सत्यशब्दार्थो नित्यमिति ॥ तुशब्दो ऽवधारणे । आदिशब्देन लोहमण्यादेर्ग्रडणम् । यन्मृत्तिकेत्यादि संस्कृतं नामधेयम् तदेव नित्यमिति सम्बन्धः । वैदिकमिति तदुपपादनम् । *४,६३५* ततश्चैवं योजना । वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् । तत एवानित्यम् । कुतः । बहुविधत्वात् । पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् । मृत्तिकेत्यादिनामधेयं वैदिकत्वान्नित्यमनादि चेति । नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः । नामधेयविकारशब्दयोर्नियतलिङ्गत्वात् । वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात् । विशेषणानां च विशेष्यनिघ्नत्वात् । अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् । यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति, वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात् । विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना, तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति । *४,६३८फ़्।* ननु च साङ्केतिकानामनामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते । परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञाने ऽवान्तरप्रकृते ऽस्माकमिवदृष्टान्ते (वो)चोपयोगाभावात् । अतो ऽसङ्गतत्वान्नायं श्रुत्यर्थ इति । मैवम् । यद्यपि परस्येव नेदं दृष्टान्तोपपादकम् । तथापि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते । यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति ॥ *४,६३९* प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञो ऽपि पूरुषः । विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्
satyaśabdārtho nityamiti // tuśabdo 'vadhāraṇe / ādiśabdena lohamaṇyādergraḍaṇam / yanmṛttiketyādi saṃskṛtaṃ nāmadheyam tadeva nityamiti sambandhaḥ / vaidikamiti tadupapādanam / *4,635* tataścaivaṃ yojanā / vācārambhaṇaṃ sāṅketikaṃ nāmadheyaṃ vikāra utpattimat / tata evānityam / kutaḥ / bahuvidhatvāt / puruṣecchānusāreṇāneka(vidha)prakāratvāt / mṛttiketyādināmadheyaṃ vaidikatvānnityamanādi ceti / naca vācārambhaṇaṃ vikāra iti liṅgavaiṣamyadoṣaḥ / nāmadheyavikāraśabdayorniyataliṅgatvāt / vācārambhaṇaśabdasya ca nāmadheyaviśeṣaṇatvāt / viśeṣaṇānāṃ ca viśeṣyanighnatvāt / ata eva sāṅketyamityeva vaktavye sāṅketyanāmetyavocat / yadā tu vācā yasyārambhaṇaṃ tannāmadheyaṃ vikāro janimaditi, vācā nāmnāmārambhaṇaṃ vividhākāraḥ, ākārākāriṇorabhedāt / vikāritvādutpattivināśavaditi yāvaditi vā granthāntaroktā yojanā, tadā(tu) liṅgavyatyāsaśaṅkaiva nāstīti / *4,638f.* nanu ca sāṅketikānāmanāmutpattivināśavattvaṃ saṃskṛtanāmnāmanādinityatvaṃ kimarthamatrocyate / paramaprakṛte brahmavijñānena sarvavijñāne 'vāntaraprakṛte 'smākamivadṛṣṭānte (vo)copayogābhāvāt / ato 'saṅgatatvānnāyaṃ śrutyartha iti / maivam / yadyapi parasyeva nedaṃ dṛṣṭāntopapādakam / tathāpi brahmajñānena sarvavijñāne dṛṣṭāntāntaratayopayokṣyate / yathā tena tadvijñātaṃ syāditi, prakṛtānuvṛtterityāśayavānāha prādhānyāditi // *4,639* prādhānyāt tatparijñānāt prākṛtājño 'pi pūruṣaḥ / vidvānityucyate sadbhirevaṃ nityaparātmavit
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.