भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः । किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् । *४,७८* एतदेव विवृणोति स्वातन्त्र्यमिति ॥ स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम् । अनुशासनप्रयोगयोरुभयत्र साम्यात् । तस्माद्दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः । *४,७९* अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम् । किं त्वमुख्यमेव । तत्र प्रयोगस्याप्रचुरत्वात् । प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् । तथाच दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात्"तत्तु समन्वयात्ऽ; इत्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति ॥ स्वातन्त्र्यं तत्र मुख्यं स्यात् ॥। तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात् । नतु तद्गतत्वमित्यर्थः । *४,८०* स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् । तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बादकमाह कुत इति ॥ ॥। कुतो राज्ञि जयो ऽन्यथा
bhṛtyasamavetasya parājayasya rājādhīnatvena yathā rājñi parājayaḥ parājayanimittakaḥ parājayītiśabdo vartate parājayī bhadrasena iti tathetyarthaḥ / kiñca svāmyasambandhena matubarthāpravṛttau gomāndevadatta ityādikamapi na syāt / *4,78* etadeva vivṛṇoti svātantryamiti // svātantryaṃ tadgatatvaṃ ca śabdavṛtterhi kāraṇam yasmāt pravṛttinimittānāṃ duḥkhādīnāṃ tadgatatvamiva paragateṣu svātantryamapi duḥkhyādiśabdapravṛtteḥ kāraṇam / anuśāsanaprayogayorubhayatra sāmyāt / tasmādduḥkhyādiśabdā api uktārthāpattibalāttadadhīnatvahetuto brahmaṇi vartanta iti sambandhaḥ / *4,79* astu svātantryamapi śabdapravṛttinimittam / kiṃ tvamukhyameva / tatra prayogasyāpracuratvāt / prayogaprācuryāttadgatatvameva mukhyam / tathāca duḥkhyādiśabdānāṃ jīvādiṣveva mukhyatvādbrahmaṇyamukhyatvāt"tattu samanvayāt'; ityanupapannamityata āha svātantryamiti // svātantryaṃ tatra mukhyaṃ syāt ... tatra svātantryatadgatatvayormadhye svātantryameva mukhyaṃ śabdapravṛttinimittaṃ syāt / natu tadgatatvamityarthaḥ / *4,80* svātantryamapi śabdapravṛttikāraṇamiti mukhyamiti ca krameṇa pratijñātam / tatkrameṇaivopapipādayiṣuḥ svātantryasya kāraṇatvānabhyupagame bādakamāha kuta iti // ... kuto rājñi jayo 'nyathā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.