अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः । कथम् । स्वधामोपविष्ये राज्ञि जयः कुतः, न कुतो ऽपि यतः, इत्यर्थः । जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् । न चैवम् । तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति । लक्षणया प्रयोगो ऽस्त्विति चेन्न । तदस्यास्तीति निमित्तसाम्यात् । अन्यथा वैपरीत्यस्याप्यापातात् । पराजयस्य प्रकृतत्वे ऽपि जयग्रहणं व्याप्त्यर्थम् । *४,८२* स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति ॥ नहि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते । यावद् राज्ञ्यन्यगत्वे ऽपि स्वातन्त्र्याभासमात्रतः
anyathā svātantryasya śabdapravṛttikāraṇatvābhāve, rājñi jayo jayanimittako jayiśabdaḥ kutaḥ / katham / svadhāmopaviṣye rājñi jayaḥ kutaḥ, na kuto 'pi yataḥ, ityarthaḥ / jayasya rājagatatvābhāvātsvātantryamapi yadi śabdapravṛttinimittaṃ na syāt tadā nimittābhāvādrājñi jayiśabdapravṛttirna syāt / na caivam / tasmātsvātantryamapi kāraṇamaṅgīkaraṇīyamiti / lakṣaṇayā prayogo 'stviti cenna / tadasyāstīti nimittasāmyāt / anyathā vaiparītyasyāpyāpātāt / parājayasya prakṛtatve 'pi jayagrahaṇaṃ vyāptyartham / *4,82* svātantryasya mukhyakāraṇatvamupapādayati na hīti // nahi bhṛtyasya vijayiśabdastāvat prayujyate / yāvad rājñyanyagatve 'pi svātantryābhāsamātrataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.