वसतेः पचाद्यच् । वसतीति वसः । तनोतेरौणादिको डिप्रत्ययः । तनोतीति तिः । "वर्णागमो वर्णविपर्ययश्चऽ; इति पूर्वपदस्य नकारागमः । वसंश्चासौ तिश्चेति वसन्तिः । व्याप्तो वर्तत इत्यर्थः । तत्सम्बुद्धिर्वसन्ते । द्विरुक्तिरादरार्था । *४,११२* विगतच्छादनत्वात् तु गच्छ ॥। अमेश्छदेश्च डोऽन्यत्रापि दृश्यत इति डप्रत्ययः । गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छस्तस्य सम्बुद्धिर् गच्छ । ऽइन्द्रागच्छेऽत्यादिव्याख्यानमेतत् । *४,११५* ॥। भूतक्षयङ्करः । भुङ्क्षेत्युक्तो हरिर् ॥। सुशब्दो भूतशब्दस्यादेशः क्षयशब्दस्य च क्ष्वः पूर्वपदस्य मकारागमः । पृष्टोदरादिरयम् । यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः । अयमपि सम्बुद्ध्यतः । *४,११७* ॥। हुं च हुतमस्मिन् जगद् यतः
vasateḥ pacādyac / vasatīti vasaḥ / tanoterauṇādiko ḍipratyayaḥ / tanotīti tiḥ / "varṇāgamo varṇaviparyayaśca'; iti pūrvapadasya nakārāgamaḥ / vasaṃścāsau tiśceti vasantiḥ / vyāpto vartata ityarthaḥ / tatsambuddhirvasante / dviruktirādarārthā / *4,112* vigatacchādanatvāt tu gaccha ... ameśchadeśca ḍo'nyatrāpi dṛśyata iti ḍapratyayaḥ / gaṃ vigataṃ, chaṃ chādanamavidyādikaṃ yasmādasau gacchastasya sambuddhir gaccha / 'indrāgacche'tyādivyākhyānametat / *4,115* ... bhūtakṣayaṅkaraḥ / bhuṅkṣetyukto harir ... suśabdo bhūtaśabdasyādeśaḥ kṣayaśabdasya ca kṣvaḥ pūrvapadasya makārāgamaḥ / pṛṣṭodarādirayam / yadvā kṣi kṣaya ityasmāt ḍvapratyayaḥ / ayamapi sambuddhyataḥ / *4,117* ... huṃ ca hutamasmin jagad yataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.