साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्धयति । अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्धयेत् । यद्वा तत्सत्यमित्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति ॥ अयमर्थः । तत्सत्यमित्यादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् । ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावो ऽयमिति चेत् । कथं तर्ह्यक्षजादेरपि आत्यन्तिकं प्रामाण्यं न गृह्णीयात् । तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसद्भावादिति । अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति । किंवा क्वचिच्छक्तः क्वचिदशक्तः । आद्यस्योत्तरम् अन्यथेत्यादि । द्वितीयस्योत्तरम् वाक्येति ॥ *४,५८७* स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् । न चैवम् । अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिरजतादिज्ञानवत् । नन्वविद्या किमाश्रितेति चेत् । जीवाश्रितेति ब्रूमः । नन्वत्रापि दूषणमुक्तम्"स्वतो ऽन्यताऽ; इति । नैतदस्ति । तद्भेदस्याप्याविद्यकत्वात् । नच चक्रकादिदोषः । प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् । प्रमिते चार्थे तर्काणामवकाशाभावात् । नच कल्प्याभावदोषः । विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् । तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः । एकजीववादो हि मायावादिनां परं हृदयम् । बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह एकेति ॥ एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा । बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत्
sākṣiṇo nirdoṣajñānarūpatvaśaktyā tathātvamapi siddhayati / anyathā brahmasatyatvādyapi na siddhayet / yadvā tatsatyamityāderātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣī, viśvaviṣayasyākṣajādestu tātkālikameveti kiṃ na syādityata āha nirdoṣeti // ayamarthaḥ / tatsatyamityādijñānasyātyantikaṃ prāmāṇyaṃ gṛhṇāti sākṣītyatra kiṃ nimittam / jñānaṃ gṛhṇan tasya nirdoṣatāyāṃ prāmāṇyamapi gṛhṇātīti sākṣiṇaḥ svabhāvo 'yamiti cet / kathaṃ tarhyakṣajāderapi ātyantikaṃ prāmāṇyaṃ na gṛhṇīyāt / tasyāpi nirdoṣajñānarūpa(tva)śaktisadbhāvāditi / athavā kiṃ sākṣī kutrāpi prāmāṇyamātyantikaṃ grahītuṃ na śaknoti / kiṃvā kvacicchaktaḥ kvacidaśaktaḥ / ādyasyottaram anyathetyādi / dvitīyasyottaram vākyeti // *4,587* syādetadevaṃ yadyakṣajādijñānaṃ nirdoṣaṃ syāt / na caivam / avidyākṛtaprapañcaviṣayatvāt śuktirajatādijñānavat / nanvavidyā kimāśriteti cet / jīvāśriteti brūmaḥ / nanvatrāpi dūṣaṇamuktam"svato 'nyatā'; iti / naitadasti / tadbhedasyāpyāvidyakatvāt / naca cakrakādidoṣaḥ / prapañca(viśva)sya jīvājñānakṛtatvena śrutyādisiddhatvāt / pramite cārthe tarkāṇāmavakāśābhāvāt / naca kalpyābhāvadoṣaḥ / viśvasyaikājñānakṛtatvāṅgīkārāt / tadatiriktajīvajaḍaprapañcasya kalpyatvopapatteḥ / ekajīvavādo hi māyāvādināṃ paraṃ hṛdayam / bahujīvavādastu mandānāmābhimukhyāyāvatārita ityata āha eketi // ekajñānakṛtaṃ viśvamiti yaccoṣyate mṛṣā / bahujñānakṛtaṃ viśvamiti tasyottaraṃ bhavet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.