv ekatraikadeśini saṃśaye hetur ity uktam. tatrodāharaṇam āha -- yatreti. yatra hi na sākṣātkārijñānaviṣayo vāyuḥ arūpatvād ity ekas sādhayati. aparo 'pi sparśāt tadviparyayam. tatrāsau viruddhāvyabhicāritā bhavatīti śākyair abhihitam. tatra tulyabalobhayahetusannipātāt saṃśayaḥ. dvayor api sādhanayoḥ prasiddhāvayavatvāviśeṣāt. arūpaṃ hy arūpisamavetam apratyakṣam iti kāṇādā manyante. tathā ca vāyuḥ. ato na pratyakṣaḥ. karmasvarūpam api rūpaikārthasamavāyāc cākṣuṣam ācakṣate. evaṃ sparśo 'pi vāyoḥ prasiddha eva. prasiddhavyāptikaś cāparokṣatvena. atas tulyabalatvam. tataś ca saṃśayaḥ, viruddhayor ekatropānapātāsambhavāt, samuccayānupapatteḥ, siddhe ca vastuni vikalpāsambhavāt bādhyabādhakam āvasyāpi tulyakakṣyatvāt. ato 'navasthayobhayasmin pariplavamāne bhavati saṃśayaḥ. tādātmyāt. tasya balābalaviśeṣe tv anumānavirodho varṇita eva. yathā sarvajño 'stīti buddhavacanaṃ samyak taduktatvād kṣaṇabhaṅgādivākyavad ity ekenokte 'paraḥ prabravīti buddho 'sarvajña iti madvacanaṃ samyak maduktatvāt yathā jyotir uṣṇa?āpo dravā iti. atra maduktatvam ubhayor api siddham. buddhoktatā tu na naḥ prasiddhā, ato 'prasiddhāṅgakatvāt pūrvaṃ sādhanaṃ balavatā prasiddhāṅgakena bādhyate. yat tu viruddhāvyabhicārīti dvayor ekavacanāntam abhidhānaṃ ta???????nyāmahe. viruddhāvyabhicārī saṃśaye hetur iti śākyā vadanti. na??kasya saṃśayahetutvam anyataraparicchedāt. na ca samudāyābhiprāyam ekavacanam. tasya viruddhatvāvyabhicāripadānās padatvāt. sa hy aṃśābhyāṃ vyabhicāry eva. dvau tu viruddhāvyabhicāriṇāv iti vaktavyam. na tv ekavacanena. yadi pratihetu 3,64 viruddham artham ekaiko na vyabhicaratīti viruddhāvyabhicārīty ucyate. tad astu. na tv ekaḥ saṃśaye hetur ity uktam. ata eva vārtikakāreṇa dvau viruddhārthasambandhau saṃśayahetū iti dvivacanāntenaiva nāmnāṃ saṃśayahetubhāvo darśitaḥ. ihāpi viruddhāvyabhicāritety etāvad evoktam. na tu viruddhāvyabhicārī saṃśayahetur iti. tad atra yogyatayānayor viruddhāvyabhicāriteti vyākhyeyam. dvau viruddhāvyabhicāriṇāv iti yāvad iti

Sanskrit only: no published translation is held for this verse.

इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरम् एके वर्णयन्ति। अपरे पुनस् समुदायस्यांशाभ्यां साधारणपक्षनिक्षेपम्। अन्ये तु समस्तम् इदं मिलितम् उभयं नैकत्राप्य् अनुगतम् इत्य् अनन्वयम् असाधारणम् एवास्थिषत इत्य् आह -- केचिद् इति। अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता। यदाह -- साधारण्यान् न नैतस्य भेदः कश्चन विद्यते । अंशाभ्यां समुदायो हि साधारणपदे स्थितः ॥ इति। न च वाच्यं द्वयस्यानन्वयाद् असाधारण एवायम् इति। यदि ह्य् एकेन द्वयं प्रयुज्येत ततो भवेद् अप्य् एवं, प्रत्येकम् अन्वितौ दृष्टौ द्वाभ्यां प्रयुक्तौ नानन्विताव् इति शक्यते वक्तुम्। अपि चासाधारणत्वे संशयहेतुभावो नोपपद्येतं। तस्य निराकृतपूर्वत्वात्। अतस् साधारण एवायम् इति। वयं तु जात्यन्तरम् एव साधीयो मन्यामहे। यथा हि न द्वयम् एकेन प्रयुक्तम् इति नासाधारणत्वम्। एवं साधारणत्वम् अपि न स्याद् एव। किं खल्व् अत्र साधारणम्। एकैकस्यैकैकेन व्याप्तस्यैकैकेन प्रयोगात्, अंशतस् साधारणस्य च समुदायस्याप्रयोगात्। अत एव चात्र साधारणाद् भेदेन प्रतिहेतु विरुद्धयोस् संशयहेतुत्वम् उक्तम्। इतरथा तेनैव गतत्वान् न पृथगुपादीयेत। संशयजननप्रकारो ऽपि चात्र भिद्यत एव। साधारणो ह्य् उभयदृष्टस् तु प्रतीतिमादधानस् संशयहेतुर् इमौ त्व् एकैकश्येनोभयम् उपस्थापयन्तौ संशयहेतू इति वार्तिककारेणापि साधारणपदे स्थित इत्य् उक्तम्, न साधारण एवेति

imāṃ ca viruddhāvyabhicāritāṃ saṃśayahetuṃ sādhāraṇāsādhāraṇābhyāṃ jātyantaram eke varṇayanti. apare punas samudāyasyāṃśābhyāṃ sādhāraṇapakṣanikṣepam. anye tu samastam idaṃ militam ubhayaṃ naikatrāpy anugatam ity ananvayam asādhāraṇam evāsthiṣata ity āha -- kecid iti. atra ca pradeśāntare vārtikakṛtā sādhāraṇya evāsthā darśitā. yadāha -- sādhāraṇyān na naitasya bhedaḥ kaścana vidyate | aṃśābhyāṃ samudāyo hi sādhāraṇapade sthitaḥ || iti. na ca vācyaṃ dvayasyānanvayād asādhāraṇa evāyam iti. yadi hy ekena dvayaṃ prayujyeta tato bhaved apy evaṃ, pratyekam anvitau dṛṣṭau dvābhyāṃ prayuktau nānanvitāv iti śakyate vaktum. api cāsādhāraṇatve saṃśayahetubhāvo nopapadyetaṃ. tasya nirākṛtapūrvatvāt. atas sādhāraṇa evāyam iti. vayaṃ tu jātyantaram eva sādhīyo manyāmahe. yathā hi na dvayam ekena prayuktam iti nāsādhāraṇatvam. evaṃ sādhāraṇatvam api na syād eva. kiṃ khalv atra sādhāraṇam. ekaikasyaikaikena vyāptasyaikaikena prayogāt, aṃśatas sādhāraṇasya ca samudāyasyāprayogāt. ata eva cātra sādhāraṇād bhedena pratihetu viruddhayos saṃśayahetutvam uktam. itarathā tenaiva gatatvān na pṛthagupādīyeta. saṃśayajananaprakāro 'pi cātra bhidyata eva. sādhāraṇo hy ubhayadṛṣṭas tu pratītimādadhānas saṃśayahetur imau tv ekaikaśyenobhayam upasthāpayantau saṃśayahetū iti vārtikakāreṇāpi sādhāraṇapade sthita ity uktam, na sādhāraṇa eveti

Sanskrit only: no published translation is held for this verse.

३,६५ कथं पुनर् एवंजातीयके विषये निर्णयः, अत आह -- प्रतिज्ञेति निर्णयान्तेन। पक्षबाधोक्तैः प्रत्यक्षादिभिः प्रमाणैर् यस्य साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयः कार्यः। यथेहैव तावत् उदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षम् अनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते। न हि नस् त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद् वायुप्रत्यक्षं विशिष्यते। न हीहानधिष्ठानं स्पर्शमात्रम् अनुभूयते। अपि तु तदधिकरणं द्रव्यम् अपि। न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतस् संविद् विशिष्यते। अतो ऽक्षसम्बन्धफलानुसारात् प्रत्यक्षो वायुर् इति निश्चीयते। क्वचिच् चागमेन विषयापहारो भवति। यथा शुचि नरशिरःकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवद् इति पाशुपतेनोक्ते ऽन्यो ऽशुचीति साधयति, प्राण्युद्भूतत्वाद् उच्चारादिवद् इति। तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहाराद् उत्तरेणार्थनिर्णयो भवति। शुचीतरविवेके ह्य् आगम एव शरणम्। तस्मिन् परिपन्थिनि न शुचित्वानुमानम् आत्मानं लभते। स्मरन्ति हि -- नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलम् आविशेत् । इति। रुद्रो हि महाव्रतं चचार स एतच्छवशीर्षम् उपदधारेति त्व् अर्थवादमात्रं न शवशिरोधारणविधिः। अत्र च प्रत्यक्षादीन्य् एव यथास्वम् अर्थं साधयन्तीति साधनपदेनोच्यन्त इति। कथं पुनः प्रत्यक्षादीन्य् एव प्रतिज्ञाबाधनायोत्सहन्ते। तेष्व् अपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वाद् अत आह -- बाधवर्जनाद् इति। न तावत् तेषु बाधो दृश्यते, कदाचिद् बाधसम्भावना तु न तेषां प्रामाण्यम् उत्सारयतीति

3,65 kathaṃ punar evaṃjātīyake viṣaye nirṇayaḥ, ata āha -- pratijñeti nirṇayāntena. pakṣabādhoktaiḥ pratyakṣādibhiḥ pramāṇair yasya sādhanavākyāvayavapratijñā bādhyate tatparājayenetarasya nirṇayaḥ kāryaḥ. yathehaiva tāvat udāharaṇe tvagindriyavyāpāreṇa vāyāvaparokṣam anubhūyamāne tenaivānubhavena parokṣatāpakṣo bādhyate. na hi nas tvagindriyabhuvastoyapratyakṣād vāyupratyakṣaṃ viśiṣyate. na hīhānadhiṣṭhānaṃ sparśamātram anubhūyate. api tu tadadhikaraṇaṃ dravyam api. na hi prabalena marutābhihanyamānasya jalaṃ vā śliṣyatas saṃvid viśiṣyate. ato 'kṣasambandhaphalānusārāt pratyakṣo vāyur iti niścīyate. kvacic cāgamena viṣayāpahāro bhavati. yathā śuci naraśiraḥkapālaṃ, prāṇyaṅgatvāt, śaṅkhaśuktiśakalavad iti pāśupatenokte 'nyo 'śucīti sādhayati, prāṇyudbhūtatvād uccārādivad iti. tatra pūrvapratijñāyā āgamena viṣayāpahārād uttareṇārthanirṇayo bhavati. śucītaraviveke hy āgama eva śaraṇam. tasmin paripanthini na śucitvānumānam ātmānaṃ labhate. smaranti hi -- nāraṃ spṛṣṭvāsthi sasnehaṃ savāsā jalam āviśet | iti. rudro hi mahāvrataṃ cacāra sa etacchavaśīrṣam upadadhāreti tv arthavādamātraṃ na śavaśirodhāraṇavidhiḥ. atra ca pratyakṣādīny eva yathāsvam arthaṃ sādhayantīti sādhanapadenocyanta iti. kathaṃ punaḥ pratyakṣādīny eva pratijñābādhanāyotsahante. teṣv api sāmānyato darśanena bādhasya śaṅkyamānatvād ata āha -- bādhavarjanād iti. na tāvat teṣu bādho dṛśyate, kadācid bādhasambhāvanā tu na teṣāṃ prāmāṇyam utsārayatīti

Sanskrit only: no published translation is held for this verse.

अत्र भिक्षुणा पक्षधर्मस् तदंशेन व्याप्तो हेतुर् इत्य् एकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुर् इति दर्शितम्। अत एव विरुद्धाव्यभिचारिणोर् न हेतुत्वम् अनेकत्वात् तयोर् इति। न चैतत् घटते। न हि प्रतिहेतु ३,६६ विरुद्धयोर् अनेकत्वं संशयहेतुत्वे हेतुः, अपि तर्हि परस्परविरुद्धार्थोपप्लावकत्वम् एव। विरुद्धौ हि द्वाभ्यां द्वाव् अर्थाव् एकत्रोपप्लाविताव् इति तत्र संशेरते, न तु हेत्वनेकत्वात्। संशयहेत्वोर् अपि प्रत्येकम् अवगतयोर् उभयसमावेशाद् एव क्वचिन् निर्णयो दृष्टः। यथा ऊर्ध्वताकाकवत्त्वयोः। केवला ह्य् ऊर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति। काकनिलयनसहकृता तु सैव स्थाणुर् अयम् इति निश्चाययति। तद् अत्रैकस्यैव संशयहेतुत्वं द्वाभ्याम् एव तु निर्णय इत्य् अप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वम् एव संशयहेतुः। यथा खल्व् एक एव साधारणस् सपक्षविपक्षयोर् वर्तमानस् संशयहेतुर् भवति। एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्याम् उभयवृत्तिर् एव संशये कारणम् इति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तम् इत्य् आह -- क्वचिद् इति। ननु युक्तं तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वः। सत्यम्। यस् तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुः, ऊर्ध्वतासनाथा तु निर्णायिकेत्य् एतावद् एव विवक्षितम् इत्य् अदोष इति। अपि च अविरोधिनोः प्रत्येकं संहतयोर् अपि क्वचिद् अर्थे साध्ये हेतुभावो दृश्यते। यथैकस्मिन्न् एव शाब्दस्य ज्ञानस्यानुमानत्वे न्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोः, शक्यते हि ताभ्याम् ऐकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम्। द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्ये ऽनेकहेतवः प्रयुज्येरन्। प्रयोक्तारस् त्व् एकम् एव साध्यं किञ्चान्यद् इतश् चेति नानासाधनैस् साधयन्तो दृश्यन्ते। तस्माद् विरोधनिबन्धन एव संशयः, न तु नानात्वनिबन्धन इत्य् अभिप्रायेणाह -- प्रत्येकम् इति। पूर्वं तु प्रत्येकं संशयहेत्वोर् एव मिलितयोर् निर्णयहेतुत्वम् उक्तम्। अत्र तु प्रत्येकं गमकाव् अपि संहतौ च गमकाव् इति प्रतिपादितम् इति

atra bhikṣuṇā pakṣadharmas tadaṃśena vyāpto hetur ity ekavacanena vivakṣitaikasaṅkhya eka eva hetur iti darśitam. ata eva viruddhāvyabhicāriṇor na hetutvam anekatvāt tayor iti. na caitat ghaṭate. na hi pratihetu 3,66 viruddhayor anekatvaṃ saṃśayahetutve hetuḥ, api tarhi parasparaviruddhārthopaplāvakatvam eva. viruddhau hi dvābhyāṃ dvāv arthāv ekatropaplāvitāv iti tatra saṃśerate, na tu hetvanekatvāt. saṃśayahetvor api pratyekam avagatayor ubhayasamāveśād eva kvacin nirṇayo dṛṣṭaḥ. yathā ūrdhvatākākavattvayoḥ. kevalā hy ūrdhvatā sthāṇupuruṣasādhāraṇī nānyataranirṇayāya prabhavati. kākanilayanasahakṛtā tu saiva sthāṇur ayam iti niścāyayati. tad atraikasyaiva saṃśayahetutvaṃ dvābhyām eva tu nirṇaya ity aprayojakaṃ saṃśayahetutve dvitvaṃ, viruddhānekasādhyatvam eva saṃśayahetuḥ. yathā khalv eka eva sādhāraṇas sapakṣavipakṣayor vartamānas saṃśayahetur bhavati. evaṃ viruddhārthasyāpi hetudvayasyāṃśābhyām ubhayavṛttir eva saṃśaye kāraṇam iti na taddvitvena hetutvanirākaraṇaṃ yuktam ity āha -- kvacid iti. nanu yuktaṃ tāvadūrdhvatayā sthāṇupuruṣasandeho bhavatīti, kākavattāmātreṇa na saṃśayo dṛṣṭapūrvaḥ. satyam. yas tu kākavattāmātreṇa sthāṇuṃ siṣādhayiṣati tasyāsau kevalā saṃśayahetuḥ, ūrdhvatāsanāthā tu nirṇāyikety etāvad eva vivakṣitam ity adoṣa iti. api ca avirodhinoḥ pratyekaṃ saṃhatayor api kvacid arthe sādhye hetubhāvo dṛśyate. yathaikasminn eva śābdasya jñānasyānumānatve nvayavyatirekajatvapratyakṣānyapramāṇatvayoḥ, śakyate hi tābhyām aikaikaśyena samastābhyāṃ cānumānatvaṃ sādhayitum. dvitve ca hetvābhāsatvakāraṇe naikasmin sādhye 'nekahetavaḥ prayujyeran. prayoktāras tv ekam eva sādhyaṃ kiñcānyad itaś ceti nānāsādhanais sādhayanto dṛśyante. tasmād virodhanibandhana eva saṃśayaḥ, na tu nānātvanibandhana ity abhiprāyeṇāha -- pratyekam iti. pūrvaṃ tu pratyekaṃ saṃśayahetvor eva militayor nirṇayahetutvam uktam. atra tu pratyekaṃ gamakāv api saṃhatau ca gamakāv iti pratipāditam iti

Sanskrit only: no published translation is held for this verse.

तस्माद् विरुद्धार्थाव् एव भिन्नौ संशयहेतुत्वेन दर्शनीयौ। यथास्माभिर् उक्तं न तु भिन्नतामात्रेणेत्य् आह -- तस्माद् इति। व्याख्यातस्त्रिप्रकारो ३,६७ पि संशयहेतुः विपरीतप्रकारान् प्रतिजानाति - षढा विरुद्धताम् आहुर् इति। धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैः षट्प्रकारां विरुद्धताम् एके ब्रुवत इत्य् अर्थः। अन्ये तूभयविरोधयोः प्रत्येकपक्षानतिरेकात् चातुर्विध्यं प्रतिपन्ना इत्य् आह -- चतुर्धा वेति। वयं तु इष्टविघातमात्रेणैकम् एव प्रकारं सङ्गिरामह इत्य् आह -- एकधापि वेति। पूर्वोक्तपक्षद्वयनिवृत्ताव् अपि वाशब्दः। अपि वा शेषभाजां स्याद् इति पक्षबाध एव विरुद्धत्वे कारणं किम् अवान्तरभेदोपन्यासेनेति। त्रिष्व् अपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धताम् आहुर् इत्य् आह -- श्रुत्यर्थोक्तस्येति। धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास् तु प्रायेणार्थोक्ताः। ते च स्वरूपस्वविशेषाः प्रतिज्ञार्थशब्देनोपादीयन्ते। सर्वे हि ते वक्तुर् अभिप्रेताः। न तु धर्मादिविशेषास् साक्षात् प्रतिज्ञायाम् अन्तर्गताः। तद् अस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर् विरुद्धता भवतीति। तत्पुनर् इदं विप्रतिषिद्धम् इव मन्यामहे। कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर् विरुद्धो भवति। स हि प्रतिज्ञार्थं विरुणद्धीति विरोद्धेति वक्तुम् उचितः, बाधक इति वा। न चायम् एव प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत् प्रसिद्धत्वादस्य। प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम्। अतो बाधक इत्य् एवायं वक्तव्यः। वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्य् उक्तम् इति वेदितव्यम् इति। तत्र धर्मस्वरूपबाधेन तावद् विरुद्धताम् उदाहरति -- नित्यत्वे इति

tasmād viruddhārthāv eva bhinnau saṃśayahetutvena darśanīyau. yathāsmābhir uktaṃ na tu bhinnatāmātreṇety āha -- tasmād iti. vyākhyātastriprakāro 3,67 pi saṃśayahetuḥ viparītaprakārān pratijānāti - ṣaḍhā viruddhatām āhur iti. dharmadharmisvarūpasvaviśeṣobhayasvarūpasvaviśeṣaiḥ ṣaṭprakārāṃ viruddhatām eke bruvata ity arthaḥ. anye tūbhayavirodhayoḥ pratyekapakṣānatirekāt cāturvidhyaṃ pratipannā ity āha -- caturdhā veti. vayaṃ tu iṣṭavighātamātreṇaikam eva prakāraṃ saṅgirāmaha ity āha -- ekadhāpi veti. pūrvoktapakṣadvayanivṛttāv api vāśabdaḥ. api vā śeṣabhājāṃ syād iti pakṣabādha eva viruddhatve kāraṇaṃ kim avāntarabhedopanyāseneti. triṣv api ca prakāreṣu śrutyarthopāttasya pratijñātārthasya bādhāyāṃ viruddhatām āhur ity āha -- śrutyarthoktasyeti. dharmadharmyubhayasvarūpaṃ śrutyuktaṃ, tadviśeṣās tu prāyeṇārthoktāḥ. te ca svarūpasvaviśeṣāḥ pratijñārthaśabdenopādīyante. sarve hi te vaktur abhipretāḥ. na tu dharmādiviśeṣās sākṣāt pratijñāyām antargatāḥ. tad asmin pratijñārthe hetunā bādhyamāne hetor viruddhatā bhavatīti. tatpunar idaṃ vipratiṣiddham iva manyāmahe. kathaṃ hi pratijñārthe hetunā bādhyamāne hetur viruddho bhavati. sa hi pratijñārthaṃ viruṇaddhīti viroddheti vaktum ucitaḥ, bādhaka iti vā. na cāyam eva pratijñārthena bādhyate yadviruddho bhavet prasiddhatvādasya. prasiddhaṃ hi ghaṭasya kṛtakatvaṃ, na tadaprasiddhayā nityatayā bādhituṃ śakyam. ato bādhaka ity evāyaṃ vaktavyaḥ. vārtikakṛtā tu paraprasiddhimātreṇa viruddha ity uktam iti veditavyam iti. tatra dharmasvarūpabādhena tāvad viruddhatām udāharati -- nityatve iti

Sanskrit only: no published translation is held for this verse.

धर्मविशेषबाधस् त्व् एवं प्रयुक्ते भवतीत्य् आह -- बाध इति। तम् एव प्रयोगं दर्शयति -- अर्थवद् इति पादत्रयेण। स्वरूपाभिधानवादिनो ह्य् आहुः -- गौर् अयम् इति शब्दाकारविशिष्टो ऽर्थो ऽवगम्यते। न च विशेषणम् अनभिधाय विशिष्टो ऽभिधातुं शक्यत इति स्वरूपम् एव तावद् आदौ शब्दो ३,६८ भिधत्ते ततो विशिष्टम्। अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेः। स्वरूपं तु न कदाचिद् व्यभिचरति सम्बन्धावधारणात् प्राग् अपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम्। अतः स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधानोत्तरकालं तु विशिष्टाभिधानम् अपि भवतु नामेति। एवं प्रसाध्यान्ते प्रयोगम् आहुः -- शब्दस्वरूपं सम्बन्धावधारणात् प्रागर्थवद् विभक्तिसम्बन्धात्, अगृहीतसम्बन्धो ऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति। यदा च विभक्तियोगः तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात् पश्चाद् इति। कथं पुनर् एवं प्रयुज्यमाने धर्मविशेषबाधो भवत्य् अत आह -- स्वरूपेणेति चाश्रित इति। यदा हि स्वरूपेणार्थेनार्थवत्त्वं प्रथमम् आश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थाद् इदम् अवगम्यते -- स्वरूपार्थवत्त्वम् अस्य सिषाधयिषितम् इति। एवं च भवत्य् अर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति। कथं पुनस् स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते। अत आह -- अस्वरूपेति। विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वम् अविनाभावबलेन शब्दस्यावगमयति, सम्बन्धग्रहणात् पश्चाद् अर्थान्तरस्य दर्शनात्। अतो व्याप्तिबलेन तद् एव विभक्तिमत्तया साध्यते। अतो ऽर्थवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुर् अयं विरुणद्धीति भवति धर्मविशेषबाध इति

dharmaviśeṣabādhas tv evaṃ prayukte bhavatīty āha -- bādha iti. tam eva prayogaṃ darśayati -- arthavad iti pādatrayeṇa. svarūpābhidhānavādino hy āhuḥ -- gaur ayam iti śabdākāraviśiṣṭo 'rtho 'vagamyate. na ca viśeṣaṇam anabhidhāya viśiṣṭo 'bhidhātuṃ śakyata iti svarūpam eva tāvad ādau śabdo 3,68 bhidhatte tato viśiṣṭam. api cārthaśabdo vyabhicarati, ajñātasambandhasya tadanavagateḥ. svarūpaṃ tu na kadācid vyabhicarati sambandhāvadhāraṇāt prāg api tadavagamāt, avyabhicārī ca śabdārtha iti yuktam. ataḥ svarūpaṃ tāvadavaśyābhidheyaṃ śabdānāṃ, tadabhidhānottarakālaṃ tu viśiṣṭābhidhānam api bhavatu nāmeti. evaṃ prasādhyānte prayogam āhuḥ -- śabdasvarūpaṃ sambandhāvadhāraṇāt prāgarthavad vibhaktisambandhāt, agṛhītasambandho 'pi hi svādivibhaktiyuktān śabdānavagacchati. yadā ca vibhaktiyogaḥ tadārthavattvaṃ dṛṣṭaṃ yathā sambandhagrahaṇāt paścād iti. kathaṃ punar evaṃ prayujyamāne dharmaviśeṣabādho bhavaty ata āha -- svarūpeṇeti cāśrita iti. yadā hi svarūpeṇārthenārthavattvaṃ prathamam āśrityārthavattāmātraviśiṣṭaṃ sādhyate, tadārthād idam avagamyate -- svarūpārthavattvam asya siṣādhayiṣitam iti. evaṃ ca bhavaty arthākṣiptasya dharmaviśeṣasya bādha iti. kathaṃ punas svarūpeṇeti cāśrite dharmaviśeṣo bādhyate. ata āha -- asvarūpeti. vibhaktimattvaṃ hi svarūpātirekeṇārthāntareṇārthavattvam avinābhāvabalena śabdasyāvagamayati, sambandhagrahaṇāt paścād arthāntarasya darśanāt. ato vyāptibalena tad eva vibhaktimattayā sādhyate. ato 'rthavattāyā viśeṣaṃ svasvarūpārthavattvaṃ hetur ayaṃ viruṇaddhīti bhavati dharmaviśeṣabādha iti

Sanskrit only: no published translation is held for this verse.

धर्मिस्वरूपबाधोदाहरणम् आह -- इहप्रत्ययेति। यदा हि समवायं धर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकस् साध्यते, इहप्रत्ययहेतुत्वं च हेतुर् उच्यते इहायं घट इति संयोगो दृष्टान्तः, तदा धर्मिस्वरूपबाध इत्य् अभिप्रायः

dharmisvarūpabādhodāharaṇam āha -- ihapratyayeti. yadā hi samavāyaṃ dharmiṇaṃ kṛtvā tasya dravyādivyatirekas sādhyate, ihapratyayahetutvaṃ ca hetur ucyate ihāyaṃ ghaṭa iti saṃyogo dṛṣṭāntaḥ, tadā dharmisvarūpabādha ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

३,६९ कथं पुनर् अत्रोदाहरणे धर्मिस्वरूपबाधः, अत आह -- अत्रापीति। अत्राप्य् उदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद् धेतोर् विरुद्धता भावति। इहप्रत्ययहेतुत्वं ह्य् असमवायात्मन एव दृष्टम् इति ताद्रूप्यं विरुन्ध्याद् इति धर्मिस्वरूपबाध इति

3,69 kathaṃ punar atrodāharaṇe dharmisvarūpabādhaḥ, ata āha -- atrāpīti. atrāpy udāharaṇe dharmisvarūpasya samavāyātmano vaiparītyāpādanād dhetor viruddhatā bhāvati. ihapratyayahetutvaṃ hy asamavāyātmana eva dṛṣṭam iti tādrūpyaṃ virundhyād iti dharmisvarūpabādha iti

Sanskrit only: no published translation is held for this verse.

अस्मिन्न् एव च धर्मिविशेषबाधो ऽपि दर्शयितव्य इत्य् आह -- यच् चेति। समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते। सो ऽप्य् अस्य विशेषः संयोगवद्भेदापत्तेर् बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुर् इति

asminn eva ca dharmiviśeṣabādho 'pi darśayitavya ity āha -- yac ceti. samavāyo hi sattāsāmānyavadekarūpa iti kāṇādā manyante. so 'py asya viśeṣaḥ saṃyogavadbhedāpatter bādhyata iti bhavati dharmiviśeṣaviruddho hetur iti

Sanskrit only: no published translation is held for this verse.

उभयस्वरूपबाधायाम् उदाहरणम् आह -- नित्यम् आत्मास्तितेति। यदा कश्चित् सौत्रान्तिकं प्रत्येवं साधयति -- आत्मा नित्यः निरवयत्वात् व्योमवद् इति, तदा धर्मधर्मिद्वयस्य बाधनं भवति। सौत्रान्तिकस्य ह्य् अवयवाभावो व्योम्न्यभावेनैव सम्बद्धो ऽभिमत इत्यात्मनो ऽपि तद्वदभावं गमयेत्, आवरणाभावमात्रं हि नभः, न पुनस् तत्त्वान्तरम् इति बौद्धा मन्यन्ते। अतो ऽनवयवत्वाद् आत्मनः स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधाद् उभयबाध इति

ubhayasvarūpabādhāyām udāharaṇam āha -- nityam ātmāstiteti. yadā kaścit sautrāntikaṃ pratyevaṃ sādhayati -- ātmā nityaḥ niravayatvāt vyomavad iti, tadā dharmadharmidvayasya bādhanaṃ bhavati. sautrāntikasya hy avayavābhāvo vyomnyabhāvenaiva sambaddho 'bhimata ityātmano 'pi tadvadabhāvaṃ gamayet, āvaraṇābhāvamātraṃ hi nabhaḥ, na punas tattvāntaram iti bauddhā manyante. ato 'navayavatvād ātmanaḥ svarūpasya taddharmasya ca nityatvasya bādhād ubhayabādha iti

Sanskrit only: no published translation is held for this verse.

उभयविशेषबाधस् त्व् एवं साध्यमाने भवतीत्य् आह -- तदेति। यदा हि परार्थाश् चक्षुरादयस् सङ्घातत्वात् शयनादिवद् इति साध्यते, तदोभयविशेषबाध इत्य् अर्थः। कथं पुनर् अत्रोभयविशेषबाधः, अत आह -- शयन इति। शयनीये ३,७० हि खट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वाद् इति हेतुर् व्याप्तो दृष्ट इति संहतपारार्थ्यम् एव साधयेत्। आत्मानं च प्रति पारार्थ्यं साधयितुम् अभिमतम्, तन् न सिध्येत्। सो ऽयं तावत् पारार्थ्यस्य धर्मस्य यो विशेषो ऽभिमत आत्मपारार्थ्यं स तावद् बाध्यते। चक्षुरादेर् अपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सो ऽप्य् अनेनैव हेतुना बाध्यते। संहतात्मकत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस् तन्निदर्शनेन चक्षुरादयो ऽपि भौतिका भवेयुः। आहङ्कारिकाणीन्द्रियाणीति कापिलास् सङ्गिरन्ते, तेषां चायं प्रयोगः। तद् अयम् अर्थः -- संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर् यस्मिन् शयने तत्रात्मपारार्थ्यम् असिद्धम् इति धर्मविशेषबाधनं तावद् भवति। धर्मिविशेषबाधो ऽपि भौतिकव्याप्त्या सूत्रितो ऽनन्तरम् एव विवरिष्यत इति न केवलम् आत्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनो ऽपि संहतता प्राप्नोतीत्य् आह -- असंहतेति। अनेन चानिष्टान्तरापत्तिर् आपादितेति वेदितव्यम्। एतद् उक्तं भवति। नानेन हेतुनासंहतरूपात्मार्थता सिध्यति। प्रत्युत संहततैवात्मनो भवेद् इति

ubhayaviśeṣabādhas tv evaṃ sādhyamāne bhavatīty āha -- tadeti. yadā hi parārthāś cakṣurādayas saṅghātatvāt śayanādivad iti sādhyate, tadobhayaviśeṣabādha ity arthaḥ. kathaṃ punar atrobhayaviśeṣabādhaḥ, ata āha -- śayana iti. śayanīye 3,70 hi khaṭvādau mahābhūtasaṃhataśarīrapārārthyena saṅghātatvād iti hetur vyāpto dṛṣṭa iti saṃhatapārārthyam eva sādhayet. ātmānaṃ ca prati pārārthyaṃ sādhayitum abhimatam, tan na sidhyet. so 'yaṃ tāvat pārārthyasya dharmasya yo viśeṣo 'bhimata ātmapārārthyaṃ sa tāvad bādhyate. cakṣurāder api dharmiṇo yo viśeṣa āhaṅkārikatvaṃ nāma so 'py anenaiva hetunā bādhyate. saṃhatātmakatvaṃ hi śayanādāvanāhaṅkārikatvena vyāptaṃ dṛṣṭam, bhautikā hi te, atas tannidarśanena cakṣurādayo 'pi bhautikā bhaveyuḥ. āhaṅkārikāṇīndriyāṇīti kāpilās saṅgirante, teṣāṃ cāyaṃ prayogaḥ. tad ayam arthaḥ -- saṃhatapārārthyabhautikatvābhyāṃ vyāpto hetur yasmin śayane tatrātmapārārthyam asiddham iti dharmaviśeṣabādhanaṃ tāvad bhavati. dharmiviśeṣabādho 'pi bhautikavyāptyā sūtrito 'nantaram eva vivariṣyata iti na kevalam ātmapārārthyaṃ na sidhyati, asaṃhatarūpātmapārārthye ceṣṭe vyāptibalenātmano 'pi saṃhatatā prāpnotīty āha -- asaṃhateti. anena cāniṣṭāntarāpattir āpāditeti veditavyam. etad uktaṃ bhavati. nānena hetunāsaṃhatarūpātmārthatā sidhyati. pratyuta saṃhatataivātmano bhaved iti

Sanskrit only: no published translation is held for this verse.